श्लोकः सम्पादयतु

 
गीतोपदेशः
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्थः(४) श्लोकः ।

पदच्छेदः सम्पादयतु

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महत् योनिः अहं बीजप्रदः पिता ॥ ४ ॥

अन्वयः सम्पादयतु

कौन्तेय ! सर्वयोनिषु याः मूर्तयः सम्भवन्ति तासां योनिः महत् ब्रह्म अहं बीजप्रदः पिता ।

शब्दार्थः सम्पादयतु

सर्वयोनिषु = सकलयोनिषु
मूर्तयः = शरीराणि
सम्भवन्ति = जायन्ते
महत् ब्रह्म = प्रकृतिः
योनिः = कारणम्
बीजप्रदः = गर्भाधायकः ।

अर्थः सम्पादयतु

अर्जुन ! नाना योनिषु यानि शरीराणि सम्भवन्ति तेषां माता प्रकृतिः । अहं तु परमात्मा गर्भाधायकः इति पिता ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सर्वयोनिषु_कौन्तेय...&oldid=418872" इत्यस्माद् प्रतिप्राप्तम्