समोऽहं सर्वभूतेषु...

भगवद्गीतायाः श्लोकः ९.२९


श्लोकः सम्पादयतु

 
गीतोपदेशः
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवविंशतितमः(२९) श्लोकः ।

पदच्छेदः सम्पादयतु

समः अहं सर्वभूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु च अपि अहम् ॥२९ ॥

अन्वयः सम्पादयतु

अहं सर्वभूतेषु समः । द्वेष्यः मे न अस्ति, प्रियः न । ये तु मां भक्त्या भजन्ति ते मयि अहं तेषु च अपि ।

शब्दार्थः सम्पादयतु

सर्वभूतेषु = सकलभूतेषु
अहं समः = अहं तुल्यः
मे = मम
द्वेष्यः न अस्ति = वैरी नास्ति
न प्रियः = प्रीतिविषयः नास्ति
ये तु = ये च
मां भक्त्या = मां प्रीत्या
भजन्ति = सेवन्ते
ते मयि = ते मयि वर्तन्ते
अहं तेषु च अपि = अहं तेषु अपि वर्ते ।

अर्थः सम्पादयतु

अहं सर्वेषु अपि प्राणिषु समानः । न मे कुत्रचित् द्वेषो वर्तते । नापि कुत्रचित् प्रीतिः । किन्तु ये मां भजन्ति तेषामहं शैत्यपीडितानाम् अग्निरिव उपकारको भवामि । तेऽपि मया उपकृताः भवन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=समोऽहं_सर्वभूतेषु...&oldid=418858" इत्यस्माद् प्रतिप्राप्तम्