सर् अलेक्साण्डर् प्लेमिङ्ग्
(कालः – ०६. ०८. १८८१ तः ११. ०३. १९५५)
सर् अलेक्साण्डर् प्लेमिङ्ग्>FRSE, FRS, FRCS(Eng) | |
---|---|
जननम् |
Lochfield, Ayrshire, Scotland | ६ १८८१
मरणम् |
११ १९५५ London, England | (आयुः ७३)
नागरीकता | United Kingdom |
देशीयता | Scottish |
कार्यक्षेत्राणि | Bacteriology, immunology |
मातृसंस्थाः |
Royal Polytechnic Institution St Mary's Hospital Medical School Imperial College London |
विषयेषु प्रसिद्धः | Discovery of penicillin |
प्रमुखाः प्रशस्तयः | Nobel Prize in Physiology or Medicine (1945) |
हस्ताक्षरम् |
एषः सर् अलेक्साण्डर् प्लेमिङ्ग् (Sir Alexander Fleming) जीवनिरोधकस्य संशोधकः । अयं सर् अलेक्साण्डर् प्लेमिङ्ग् १८८१ वर्षे अगस्टमासस्य ६ दिनाङ्के स्काट्लेण्ड्-देशस्य कस्मिंश्चित् कुग्रामे जन्म प्राप्नोत् । तस्य पिता कश्चित् निर्धनः कृषिकः आसीत् । निर्धनत्वात् एषः सर् अलेक्साण्डर् प्लेमिङ्ग् अधिकं शिक्षणं प्राप्तुं न शक्नोति स्म । किन्तु तस्य भाग्यं सम्यक् आसीत् । बाल्ये तस्य जीवने प्रवृत्ता काचित् घटना तस्य जीवनस्य दिक् एव पर्यवर्तयत् । सः सर् अलेक्साण्डर् प्लेमिङ्ग् कदाचित् कस्यचित् धनिकस्य वाटिकायां कार्यं कुर्वन् आसीत् । तदा नातिदूरे विद्यमानात् तडागात् कश्चन शब्दः पुनः पुनः श्रुतः । सः कः शब्दः इति ज्ञातुम् एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तडागस्य समीपम् अगच्छत् । तत्र तडागे कश्चन बालः पतितः आसीत् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् उत्तमः तरणपटुः अपि आसीत् । अतः सः तं बालकम् अरक्षत् । एतं विषयं ज्ञातवान् तस्य बालकस्य पिता एतं सर् अलेक्साण्डर् प्लेमिङ्गं गृहम् आहूय सत्कारम् अकरोत् । अग्रे अपि किमपि साहाय्यम् आवश्यकं चेत् मां पृच्छतु इत्यपि अवदत् । तदा एषः सर् अलेक्साण्डर् प्लेमिङ्ग् निस्सङ्कोचं “मया वैद्येन भवितव्यम्” इति अवदत् । अस्य सर् अलेक्साण्डर् प्लेमिङ्गस्य निर्धनत्वम् अवगत्य सः धनिकः वैद्यशिक्षणस्य आनुकूल्यम् अकल्पयत् । एवं प्रकारेण १९०८ वर्षे एषः सर् अलेक्साण्डर् प्लेमिङ्ग् वैद्यपदवीं प्राप्नोत् । तस्य शिक्षणस्य व्यवस्थां कृतवान् यः सः अग्रे इङ्ग्लेण्ड्-देशस्य प्रधानी यः अभवत् तस्य विन्स्टर् चर्चिलस्य पिता ।
एषः सर् अलेक्साण्डर् प्लेमिङ्ग् वैद्यपदव्याः प्राप्तेः अनन्तरं रोगकारकाणां ब्याक्टीरियाणाम् अध्ययने रतः अभवत् । १९२८ तमे वर्षे लण्डन्-नगरस्य सैण्ट्-मेरीस्-वैद्यालयस्य प्रयोगालये प्रयोगनिरतः आसीत् । ब्याक्टीरियाः ’डिप्तीरिया’, ’न्युमोनिय’, ’मेनिन् जैटिस्’ सदृशाणां रोगाणाम् औषधं भवेयुः वा इति प्रयोगं कुर्वन् आसीत् । तदवसरे सः कदाचित् पीनसेन पीडितः आसीत् । तदा अपि रोगकारकाणां