सर्वद्वारेषु देहेऽस्मिन्...


श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वद्वारेषु देहे अस्मिन् प्रकाशः उपजायते ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वम् इति उत ॥ ११ ॥

अन्वयः सम्पादयतु

अस्मिन् देहे सर्वद्वारेषु यदा ज्ञानं प्रकाशः उपजायते तदा सत्त्वं विवृद्धम् उत इति विद्यात् ।

शब्दार्थः सम्पादयतु

सर्वद्वारेषु = सकलेन्द्रियेषु
ज्ञानम् = ज्ञानरूपम्
प्रकाशः = ज्योतिः
उपजायते = उद्भवति
विवृद्धम् = प्रवृद्धम्
विद्यात् = जानीयात् ।

अर्थः सम्पादयतु

पुरुषस्य यदा श्रोत्रचक्षुःप्रभृतिभिः इन्द्रियैः पदार्थस्य यदा यथावत् ज्ञानं भवति तदा तस्मिन् सत्त्वगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु