प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भारतीयसर्वोच्चन्यायालयः

(सर्वोच्चन्यायालयः इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीयसर्वोच्चन्यायलयः ( /ˈsərvtʃənjɑːjɑːləjəh/) (हिन्दी: भारत का उच्चतम न्यायालय, आङ्ग्ल: Supreme Court of India) भारतस्य मुख्यं न्यायमन्दिरम् अस्ति । भारतदेशे न्यायं प्राप्तुं भारतीयसर्वोच्चन्यायलयः सर्वोन्नतस्थानमस्ति । एषः राज्यानां, केन्द्रशासितप्रदेशानाम्, उच्चन्यायलयानां कृते न्यायं करोति । राज्ययोः मध्ये उद्भूतविवादानां, मानवीयमूलभूताधिकाराणाम्, अन्यमुख्यविषयाणाञ्च न्याययाचिका अत्र भवति । १९५० तमे वर्षे ‘जनवरी’-मासस्य षड्विंशतितमे (२६) दिनाङ्के सर्वोच्चन्यायालयस्यास्य स्थापना अभूत् । देहली-नगरस्य तिलकमार्गे स्थितमस्ति एतन्न्यायमन्दिरम् । “यतो धर्मस्ततो जयः” इति संस्कृतग्रन्थस्य महाभारतस्य नीतिवाक्यं न्यायमन्दिरस्य ध्येयसूत्रमस्ति । सर्वोच्चन्यायलयस्य भवनं यदा निर्माणाधीनमासीत्, तदा न्यायप्रकिया संसदि चलति स्म । ततः न्यायालयस्य नवभवने स्थानान्तरम् अभवत् ।

भारतीयसर्वोच्चन्यायालयः
Supreme Court of India
Emblem of the Supreme Court of India.svg
प्रतिष्ठा २८ जनवरी, १९५०
देशः  भारतम्
राज्यम्/नगरम् नवदेहली
भौगोलिक-
स्थितिः
२८°३७′२०″उत्तरदिक् ७७°१४′२३″पूर्वदिक् / 28.622237°उत्तरदिक् 77.239584°पूर्वदिक् / २८.६२२२३७; ७७.२३९५८४
संरचनापद्धतिः विशेषचयनम् (योग्यतानुसारम्)
अनुमोदित भारतस्य संविधानम्
विचारयाचना भारतस्य राष्ट्रपतिः
विचारकास्य
कार्यकालः
६५ वर्षपर्यन्तम् (आयुः)
विचारकसंख्या ३१(३०+१)
जालस्थानम् sci.nic.in
॥ यतो धर्मस्ततो जयः ॥
वर्तमान न्यायमूर्तिश्रीः एच् एल् दत्तू [१]
कार्यरतः २९ सितम्बर २०१४
पदसमाप्तिः २ दिसम्बर २०१५