ब्याक्टीरियाणाम् अध्ययनं कुर्वन् आसीत् । तदा अकस्मात् नासिकातः एकं बिन्दुमात्रं सिङ्गाणं तेषां ब्याक्टीरियाणाम् उपरि अपतत् । प्रयोगः नष्टः इति मत्वा सः सर् अलेक्साण्डर् प्लेमिङ्ग् तं प्रयोगं तत्रैव त्यक्त्वा गृहम् अगच्छत् । सप्ताहानन्तरं यदा स्वस्थः अभवत् तदा पुनः प्रयोगालयं प्रत्यागतः । तदा तेषां ब्याक्टीरियाणाम् उपरि “बूस्ट्” वर्धितम् आसीत् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तत् न क्षिप्तवान् । तदपि सूक्ष्मदर्शकेण पर्यशीलयत् । तदा तेन अवलोकितं यत् यत्र बूस्ट् वर्धितम् आसीत् तत्र ब्याक्टीरियाः एव न आसन् । पुनः यदा सूक्ष्मरूपेण पर्यशीलयत् तदा तत्र वर्धितं सुपिष्टकादीनाम् उपरि वर्धमानं शिलीन्ध्रम् इति ज्ञातम् । तेन बूस्ट् इत्याख्येषु ब्याक्टीरियानाशस्य शक्तिः अस्ति इति अवगतम् । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् तान् बूस्ट् इत्याख्यान् “पेनिस्लियम्” इति अवदत् । ततः प्राप्यमाणं जीवनिरोधकं “पेनिसिलिन्” इति च अवदत् । ब्याक्टीरियाः ’डिप्तीरिया’, ’न्युमोनिय’, ’मेनिन् जैटिस्’ सदृशाणां रोगाणाम् औषधं भवेयुः वा इति पुनः पुनः मूषकाणां, शशाणां कृते सूच्यौषधं दत्त्वा परीक्षाम् अकरोत् । तेषां मूषकाणां, शशाणां च रोगः अपगतः ।
एषः सर् अलेक्साण्डर् प्लेमिङ्ग् प्रथमस्य महायुद्धस्य समये रायल्-आर्मि-मेडिकल्-कोर् प्रविष्टवान् । रोगाणूनां विरुद्धस्य युद्धे “लैसोजेम्” नामकाणां ब्याक्टीरियाणां नाशकं किञ्चित् "प्रोटीन्" संशोधितं १९२२ तमे वर्षे । निरन्तरं कृतेन प्रयोगेण अयं सर् अलेक्साण्डर् प्लेमिङ्ग् पेनिसिलिन् श्वेतरक्तकणान् न नाशयति इत्यपि संशोधितवान् । एतान् सर्वान् अपि विषयान् १९२९ तमे वर्षे “लान्सेट्” नामिकायां पत्रिकायां प्राकाशयत् । तदनन्तरं प्रयोगान् कर्तुं तस्य समीपे धनाभावः आसीत् । तदर्थं प्रयोगान् तत्रैव त्यक्तवान् । तदनन्तरं १९३९ तमे वर्षे ड्ब्ल्यु. हेच्. फ्लोरि तथा डा. इ. बि. चैन् इत्याख्यौ पुनः पेनिसिलिन् विषये प्रयोगान् आरब्धवन्तौ । १९४१ तमे वर्षे एतत् पेनिसिलिन् कस्यचित् आरक्षकस्य अस्वास्थ्यं प्रथमवारं सम्पूर्णतया निवारयत् । यद्यपि अनन्तरं पेनिसिलिन् आवश्यकता आसीत् तथापि तस्य अभावः आसीत् । द्वितीयस्य महायुद्धस्य समये तस्य पेनिसिलिन् आवश्यकता अत्यधिका अभवत् । अमेरिकादेशस्य विज्ञानिनः उद्यमपतयः च महता प्रमाणेन पेनिसिलिन् उत्पादनम् आरब्धवन्तः । १९४४ वर्षावसरे ट्न् परिमितेन पेनिसिलिन् युद्धप्रदेशं प्रति प्रेषितम् । १९४५ तमे वर्षे ड्ब्ल्यु. हेच्. फ्लोरि तथा डा. इ. बि. चैन् इत्येताभ्यां सह अयं सर् अलेक्साण्डर् प्लेमिङ्ग् अपि “नोबेल्” पुरस्कारेण सम्मानितः । एषः सर् अलेक्साण्डर् प्लेमिङ्ग् ७४ तमे वयसि १९५५ तमे वर्षे मार्चमासस्य ११ दिनाङ्के इहलोकम् अत्यजत् ।