सम्भाषणम्:संस्कृतम्

There are no discussions on this page.
(सम्भाषणम्:संस्कृतभाषा इत्यस्मात् पुनर्निर्दिष्टम्)
                                                अथर्वसूत्कनां संक्षिप्तपरिचय:

संस्कृतसाहित्ये वेदनां स्थानं सर्वोपरि वर्त्तते | भारते धर्मव्यवस्था वेदायता एव | वेद: धर्मनिरूपणे स्वतन्त्रभावेन प्रमाणम् | श्रुतिस्मृत्यो: विरोधे श्रुति: एव गरीयसी | न केवलं धर्ममूलकत्वेनैव वेदा: समादृता: अपितु विश्वेअस्मिन् सर्वप्राचीनग्रन्थत्वेन एते परिगण्यन्ते | वेदेषु – ज्ञान – विज्ञान – दर्शन – सदाचार – संस्कृति – नैतिक – सामाजिक – राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोअस्ति | ‘वेद’ इतिपदस्य प्रयोगो मन्त्रब्राह्मणयोमिलितस्वरूपमुच्यते | आपस्तम्बे प्रोत्कञ्च मन्त्रब्राह्मणयोर्वेदनामधेयम् | “इष्टप्राप्त्यनिष्टपरिहायोरलौकिकमुपायं यो वेदयति स: वेद:” इति सायणेन ऋग्वेदभाष्यभूमिकायामुत्कम् | भगवता पतञ्जलिनापि “चत्वारो वेदा: साङ्गा: सरहस्या:” इति पस्पशाह्निके स्पष्टमुत्कम | यथा-ऋग्वेद: यजुर्वेद: सामवेद: अथर्ववेदश्र्चेति वर्णिता: सन्ति | तेषु अथर्ववेद: अन्यतमोअस्ति | (१) भैषज्यसूत्कानि-

   अस्मिन् प्रकरणे रोगानां चिकित्सासम्बन्धिनां मन्त्राणां तथा विधिविशेषाणामन्तर्भावो भवति| रोगाणामुत्पतिरनेककष्टप्रदानां रक्षोभूतपिशाचदिनां कृतोपद्रवेणैव भवति | विविधरोगाणां          

लक्षणं तथा तद्रोगेण समुत्पन्नशारिरीकविकारणां विशदवर्णनञ्चायुर्वौदिकदृष्टया विशेषमहत्वपूर्णमस्ति | अथर्ववेदे ‘तक्मा:’ ज्वरस्वैव नाम अस्ति | बलास: (क्षयादि) रोग: गण्डमाला यक्ष्मा प्रभृतिरोगाणां दूरीकारणाय वरुणनामकस्योषधे: सेवनेन उपकारो मिलति |

(२) पौष्टिकसूत्कानि-

      अस्य विभागस्यान्तर्गता गृहनिर्माणाय सीरकर्षणाय बिजवपनाय अन्नोंत्पादनाय पुष्टयर्थं विदेशगमनाय व्यापारहेतवे नानाविधाशीर्वादाय प्रार्थना कृताअस्ति | अस्मिन् विषये सर्वाधिकं महत्वपूर्णसूत्कम् अस्ति वृष्टिसूत्कम् | अस्मिन सूत्के वृष्ट्या: अतीवरमणीयं साहित्यिकं तथा समुज्ज्वलं वर्णनमस्ति |                                                                                     

(३) स्त्रीकर्मणिसूत्कानि-

     विवाहविषयाकाणि प्रेमविषयकाणि च बहुनि सूत्कानि अस्मिन वेदे सन्ति | एतानि सूत्कानि  तात्कालिकसमाजस्य स्वरूपज्ञानाय विषेशरूपेण सहायकानि भवन्ति | एतेषु सूत्केषु पुत्रोत्पादनाय सद्यजातशिशो: रक्षणाय च भव्यप्रार्थनापि मिलति | अनेन प्रसङ्गेन चतुर्दशकाण्डं विषेशरूपेण सम्बद्धितमस्ति |  अनेनैव क्रमेणाथर्ववेदस्य मन्त्रेषु मारणमोहनोच्चाटनवशीकरणादीनां क्रियाणां प्रयोगा: वर्णिता: सन्ति | कौशिकसूत्रे अभिचारिकक्रियाणां प्रयोगोपायो वर्णितोअस्ति |                

(४) राजकीयसूत्कानि-

     राजभि: साम्बद्धानि बहुनि सूत्कानि अथर्ववेदे समुपलब्धानि सन्ति | एतेषां सूत्कानामध्ययनेन तत्कालिकराजनैतिकस्थित्या: विशद्चित्रणं समुपलब्धं भवति | शत्रूणां विनाशाय     

प्रार्थनया सह संग्रामस्य तथा तदुपयोगिनां साधनानां यथा – रथ – दुन्दुभि – शड्खादिनां विशेषविवरणं संग्रामिकदृष्ट्याअप्यथर्ववेदस्य महत्वमुद्धोषयति | अथर्ववेदस्य ‘क्षत्रवेद:’ इति नामकरणस्योदमेव कारणमस्ति | अथर्ववेदस्य सूत्के मानवै: सह अश्विना – मित्रावरुणा – मरुत् - वरुणादिद्वारेण राज्ञ: संवरणस्य वर्णनमस्ति | अन्धसूत्केन ज्ञातं भवति यद्येशात् निष्कासितो राजा पुन: राज्ये सम्मानपूर्वकं प्रतिष्ठितो भवति |

     उपसंहार- अथर्ववेदे  विविधसूत्कानां वर्णनमस्ति | अस्मिन सुक्ते मानवजीवनस्य कल्याण       

तथा इहलौकिक आमुष्मिक: च विषय: वर्णितोअस्ति | मनुष्यजीवनस्य कार्यकलाप: तथा मारणमोहनोच्चाटनादि-विषय: सविस्तृतभावेन वर्णिता भवन्ति | विभिन्नानां सामाजिकराजनैतिक- जीवनोपयोगिविषयाणां सन्निवेशोअस्ति | नारीणां विविधकर्मणां विवरणमत्र वर्णितमस्ति | अथर्ववेदसूत्कानि वात-पित-कफादिजनितरोगाणां चिकित्सापद्धतिविषये सविस्तृतभावेन वर्णनं कुर्वन्ति | अत: अथर्ववेद: ऐहिक- आमुष्मिक-लौकिक-पारलौकिकविषयाणां एकत्र समावेशेन महनीय:|

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:संस्कृतम्&oldid=448659" इत्यस्माद् प्रतिप्राप्तम्
पृष्ठ "संस्कृतम्" पर वापस जाएँ।