अन्तर्विषयाः

भवनम्सम्पाद्यताम्

१९५७ तमे वर्षे संसदः नूतनभवने स्थानान्तरितः सर्वोच्चन्यायालयः । भवननिर्माणस्य कल्पना मुख्यवास्तुशिल्पिना ‘गणेश भीखाजी देवलालीकर’ इत्येतन्महानुभावेन कल्पितासीत् । सः स्वतन्त्रभारतस्य प्रप्रथमः केन्द्रियलोकनिर्माणविभागस्य (Central Public Works Department - CPWD) प्रमुखः आसीत् । न्यायभवनं स्थापत्यकलायाः उत्तमोदाहरणमस्ति । भवननिर्माणे प्राचीनाधुनिकशैल्योः उपयोगः कृतोऽस्ति । भवनदर्शनेन भारतीयमूलसंस्कृतेः दर्शनं भवति । यथा सर्वोच्चन्यायालयस्य स्तूपः (Dome) मौर्यकालीनकलायाः प्रतिकः अस्ति । द्वाविंशतिः (२२) एकर् (Acre) विस्तृतत्रिकोणाकारभूमौ (triangular plot) न्यायमन्दिरभवनं निर्मितम् अस्ति । भवनस्याकारः न्यायदेव्याः प्रतिकृतिः अस्ति । न्यायदेव्याः कल्पनाचित्रं यदा वयं पश्यामः, तदा तस्याः हस्ते तोलनं, तोलनस्य पात्रे च पश्यामः । तोलनस्य यत् केन्द्रं भवति, तस्य मध्यबिन्दुः विशालस्तूपरूपेण निर्मितोऽस्ति । तस्य स्तूपस्य साक्षादधः मुख्यन्यायमूर्तिः विराजते । अस्य भावः अस्ति यत्, न्यायप्रक्रिया तटस्था । तोलनपात्रवत् ययोः प्रकोष्ठयोः रचना कृतास्ति, तयोः प्रकोष्ठयोः अपि न्यायप्रक्रिया चलति । प्रप्रथमराष्ट्रपतिना ‘डा. राजेन्द्र प्रसाद’-वर्येण १९५४ तमस्य वर्षस्य ‘अक्टोबर्’-मासस्य एकोनत्रिंशत् (२९) तमे दिनाङ्के सर्वोच्चन्यायालयस्य शिलान्यासः कृतः आसीत् । सर्वोच्चन्यायालयः नवदेहलीमहानगरस्य तिलकमार्गे स्थितः अस्ति । सर्वोच्चन्यायालयस्य पूर्वे मथुरामार्गः, पश्चिमे तिलकमार्गः, उत्तरे तिलकसेतुः, दक्षिणे भगवानदासमार्गः च अस्ति ।

इतिहासःसम्पाद्यताम्

न्यायतन्त्रस्य विकासस्तु वेदकालात् प्रचलितः अस्ति । न्यायस्य (धर्मस्य) विचारः वेदेभ्यः गृहीतः अस्ति । वेदेषूल्लिखितनियमानां धर्मसूत्रत्वेन सरलतया प्रतिपादनमभूत् । तेषु धर्मसूत्रेषूपयुक्तः धर्मशब्दः नियम-दायित्व-कर्तव्यादीनां बोधं कारयति । तेषु वेदेषु, धर्मसूत्रेषु च चर्चितनियमेषु मनुष्यजीवनस्य भिन्नेषु स्तरेषु कर्तव्याकर्तव्ययोः, यमनियमयोः, प्रवृत्त्यप्रवृत्त्योः च मार्गः कः भवेत् इत्येतस्य मार्गदर्शनमस्ति । तेषु वेदेषु, धर्मसूत्रेषु च राज्ञः, न्यायकर्तॄणां च कृतेऽपि कर्तव्याकर्तव्ययोः, यमनियमयोः, प्रवृत्त्यप्रवृत्त्योः सुमार्गः चिह्नितः अस्ति । समये व्यतीते सति न्याय इत्येनं विषयं विस्तारेण प्रतिपादयितुं भिन्नग्रन्थानां रचना अभूत् । तेषु अर्थशास्त्रस्य रचनां कौटिल्‍य: अकरोत् । विदुषां मतमस्ति यत् ३०० B.C. पूर्वम् अस्य ग्रन्थस्य रचना अभूत् इति । अर्थशास्त्रस्य तृतीयेऽध्याये द्वयोः व्यक्त्योः व्यवहारः (Transaction) कीदृशः भवितव्यः इति प्रतिपादितमस्ति । अर्थशास्त्रस्य रचनापश्चात् याज्ञवल्क्यस्मृतिः, पाराशरस्मृत्यादिग्रन्थानां रचनाभूत् । ततः इस्लाम-न्यायप्रक्रियायाः, आङ्ग्ल-न्यायप्रक्रियायाः च विकासः अभूत् । भारतस्य पराधीनतायाः पूर्वं मुख्यतया अर्थशास्त्रादिग्रन्थाः एव न्यायप्रक्रियायाः मार्गदर्शकाः आसन् । ततः तेषां ग्रन्थानां भिन्नासु भाषासु अनुवादे सति अन्यग्रन्थानामपि उपयोगः आरब्धः । धर्मनिरपेक्षन्यायतन्त्रस्य आवश्यकतायां सति भारतीयसंविधानस्य रचनाभूत् । भारतीयसंविधानस्य पञ्चमभागान्तर्गतस्य चतुर्थाध्याये लिखितनियमानुसारं सर्वोच्चन्यायालयस्य स्थापना कृता अस्ति । भारतीयसंविधानस्य १२४ अनुच्छेद-तः १४७ अनिच्छेद-पर्यन्तं सर्वोच्चन्यायालयस्य रचनासम्बद्धाः नियमाः सन्ति । भारतीयसंविधानानुसारं न्यायप्रणालिः धर्मनिरपेक्षा, सर्वेभ्यः समाना च । सर्वोच्चन्यायालयस्य मुख्योद्देशः भारतीयसंविधानस्य रक्षणं, भारतीयसंविधानानुसारं न्यायप्रक्रियायाः निर्वहणञ्च ।

