समुद्रगुप्त: (३३५-३८०) भारतस्य सम्राट् आसीत्‌। सः चन्द्रगुप्तस्य पुत्रः आसीत्। तस्य अन्ये अग्रजाः अपि आसन् । परन्तु स एव पित्रा राज्यस्य रक्षणार्थं नियुक्त:।

समुद्रगुप्त:
समुद्रगुप्तः
समुद्रगुप्तः
राज्यम्
कालः क्रि.पू ३३५-३७४
राज्याभिषेकः
पूर्वजः चन्द्रगुप्तः
उत्तराधिकारी रामगुप्तः
राज्ञी दत्तदेवी
वंशः
वंशः गुप्त
पिता चन्द्रगुप्तः
माता कुमारदेवी
परिवारः
भार्या(ः)
पुत्राः रामगुप्तः चन्द्रगुप्तः
दुहितारः

साम्राज्यम् सम्पादयतु

सः महान् राजा आसीत्। सः प्रथमम् अहिच्छत्रस्य राजानम् अच्युतम् अजयत्। ततः सः दक्षिणभारतस्य नृपान् जितवान्। ते नृपा: गुप्तनृपाणाम् अधिपत्यम् अङ्गीकृत्य उपायनानि समर्पितवन्त: । तस्य सेना काञ्चीपुरीपर्यन्तं सञ्चलनम् अकरोत्। पश्चिमायाम् दिशि शककुशानादयः तस्य अधिपत्यम् अङ्गीकृतवन्तः। तस्य विजयानाम् उल्लेख: प्रयागे एकस्मिन् हरिशेनलिखितशिलाक्षरे वर्णित: अस्ति।

योगदानम् सम्पादयतु

सः अष्टविधाः सुवर्णनिष्काः विदधाति स्म। सः सीकाकरणे कुशलता कुशानराज्ञः गृहीतवान्। सः कलाम् विद्याम् च अरक्षत्। सः सङ्गीतविद्वान् आसीत्। सः वीणां वादयति स्म। तस्य सभायाम् अनेके विद्वांसः कवयः च आसन्। सः सनातनधार्मिकः आसीत् परन्तु सः गयायाम् बौधमठस्य निर्माणं कर्तुम् अनुमतवान् आसीत् । अस्मिन् कर्मणि अन्यधर्मान् प्रति तस्य सहिष्णुता दृश्यते।

"https://sa.wikipedia.org/w/index.php?title=समुद्रगुप्तः&oldid=443969" इत्यस्माद् प्रतिप्राप्तम्