सातारामण्डलं (मराठी: सातारामण्डलम्, आङ्ग्ल: Satara District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सातारा इत्येतन्नगरम् ।

सातारामण्डलम्

Satara District

सातारा जिल्हा
मण्डलम्
महाराष्ट्रराज्ये सातारामण्डलम्
महाराष्ट्रराज्ये सातारामण्डलम्
देशः  India
जिल्हा सातारामण्डलम्
उपमण्डलानि सातारा, कराड, वाई, महाबळेश्वरम्, फलटण, माण, खटाव, कोरेगाव, पाटण, जावळी, खण्डाळा
विस्तारः १०,४८४ च.कि.मी.
जनसङ्ख्या(२०११) ३०,०३,७४१
Government
 • मण्डलसङ्गाहकः
(District Collector)
डा एन् रामस्वामी
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://satara.nic.in
सातारामण्डल-दर्शनम्
शिवाजीमहाराजस्य गुरुः स्वामी रामदासः
राज्ञी लक्ष्मीबाई

भौगोलिकम्संपादित करें

सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि सोलापुरमण्डलं, पश्चिमदिशि रत्नागिरिमण्डलम्, उत्तरदिशि पुणेमण्डलं, रायगडमण्डलं च, दक्षिणदिशि साङ्गलीमण्डलम् अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्यः प्रमुखनद्यः सन्ति कृष्णा, कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च ।

जनसङ्ख्यासंपादित करें

सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१ अस्ति । अस्मिन् १५,१०,८४२ पुरुषाः, १४,९२,८९९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७% अस्ति ।

उपमण्डलानिसंपादित करें

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि-

प्राकृतिकवैशिष्ट्यानिसंपादित करें

कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यैः पूर्णं, यथा उच्चपर्वतावल्यः, शैलप्रस्थानि, वनविभागाः च । सागरस्तरतः ४५०० पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्णः एषः प्रदेशः । अस्य मण्डलस्य पर्वतप्रदेशे बहवः प्रसिद्धाः दुर्गाः सन्ति ।

कृष्युत्पादनम्संपादित करें

मण्डलेऽस्मिन् कृषिः प्रमुखोपजीविकासाधनम् । तण्डुलः, यवनालः(ज्वारी‌), 'बाजरी', गोधूमः, किणः(corn), 'स्ट्रोबेरी', चणकः, इक्षुः, कार्पासः, कलायः, शिम्बी(घेवडा), 'सोयाबीन', आलुकम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

लोकजीवनम्संपादित करें

मण्डलेऽस्मिन् ८१.०१% जनाः ग्रामेषु, १८.९९% जनाः नगरेषु च निवसन्ति । मण्डलेऽस्मिन् १,७३९ ग्रामाः, १५ नगराणि च सन्ति । ग्रामेषु प्रायः सर्वे कृषिव्यवसायसम्बन्धिकार्येषु रताः । सातारा, कराड, फलटण, वाई स्थानेषु उद्यमाः अधिकाः सन्ति । मण्डलेऽस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अतः पर्यटनसम्बन्धिताः व्यवसायाः अपि प्रचलन्ति अत्र ।

व्यक्तिविशेषाःसंपादित करें

बहूनां व्यक्तिविशेषाणां कार्यस्थलं वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ रामदास स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह महाराज,राज्ञीलक्ष्मी बाई क्रान्तिसिंह नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।

वीक्षणीयस्थलानिसंपादित करें

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. सज्जनगड-दुर्गः
  2. प्रतापगड-दुर्गः
  3. शिखर-शिङ्गणापुर
  4. श्रीभैरवनाथ-मन्दिरम्
  5. महाबळेश्वरम्
  6. वासोटा-दुर्गः
  7. अजिङ्क्यतारा-दुर्गः
  8. कास-सरोवरः
  9. नटराजमन्दिरम्
  10. ठोसेघर
  11. शिवाजी-सङ्ग्रहालयः
  12. भवानी-सङ्ग्रहालयः
  13. कोयना-अभयारण्यम्


बाह्यानुबन्धाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=सातारामण्डलम्&oldid=464025" इत्यस्माद् प्रतिप्राप्तम्