प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सरस्वतीकण्ठाभरणम् (ग्रन्थः)

(सरस्वतीकण्ठाभरणम् इत्यस्मात् पुनर्निर्दिष्टम्)


सरस्वतीकण्ठाभरणम् (Saraswatheekantaabharanam) इति ग्रन्थः भोजदेवेन लिखितः। अस्मिन् ग्रन्थे ५ परिच्छेदाः सन्ति । एतस्मिन् ६४३ कारिकाः सन्ति । सरस्वतीकण्ठाभरणस्य रत्नेश्वरेण १५०० वै. प्रणीता रत्नदर्पणाख्या व्याख्या लभ्यते तृतीयपरिच्छेदान्ता । चतुर्थस्य हि परिच्छेदस्य जगद्धरविरचिता टीका, चतुर्थपञ्चमयोः जीवानन्दप्रणीता व्याख्या च लभ्यन्ते।

अन्तर्विषयाः

विषयवस्तुसम्पाद्यताम्

सरस्वतीकण्ठाभरणे हि पञ्च परिच्छेदाः यत्र प्रथमे दोषगुणयोः विवेचनम्। तत्र पदगताः षोडश, वाक्यगताः षोडश, वाक्यार्थगताः षोडशेति अष्टचत्वारिंशद्दोषाः विवेचिताः । एवमेव शब्दगता पञ्च, अर्थगताश्चतुवंशतिः इत्यष्टचत्वारिंशद्गुणाः निरूपिताः सन्ति । द्वितीये हि परिच्छेदे चतुर्विंशतिः शब्दालङ्काराः, तृतीयेऽर्थालङ्काराः, चतुर्थे उभयालङ्काराः, पञ्चमे हि रस-भाव-सन्धि-धृत्तीनां निरूपणम् ।

दोषाःसम्पाद्यताम्

तत्र हि -

ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम्।

यस्याः सूक्ष्मादिभेदेन वाग्देवी तामुपास्महे।।[१]

षोड्शपदगतदोषाः -

असाधु चाप्रयुक्तञ्च कष्टं चानर्थकं च यत्।

अन्यार्थकमपुष्टार्थमसमर्थं तथैव च।।

अप्रतीतमथ क्लिष्टं गुढं नेयार्थमेव च।

सन्दिग्धञ्च विरुद्धञ्च प्रोक्तं यथाप्रयोजकम्।।

देश्यं ग्राम्यमिति स्पष्टा दोषाः स्युः पदसंश्रयाः।।[२]

षोडशवाक्यदोषाः -

शब्दहीनं क्रमभ्रष्टं विसन्धि पुनरुक्तिमत्।

व्याकीर्णं वाक्यसङ्कीर्णमपदं वाक्यगर्भितम्।।

द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे।

भग्नच्छन्दो यती च द्वे अशरीरमरीतिमत्।।[३]

वाक्यार्थदोषाः यथा -

अपार्थं व्यर्थमेकार्थमसंशयमपक्रमम्।

खिन्नं चैवाभिमात्रञ्च परुषं विरसं तथा।।

हीनोपमं भवेच्चान्यमधिकोपममेव च ।

असहक्षोपकं चान्यदप्रासिद्धोपमं तथा।।

निरलङ्कारमश्लीलं विरुद्धमिति षोडश।।[४]

एवं पदानां वाक्यानां वाक्यार्थानाञ्च यः कविः।

दोषान् हतया वेत्ति स काव्यं कर्तुमर्हति।।[५]

त्रिविधाश्च गुणाः काव्ये बाह्या अभ्यन्तरा वैशेषिकाश्च । बाह्याः शब्दगुणाः, अभ्यन्तरा अर्थगुणाः, वैशेषिकास्तु दोषत्वेऽपि ये गुणाः ।

अलङ्कृतमपि श्रव्यं न काव्यं गुणवर्जितम् ।

गुणयोगस्तयोर्मुख्यो गुणालङ्कारयोगयोः॥[६]

चतुविंशतिराख्यातास्तेषु ये शब्दसंश्रयाः।

ते च यथाश्लेषः प्रसादः समता माधुर्यं सुकुमारता।।

अर्थव्यक्तिस्तथा कान्तिरुदारत्वमुदारता।

ओजस्तथान्यदौवित्यं प्रेयानथ सुशब्दता ।।

तद्वत्समाधिः सौम्यञ्च गाम्भीर्यमथ विस्तरः।

सङ्क्षेपः सम्मितत्वञ्च भाविकत्वं गतिस्तथा।

रीतिरुक्तिस्तथा प्रोढि ••••••••••••••••••••••••।।[७]

त एव वाक्यार्थगुणाः । दोषा अपि प्रकरणवशाद्गुणाः भवन्ति ।

किञ्चिदाश्रयसम्बद्धाद् धत्ते शोभामसाध्वपि ।

कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ।।[८]

अलङ्काराःसम्पाद्यताम्

ये हि शब्दमलङ्कर्तुं क्षमास्ते शब्दालङ्काराश्चतुर्विंशतिः । ते च जाति-गति-रीति-वृत्ति-छाया-मुद्रा-उक्ति-युक्ति-भणिति-गुम्फना-शय्या-पठित-यमक-श्लेष-अनुप्रास-चित्र-वाकीवाक्य-प्रहेलिका-गूढ-प्रश्न-उत्तर-आध्येय-श्रव्य-प्रेक्ष्य-अभिनीतयश्च ।

अर्थालङ्काराश्च जाति-विभावना-हेतु-अहेतु-सूक्ष्म-उत्तर-विरोध-सम्भव-अन्योन्य-परिवृत्ति-निदर्शना-भेद-समाहित-भ्रान्ति-वितर्क-मीलित-स्मृति-भावाः प्रत्यक्ष-उपमान-अनुमान-शब्द-अर्कायत्ति-अभावाश्च । एवञ्च -

शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते।

विशिष्टोऽर्थः कवीनां ता उभयालङ्क्रियाः प्रियाः॥[९]

ते च उपमा-रूपक-साम्य-संशयोक्ति-अपह्नुति-समाध्युक्ति-समासोक्ति-उत्प्रेक्षा-अप्रस्तुत-प्रस्तुतितुल्ययोगिता-उल्लेख-सहोक्ति-समुच्चय-साक्षेप-अर्थान्तरन्यास-विशेष-परिष्कृति-दीपक-क्रम-पर्याय-अतिशय-श्लेष-भाविक-संसृष्टयश्चतुर्विंशतिः ।

रसाःसम्पाद्यताम्

एवं हि रसविषयेऽपि भोजस्य दृष्टिः विलक्षणैव । यथा -

नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रुतिः।

अवलौकिकार्था युक्तिश्च रसमाहर्तुमीशते।।

वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयम्।

सर्वासु ग्राहिणीं तासु रसोक्तिं प्रतिजानते।।[१०]

चतुविंशतिरित्युक्ता रसाम्वयविभूतयः।

स्वरूपमासां यो वेद स काव्यं कर्तुमर्हति।।[११] इति।

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. १/१
  2. १/४-५
  3. १/१८,१९
  4. १/४५-४७
  5. १/५८
  6. १/५९
  7. १/६२-६५
  8. १/१०६
  9. ४/१
  10. ५/७-८
  11. ५/१२