समाधिगुणः
अन्यधर्माणामन्यत्राऽऽरोपणं समाधिः उच्यते । दण्डिनोऽप्ययमेवाऽऽशयः । वामनस्त्वारोहाऽवरोहक्रमस्समाधिरिति व्याचख्यौ । आरोहो नाम गुर्वक्षराधिक्यं, अवरोहस्तु लघ्वक्षराधिक्यमिति तस्याऽऽश्यः । यथा –
- पृच्छन्ती दुग्धासिन्धुं कुशलमनुसरन्त्यादराच्छंकराद्रिं
- चाटूक्त्यामानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
- वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
- लोकेषु त्रिष्वमीषु प्रभवति महतीवीररुद्रस्य कीर्तिः ॥
अत्राऽचेतनायां कीर्तौ कुशलप्रश्नकरणादि - चेतनधर्मारोपात् समाधिर्विद्यते ।