सर्वस्य चाहं हृदि...
भगवद्गीतायाः श्लोकः १५.१५
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।'
- वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
सम्पादयतुसर्वस्य च अहं हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनं च वेदैः च सर्वैः अहम् एव वेद्यः वेदान्तकृत् वेदवित् एव च अहम् ॥ १५ ॥
अन्वयः
सम्पादयतुअहं सर्वस्य च हृदि सन्निविष्टः । मत्तः एव स्मृतिः ज्ञानम् अपोहनं च । सर्वैः वेदैः च अहम् एव वेद्यः वेदान्तकृत् वेदवित् च ।
शब्दार्थः
सम्पादयतु- सन्निविष्टः = संस्थितः
- स्मृतिः = स्मरणम्
- अपोहनम् = अपहरणम्
- मत्तः = मत्प्रभावात्
- वेद्यः = ज्ञेयः
- वेदान्तकृत् = उपनिषत्कारकः
- वेदवित् = वेदाभिज्ञः ।
अर्थः
सम्पादयतुअहं सर्वेषामपि हृदये तिामि । मत्प्रभावात् एव सर्वेषां स्मृतिः ज्ञानम्, तयोः नाशश्च । अहमेव सकलैः वेदैः ज्ञेयः । अहमेव उपनिषदां कर्ता । अहमेव वेदज्ञश्च ।