सारनाथं किञ्चन बौद्धकेन्द्रम् वाराणसीतः दशकिलोमीटर् दूरे बौद्धनां प्राचीनं केन्द्रम् अस्ति । गौतमबुद्धः स्वप्रथमोपदेशम् अत्रैव कृतवान् ।बोधगयायां ज्ञानप्राप्तेरनन्तरं वारणासीम् आगतवान् ।अनन्तरम् अत्र सारानाथे वास कृतवान् । क्रिस्ताब्दे ६४० समये अत्र २५०० पूजाकर्तारः, अशोकस्तम्भः , १००मीटर् उन्नतः स्तूपः च आसीत् । मोगल वंशीयानां प्रशासनकाले अनेके स्मारकाः नष्टाः अभवन् । भारतीयसर्वेक्षनविभागे अस्य अवशेषाः सन्ति ।भारतस्य राष्ट्रियलाञ्छने विद्यमानः चतुर्मुखसिंहहः अस्मात् एव उद्धृतः अस्ति। अत्र अशोकनिर्मितः धमेकास्तूपः अर्धगोलाकारः ९३ पादोन्नतः च आसीत् । धर्मराणिस्तूपसमीपे अशोकः ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् । सारानाथस्य आर्कियालाजिकल् वस्तुसङ्ग्रहालये मौर्याणां कुशानानां गुप्तानां कालस्य मूर्तयः सन्ति । गणेशसरस्वतीविष्णुः इत्यादीनां मूर्तयः अपि अत्र सन्ति । आधुनिककालेऽपी सारानाथक्षेत्रं किञ्चन दर्शनीयं क्षेत्रमस्ति ।

Sarnath

सारनाथ

सारनाथ, मृगन्दव, मृगदया, ऋषिपट्टन, इषिपट्टन
city
धमेकास्तूपः, सारनाथम्
धमेकास्तूपः, सारनाथम्
देशः भारतम्
राज्यम् उत्तरप्रदेशः
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)

चित्रशाला

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=सारनाथम्&oldid=435486" इत्यस्माद् प्रतिप्राप्तम्