सर्वोच्चन्यायालये महत्वपूर्णांशाःसम्पाद्यताम्

भारतमातुः क्रोडे गणतन्त्ररूपी बालकस्य मूर्तिःसम्पाद्यताम्

उच्चन्यायलयस्य पुरः स्थिते उद्याने दशाधिकद्विशतं (२१०) से.मी. उन्नता, कृष्णवर्णीया कांस्यमूर्तिः स्थापिता अस्ति । एतस्याः कांस्यमूर्त्याः स्थापना १९७८ तमस्य वर्षस्य ‘फेब्रुवरी’-मासस्य विंशतितमे (२०) दिनाङ्के अभूत् । मूर्तौ अङ्किता माता भारतमाता अस्ति । भारतमातुः क्रोडे (on lap) स्थितः बालकः भारतस्य गणतन्त्रम् अस्ति । सः बालकः एकं पुस्तकम् उद्घाट्य पठन् अस्ति । तत् पुस्तकं भारतीयसंविधानमस्ति । पुस्तके चिह्नितः तोलनचित्रं "सर्वेभ्यः समन्यायः" इत्यस्य लक्ष्यस्य प्रतीकः अस्ति । एतां मूर्तिं महान् शिल्पकारः श्रीचिन्तामणिवर्यः निर्मितवान् ।

धर्मचक्रचिह्नम्सम्पाद्यताम्

अशोकस्य राजधान्यां स्थितस्य स्तम्भस्य उपरि तक्षितानि चित्राणि धर्मचक्रचिह्ने सन्ति । चक्रमिदं द्वात्रिंशत् (३२) अराणां (अरः - spokes) धातृ अस्ति । तस्य चक्रस्याधः चतुर्मुखसिंहस्य चित्रमस्ति । तस्य चतुर्मुखसिंहस्याधः संस्कृतभाषायाम् “यतो धर्मस्ततो जयः” इति उपदेशः लिखतः अस्ति । एषः उपदेशः सर्वोच्चन्यायालयस्य ध्येयवाक्यमस्ति । अस्य उपदेशस्य न्यायालयेन गृहीतः अर्थः अस्ति यत्, “अहं केवलं सत्यम् अनुगृह्णामि” (Truth alone I uphold.) इति । आहत्य एतत् चिह्नं धर्मचक्र-सत्य-समानताः प्रतिपादयति । एतत् धर्मचक्रचिह्नं न्यायाधीशस्य आसन्दस्य पृष्ठभित्तौ अपि दृश्यते ।

सर्वोच्चन्यायालये न्यायदेव्याः मूर्तिः, हस्तनिर्मितानि चित्राणि, ऐतिहासिकचित्राणि च सन्ति ।

न्यायाधीशाःसम्पाद्यताम्

सर्वोच्चन्यायालयाय एकस्य मुख्यन्यायाधीशस्य, सप्त न्यायाधीशानाञ्च भारतीयसंविधाने घोषणा अस्ति । ततः सङ्ख्यावर्धनस्य आवश्यकतायां सत्यां सङ्ख्यायाः निर्णयः संसदि भवेत् इत्यपि निर्धारितमस्ति । न्यायाधीशानां सङ्ख्या १९६० तमे वर्षे १४, १९७८ तमे वर्षे १८, १९८६ तमे वर्षे २६, २००८ तमे वर्षे ३१ अभूत् ।

