सारङ्गरागः
सारङ्गरागः (Saranga Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । मेघरागस्य पत्नी इति प्रसिद्धिरस्य । अस्य रागस्य "काफि थाट्" भवति । अयं रागः "ओढव" विभागस्य (जातेः) भवति । अस्यैव रागस्य नाम ग्रन्थकाराः “मध्यमादिसारङ्गः” इति कथयन्ति । अस्य रागस्य प्रशस्तकालः मध्याह्नं भवति । वादिस्वरः ॠषभः (रे) । एवं संवादिस्वरस्य पञ्चमः (प) भवति । अस्मिन् रागे रे, ध वर्ज्यस्वरौ भवतः । शृङ्गाररसः,भक्तिरसप्रधानश्च अयं रागः भवति । अस्य रागस्य “प रे नि स” स्वरसङ्गतयः रसोत्पादकाः भवन्ति ।
- वीणां दधाना दृढबद्धवेणी
- संख्यासमं मञ्जुलवृक्षमूले।
- जांबूनदाभा च निषन्नदेहा
- सारङ्गिका च कथिता मुनीन्द्रैः॥
- आरोहः – स रे म प नि स
- अवरोहः – स नि प म रे स
- पक्कड – प रे, नि स रे प म
सम्बद्धरागाः
सम्पादयतु- शुद्धसारङ्ग
- मीया की सारङ्ग
- सामन्त
- लङ्कादहनी
- नूर् सारङ्ग
समयः
सम्पादयतुअपराह्ने १२ तः ३वादनपर्यन्तं प्रशस्तकालः भवति ।