सर्वकर्माण्यपि सदा...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
- मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्पञ्चाशत्तमः(५६) श्लोकः ।
पदच्छेदः
सम्पादयतुसर्वकर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः मत्प्रसादात् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥
अन्वयः
सम्पादयतुसर्वकर्माणि अपि मद्व्यपाश्रयः सदा कुर्वाणः मत्प्रसादात् अव्ययं शाश्वतं पदम् अवाप्नोति ।
शब्दार्थः
सम्पादयतु- सर्वकर्माणि = निखिलकर्तव्यानि
- मद्व्यपाश्रयः = मदाश्रयः
- कुर्वाणः = आचरन्
- मत्प्रसादात् = मदनुग्रहात्
- अव्ययम् = अविनाशि ।
अर्थः
सम्पादयतुसः नित्यनैमित्तिकानि सर्वाण्यपि कर्माणि कुर्वन् मामेव आश्रयं मन्यमानः क्रमेण मदनुग्रहादेव मम अनश्वरं पदं प्राप्नोति ।