न्यायधीशपदाय योग्यतासम्पाद्यताम्

  • व्यक्तिः भारतीयनागरिकः स्यात् ।
  • नूनातिनूनं पञ्चवर्षं यावत् उच्चन्यायालये न्यायाधीशः, द्व्यधिकयोः न्यायालययोः पञ्चवर्षं यावत् न्यायाधीशः स्यात् वा ।
  • कस्मिन्नपि न्यायालये दशवर्षं यावत् अधिवक्तृरूपेण कार्यं कृतं स्यात्, राष्ट्रपतेः मते प्रतिष्ठितविधिवेत्ता स्यात् वा ।

नियुक्तिःसम्पाद्यताम्

सर्वोच्चन्यायालयस्य सर्वेषां न्यायमूर्तीनां नियुक्तिः राष्ट्रपतेः परामर्शेण भवति । राष्ट्रपतेः परामर्शस्य याचनायाः पूर्वं चत्वारः वरिष्ठन्यायाधीशाः स्वपरामर्शं ददति । तैः परामर्शितानां न्यायाधीशानां सूचिः राष्ट्रपतेः पुरतः उपस्थाप्यते । राष्ट्रपतिः रिक्तस्थानानुगुणं उचितन्यायाधीशानां चयनं कृत्वा नियुक्तिं करोति ।

कार्यकालःसम्पाद्यताम्

सर्वोच्चन्यायलयस्य न्यायाधीशानां निवृत्तेः आयुः पञ्चषष्ठिः (६५) वर्षाणि सन्ति । न्यायाधीशान् पदात् उच्चाटयितुं न्यायाधीशस्य दुर्व्यवहारिता, असमर्थता वा साधनीया भवति । ततः संसदः सत्रद्वये बहुमतेन प्रस्तावस्य समर्थने सति, राष्ट्रपतिना तस्य न्यायाधीशस्य नियुक्तिः निरस्ता क्रियते ।

वर्तमानन्यायधीशाःसम्पाद्यताम्

  1. मुख्यन्यायमूर्तिः श्रीः राजेन्द्र मल लोढ़ा
  2. न्यायमूर्तिः श्रीः डी. के. जैन
  3. न्यायमूर्तिः श्रीः जी. एस. सिङ्घवी
  4. न्यायमूर्तिः श्रीः आफताब आलम
  5. न्यायमूर्तिः श्रीः एच. एल. दत्तू
  6. न्यायमूर्तिः श्रीः बलबीर सिंह चौहान
  7. न्यायमूर्तिः श्रीः ए के पटनायक
  1. न्यायमूर्तिः श्रीः टी. एस. ठाकुर
  2. न्यायमूर्तिः श्रीः के. एस. पी. राधाकृष्णन्
  3. न्यायमूर्तिः श्रीः सुरिन्दर सिंह निज्जर
  4. न्यायमूर्तिः श्रीः स्वतन्त्र कुमार
  5. न्यायमूर्तिः श्रीः चन्द्रमौली कुमार प्रसाद
  6. न्यायमूर्तिः श्रीः हेमन्त गोखले
  7. न्यायमूर्तिः श्रीः ज्ञानसुधा मिश्रा
  8. न्यायमूर्तिः श्रीः अनिल रमेश दवे
  1. न्यायमूर्तिः श्रीः सुधांशु ज्योति मुखोपाध्याय
  2. न्यायमूर्तिः श्रीः रञ्जना प्रकाश देसाई
  3. न्यायमूर्तिः श्रीः जगदीश सिंह खेहर
  4. न्यायमूर्तिः श्रीः दीपक मिश्रा
  5. न्यायमूर्तिः श्रीः जस्ती चेलामेस्वर
  6. न्यायमूर्तिः श्रीः एफ. एम. इब्राहिम कलीफुल्ला
  7. न्यायमूर्तिः श्रीः रङ्गन गोगोई
  8. न्यायमूर्तिः श्रीः मदन भीमराव लोकुर

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्

उद्धरणम्सम्पाद्यताम्