श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य चतुःषष्टितमः(६४) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्ट असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥

अन्वयः सम्पादयतु

दृढं मे इष्टः असि इति सर्वगुह्यतमं मे परमं वचः भूयः शृणु । ततः ते हितं वक्ष्यामि ।

शब्दार्थः सम्पादयतु

सर्वगुह्यतमम् = अत्यन्तगोपनीयम्
परमम् = प्रकृष्टम्
वचः = वाक्यम्
भूयः = पुनः
इष्टः = अभिमतः
हितम् = श्रेयस्करम्
वक्ष्यामि = वदिष्यामि ।

अर्थः सम्पादयतु

अत्यन्तं गोपनीयं मम प्रकृष्टं वचनं पुनः शृणु । त्वं मम अत्यन्तम् इष्टः असि । तस्मात् तव यत् श्रेयस्करं तत् वदिष्यामि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वगुह्यतमं_भूयः...&oldid=418862" इत्यस्माद् प्रतिप्राप्तम्