श्लोकः सम्पादयतु

 
गीतोपदेशः
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टचत्वारिंशत्तमः(४८) श्लोकः ।

पदच्छेदः सम्पादयतु

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥

अन्वयः सम्पादयतु

कौन्तेय ! सदोषमपि सहजं कर्म न त्यजेत् । धूमेन हि अग्निः इव सर्वारम्भाः दोषेण आवृताः ।

शब्दार्थः सम्पादयतु

सदोषम् = दोषयुक्तम्
सहजम् = स्वभावजम्
सर्वारम्भाः = सर्वकर्माणि
आवृताः = आच्छादिताः ।

अर्थः सम्पादयतु

अर्जुन ! दोषयुक्तम् अपि स्वभावजं कर्तव्यं न त्यजेत् । धूमेन अग्निः इव सर्वाण्यपि कर्माणि दोषेण आवृतान्येव भवन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सहजं_कर्म_कौन्तेय...&oldid=418875" इत्यस्माद् प्रतिप्राप्तम्