साधिभूताधिदैवं मां...
भगवद्गीतायाः श्लोकः ७.३०
श्लोकः
सम्पादयतु- साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
- प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य त्रिंशत्तमः(३०) श्लोकः ।
पदच्छेदः
सम्पादयतुसाधिभूताधिदैवं मां साधियज्ञं च ये विदुः प्रयाणकाले अपि च मां ते विदुः युक्तचेतसः ॥ ३० ॥
अन्वयः
सम्पादयतुये साधिभूताधिदैवं साधियज्ञं च मां विदुः ते युक्तचेतसः प्रयाणकाले अपि च मां विदुः ।
शब्दार्थः
सम्पादयतु- ये = ये मानवाः
- साधिभूताधिदैवम् = प्रतिभूतं प्रतिदैवं च वर्तमानम्
- साधियज्ञं च = प्रतियज्ञमपि वर्तमानम्
- मां विदुः = मां जानन्ति
- ते = ते मानवाः
- युक्तचेतसः = समाहितमनसः
- प्रयाणकाले अपि च = मरणसमये अपि
- मां विदुः = मां जानन्ति ।
अर्थः
सम्पादयतुये मां प्रतिभूतं प्रतिदैवं प्रतियज्ञं च वर्तमानं जानन्ति ते मानवाः समाहितमनसः मरणसमये अपि मां जानन्ति ।