प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सरलादेवी चौधुराणी ( /ˈsərəlɑːdɛv xɔːðʊrɑːn/) (वङ्ग: সরলা দেবী চৌধুরানী, हिन्दी: सरलादेवी चौधुराणी) वङ्गप्रदेशीया क्रान्तिकारिणी आसीत् । सा रवीन्द्रनाथ ठाकुर इत्यस्य भागिनेयी (niece) आसीत् । सा आङ्ग्लविरोधीनि कार्याणि अकरोत् परन्तु एकवारमपि कारावासस्य दण्डं तस्यै न अयच्छन् आङ्ग्लाः । इतिहासकाराः वदन्ति यत्, “रवीन्द्रनाथस्य आङ्ग्लसर्वकारेण सह मधुरसम्बन्धः आसीत् । अतः आङ्ग्लाः तस्य भागिनेय्यै कदापि कारवासस्य दण्डं नायच्छन्” इति ।

Sarala Devi Chaudhurani
सरलादेवी चौधुराणी
Sarala Devi Chaudhurani.jpg
सरलादेवी चौधुराणी
जन्म ९/९/१८७२
कोलकाता-महानगरं, वङ्गप्रदेशः
मृत्युः ८/८/१९४५
शिक्षणस्य स्थितिः Bethune College Edit this on Wikidata
वृत्तिः साहित्यकारः&Nbsp;edit this on wikidata
भार्या(ः) रामभूज दत्त चौधरी
अपत्यानि दीपक दत्त चौधरी

जन्म, परिवारश्चसम्पाद्यताम्

१८७२ तमस्य वर्षस्य 'सितम्बर'-मासस्य नवमे (९/९/१८७२) दिनाङ्के पश्चिमबङ्गालराज्यस्य कोलकाता-महानगरे सरलादेव्याः जन्म अभवत् । तस्याः पितुः नाम जानकीनाथ घोषाल, मातुः नाम स्वर्णकुमारी आसीत् । सरलादेव्याः पितरौ स्वतन्त्रता-सङ्ग्रामस्य सक्रियकार्यकर्तारौ आस्ताम् । पिता जानकीनाथः बङ्गाल-कोङ्गेस-पक्षस्य सदस्यः आसीत् । माता स्वर्णकुमारी प्रख्यातलेखिका आसीत् । स्वर्णकुमारी रवीन्द्रनाथस्य अग्रजा आसीत् ।

१९०१ तमे वर्षे तस्याः विवाहः पञ्जाबराज्यस्य आर्यसमाजस्य नेत्रा रामभुज दत्त चौधुराणी इत्यनेन सह अभवत् । सः पञ्जाबराज्यस्य सक्रियक्रान्तिकारिषु अन्यतमः आसीत् । तयोः पुत्रस्य नाम दीपक दत्त आसीत् । दीपकः महात्मनः पौत्र्या राधया सह विवाहम् अकरोत् ।

शिक्षणम्सम्पाद्यताम्

१८८६ तमे वर्षे सा कोलकाता-विश्वविद्यालये प्रवेशं प्रापत् । १८९० तमे वर्षे बी.ए.-पदवीम् (आङ्ग्लविषये) अलभत । तस्मिन् वर्षे सा सुवर्णपदकम् अपि प्राप्तवती आसीत् ।

भारतस्वतन्त्रान्दोलने योगदानम्सम्पाद्यताम्

सरलादेव्याः पितरौ स्वातन्त्र्यक्रान्तिकारिणौ आस्ताम् । अतः राष्ट्रभक्तिः सरलादेव्याः रक्ते आसीत् । पञ्चविंशतितमे वयसि सा वङ्गभाषायाः ‘भारती’-नामिकायाः क्रान्तिकारिपत्रिकायाः सम्पादनकार्यं प्रारभत । वर्षद्वयं यावत् सा 'भारती'-पत्रिकायाः सम्पादनकार्यम् अकरोत् । ततः सा साक्षात् स्वातन्त्र्यान्दोलने भागम् अवहत् । सा एकं गीतम् अलिखत् । तत् गीतं देशभक्तिभावजनकम् आसीत् इति कोङ्ग्रेस-पक्षस्य सप्तदशे अधिवेशने तत् गीतं सर्वे अगायन् ।

लक्ष्मीभण्डार-केन्द्रस्य स्थापनासम्पाद्यताम्

रवीन्द्रनाथस्य अनुजः सत्येन्द्रनाथः महाराष्ट्रराज्ये निवसति स्म । सरलादेवी महाराष्ट्रराज्ये मातुलस्य गृहम् अगच्छत् । महाराष्ट्रराज्ये दामोदर चाफकर इत्यनेन स्थापितया शारीरिक-नैतिकप्रशिक्षण-संस्थया सा प्रभावता अभवत् । सा दृढसङ्कल्पम् अकरोत् यत्, “वङ्गप्रदेशं गत्वा अहमपि एतादृशीं संस्थां स्थापयिष्ये” इति । कोलकाता-महानगरं प्राप्य सा स्वगृहे एव शारीरिक-नैतिकप्रशिक्षण-केन्द्रं प्रारभत ।

१९०० तमे वर्षे तया लक्ष्मीभण्डार-केन्द्रस्य स्थापना कृता । स्वदेशी-आन्दोलने तत् केन्द्रमपि तस्याः योगदानम् आसीत् । तस्मिन् केन्द्रे खादि-वस्त्रसम्बन्धीनि कार्याणि भवन्ति स्म ।

