सम्भाषणम्:संस्कृतम्
अथर्वसूत्कनां संक्षिप्तपरिचय:
संस्कृतसाहित्ये वेदनां स्थानं सर्वोपरि वर्त्तते | भारते धर्मव्यवस्था वेदायता एव | वेद: धर्मनिरूपणे स्वतन्त्रभावेन प्रमाणम् | श्रुतिस्मृत्यो: विरोधे श्रुति: एव गरीयसी | न केवलं धर्ममूलकत्वेनैव वेदा: समादृता: अपितु विश्वेअस्मिन् सर्वप्राचीनग्रन्थत्वेन एते परिगण्यन्ते | वेदेषु – ज्ञान – विज्ञान – दर्शन – सदाचार – संस्कृति – नैतिक – सामाजिक – राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोअस्ति | ‘वेद’ इतिपदस्य प्रयोगो मन्त्रब्राह्मणयोमिलितस्वरूपमुच्यते | आपस्तम्बे प्रोत्कञ्च मन्त्रब्राह्मणयोर्वेदनामधेयम् | “इष्टप्राप्त्यनिष्टपरिहायोरलौकिकमुपायं यो वेदयति स: वेद:” इति सायणेन ऋग्वेदभाष्यभूमिकायामुत्कम् | भगवता पतञ्जलिनापि “चत्वारो वेदा: साङ्गा: सरहस्या:” इति पस्पशाह्निके स्पष्टमुत्कम | यथा-ऋग्वेद: यजुर्वेद: सामवेद: अथर्ववेदश्र्चेति वर्णिता: सन्ति | तेषु अथर्ववेद: अन्यतमोअस्ति | (१) भैषज्यसूत्कानि-
अस्मिन् प्रकरणे रोगानां चिकित्सासम्बन्धिनां मन्त्राणां तथा विधिविशेषाणामन्तर्भावो भवति| रोगाणामुत्पतिरनेककष्टप्रदानां रक्षोभूतपिशाचदिनां कृतोपद्रवेणैव भवति | विविधरोगाणां
लक्षणं तथा तद्रोगेण समुत्पन्नशारिरीकविकारणां विशदवर्णनञ्चायुर्वौदिकदृष्टया विशेषमहत्वपूर्णमस्ति | अथर्ववेदे ‘तक्मा:’ ज्वरस्वैव नाम अस्ति | बलास: (क्षयादि) रोग: गण्डमाला यक्ष्मा प्रभृतिरोगाणां दूरीकारणाय वरुणनामकस्योषधे: सेवनेन उपकारो मिलति |
(२) पौष्टिकसूत्कानि-
अस्य विभागस्यान्तर्गता गृहनिर्माणाय सीरकर्षणाय बिजवपनाय अन्नोंत्पादनाय पुष्टयर्थं विदेशगमनाय व्यापारहेतवे नानाविधाशीर्वादाय प्रार्थना कृताअस्ति | अस्मिन् विषये सर्वाधिकं महत्वपूर्णसूत्कम् अस्ति वृष्टिसूत्कम् | अस्मिन सूत्के वृष्ट्या: अतीवरमणीयं साहित्यिकं तथा समुज्ज्वलं वर्णनमस्ति |
(३) स्त्रीकर्मणिसूत्कानि-
विवाहविषयाकाणि प्रेमविषयकाणि च बहुनि सूत्कानि अस्मिन वेदे सन्ति | एतानि सूत्कानि तात्कालिकसमाजस्य स्वरूपज्ञानाय विषेशरूपेण सहायकानि भवन्ति | एतेषु सूत्केषु पुत्रोत्पादनाय सद्यजातशिशो: रक्षणाय च भव्यप्रार्थनापि मिलति | अनेन प्रसङ्गेन चतुर्दशकाण्डं विषेशरूपेण सम्बद्धितमस्ति | अनेनैव क्रमेणाथर्ववेदस्य मन्त्रेषु मारणमोहनोच्चाटनवशीकरणादीनां क्रियाणां प्रयोगा: वर्णिता: सन्ति | कौशिकसूत्रे अभिचारिकक्रियाणां प्रयोगोपायो वर्णितोअस्ति |
(४) राजकीयसूत्कानि-
राजभि: साम्बद्धानि बहुनि सूत्कानि अथर्ववेदे समुपलब्धानि सन्ति | एतेषां सूत्कानामध्ययनेन तत्कालिकराजनैतिकस्थित्या: विशद्चित्रणं समुपलब्धं भवति | शत्रूणां विनाशाय
प्रार्थनया सह संग्रामस्य तथा तदुपयोगिनां साधनानां यथा – रथ – दुन्दुभि – शड्खादिनां विशेषविवरणं संग्रामिकदृष्ट्याअप्यथर्ववेदस्य महत्वमुद्धोषयति | अथर्ववेदस्य ‘क्षत्रवेद:’ इति नामकरणस्योदमेव कारणमस्ति | अथर्ववेदस्य सूत्के मानवै: सह अश्विना – मित्रावरुणा – मरुत् - वरुणादिद्वारेण राज्ञ: संवरणस्य वर्णनमस्ति | अन्धसूत्केन ज्ञातं भवति यद्येशात् निष्कासितो राजा पुन: राज्ये सम्मानपूर्वकं प्रतिष्ठितो भवति |
उपसंहार- अथर्ववेदे विविधसूत्कानां वर्णनमस्ति | अस्मिन सुक्ते मानवजीवनस्य कल्याण
तथा इहलौकिक आमुष्मिक: च विषय: वर्णितोअस्ति | मनुष्यजीवनस्य कार्यकलाप: तथा मारणमोहनोच्चाटनादि-विषय: सविस्तृतभावेन वर्णिता भवन्ति | विभिन्नानां सामाजिकराजनैतिक- जीवनोपयोगिविषयाणां सन्निवेशोअस्ति | नारीणां विविधकर्मणां विवरणमत्र वर्णितमस्ति | अथर्ववेदसूत्कानि वात-पित-कफादिजनितरोगाणां चिकित्सापद्धतिविषये सविस्तृतभावेन वर्णनं कुर्वन्ति | अत: अथर्ववेद: ऐहिक- आमुष्मिक-लौकिक-पारलौकिकविषयाणां एकत्र समावेशेन महनीय:|
Start a discussion about संस्कृतम्
विकिपीडिया की सामग्री को यथासम्भव रूप से सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। संस्कृतम् में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरम्भ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।