सुहृद्-समित्याः अध्यक्षासम्पाद्यताम्

१९०१ तमे वर्षे वङ्गप्रदेशस्य मेमणसिंह-मण्डले एका समाजसेविनी 'सुहृद् समितिः' कार्यरता आसीत् । परन्तु वङ्गप्रदेशस्य विभाजनेन सा समितिः राजनैतिककार्याणि प्रारभत । अरविन्द घोष, बिपिनचन्द्र पाल, सुबोध मलिक इत्यादयः तस्याः समित्याः सभ्याः आसन् । तस्याः समित्याः नेतृत्वं सरलादेवी स्व्यकरोत् । सा धार्मिककार्यक्रमस्य माध्यमेन जनमनसि राष्ट्रभावनायाः बीजारोपणस्य कार्यम् अकरोत् । देशभक्तिगीत-नाटक-कथा-माध्यमेन सुहृद्-समित्याः कार्यकर्तृभ्यः सा प्रशिक्षणं यच्छति स्म । शस्त्र-शास्त्र-युद्धादीनां प्रशिक्षणमपि तत्र भवति स्म । पञ्जाबराज्यस्य बहुषु स्थानेषु तया आर्यसमाजस्य स्त्रीशाखायाः आरम्भः कृतः । सरलादेव्याः कार्याणि आङ्ग्लसर्वकारविरोधिनी आसन् । अतः आङ्ग्लसर्वकारः तस्याः कार्याणि ज्ञातुं गुप्तचरम् अपि न्ययुङ्क्त ।

१९०८ तमस्य वर्षस्य ‘मई’-मासस्य प्रथमे (१/५/१९०८) दिनाङ्के लाहोर-महानगरे तया भाषणं कृतं यत्, “प्रत्येकोऽपि भारतवासी देशं प्रति निष्ठायाः शपथं स्वीकुर्यात् । स्वस्य पूर्वजेभ्यः श्रद्धां वर्धेत । भारतस्य प्राचीनस्मारकानि रक्षयित्वा इतिहासस्य अध्ययनं कुर्यात् । भारतीयभाषाणाम् अध्ययनं कुर्यात्” इति । तत् भाषणं लाला लाजपतराय इत्यनेन अपि श्रुतम् आसीत् ।

वर्तमानपत्रमाध्यमेन तया आङ्ग्लविरोधीनि कार्याणि क्रियमाणानि आसन् । सा लाहोर-महानगरात् प्रकाशितस्य 'हिन्दुस्थान'-समाचरपत्रस्य सञ्चालनं करोति स्म । सर्वकारविरोधिसाहित्यस्य निर्माणं तत्रैव सा करोति स्म । 'हिन्दुस्थान'-साचारपत्रस्य मुद्रणकार्यार्थं षड् मुद्रणयन्त्राणि आसन् । तेषु षड् यन्त्रेषु त्रीणि यन्त्राणि सर्वकारविरोधिपत्रिकायै आसन् । अन्यानि त्रीणि यन्त्राणि सामान्यकार्येभ्यः आसन् । आङ्ग्लसर्वकारद्वारा यदि एकस्य भागस्य मुद्रणकार्यं स्थगितं भवति स्म, तर्हि अन्यभागे कार्यं भवितुम् अर्हति स्म ।

अहिंसकान्दोलने योगदानम्सम्पाद्यताम्

महात्मनः सम्पर्केण सरलादेवी अहिंकमार्गं प्रति अगच्छत् । तया क्रान्तिकारिप्रवृत्तिः त्यक्ता । महात्मना स्थापिते साबरमती आश्रमे सा निवासम् अकरोत् । खादि-वस्त्रधारणं, तन्तुकरणयन्त्रेण नित्यं खादि-वस्त्रनिर्माणं च तस्याः विचारपरिवर्तनम् अकरोत् । आश्रमे स्थित्वा तया आश्रमकार्येषु सहयोगः कृतः । महात्मना प्रेरितेषु अनेकेषु आन्दोलनेषु तस्याः योगदानम् आसीत् ।

१९१९ तमे वर्षे पञ्जाबराज्ये जलियावालाबाग इत्यस्य निर्ममहत्याकाण्डस्य विरोधं सरलादेवी अपि अकरोत् । महात्मा यदा जलियाववालाबाग-स्थलं गतः आसीत्, तदा सरदादेव्याः गृहे एव निवासम् अकरोत् ।

मृत्युःसम्पाद्यताम्

१९४५ तमस्य वर्षस्य 'अगस्त'-मासस्य अष्टादशे (८/८/१९४५) दिनाङ्के द्विसप्ततिवयसि सरलादेव्याः निधनम् अभवत् । स्वतन्त्रभारतं द्रष्टुं न शक्तवती सा । परन्तु स्वतन्त्रभारतस्य जनेभ्यः सा प्रेरणा अस्ति । तस्याः कार्याणि स्त्रीशक्त्याः बोधं कारयन्ति । नेतृत्वस्य अदम्यशक्तिः, निर्णयशक्तिः, निर्भयता इत्यादयः तस्याः मुख्यगुणाः आधुनिकयुगे अस्माभिः अपि अनुसरणीया एव ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=सरलादेवी_चौधुराणी&oldid=318097" इत्यस्माद् पुनः प्राप्तिः