१६०७/०८ तमे वर्षे जन्म प्राप्य सलबेगः जगन्नाथस्य महान् भक्तः, रूढिवादी कविः च आसीत् । अनेकानि भक्तिकाव्यानि रचितानि ।

भक्त सलाबेग की समाधि पिठा @पुरी
भक्तः
सालबेगः
जन्म पुरी, ओडिशा
मृत्युः १६०७-०८
पुरी, ओडिशा
शान्तिस्थानम् पुरी, ओदिश तथ दाण्डमुकुन्दपुरम्, पिपिलि
निवासः पुरी, ओडिशा
देशीयता फलकम्:Country data भारतीयः
जातिः ओडिआ
शिक्षणम् शिक्षा न प्राप्तवान्
वृत्तिः कविः, साहित्यकारः&Nbsp;edit this on wikidata
कृते प्रसिद्धः भक्तिरचना
पितरौ लालबेगः, फतिमा विवि

सालबेगस्य जन्म मुस्लिमकुटुम्बे अभवत् । तस्य पिता लालबेगः १६०५ तः १६२७ पर्यन्तं बिहारस्य जहांगीर्-महोगयस्य राजदरवारस्य मुगलसूबेदारः आसीत् । पुरीनगरे मुगल्जनानां आक्रमणकाले लालबेगः सलबेगस्य मातुः साकं विवाहम् अकरोत् । तस्य माता ललिता उत्कलीयब्राह्मणी आसीत्, यस्याः अपहरणं लालबेगः कृत्वा बलात् विवाहं कृतवान्, अनन्तरं तस्य नाम फातिमा बीबी इति अभवत्। सलबेगस्य जन्म लालबेगतः अभवत्। सालबेगः हिन्दुधर्मस्य सर्वाणि शास्त्राणि पौराणिककथनानि च स्मरति स्म | वृद्धावस्थायां सः पित्रा सह युद्धअभ्यासं करोति स्म । अनेकमन्दिर-आक्रमणानन्तरं यदा सः जगन्नाथस्य मन्दिरं आक्रम्य तत्र पराजितः अभवत् तदा जगन्नाथः बालकरूपेण तस्मै प्रकटितम्, अनन्तरं युद्धक्षेत्रे तस्य विरक्तिभावः अभवत् । सः श्रीजगन्नाथस्य परमभक्तः अभवत् | सः जगन्नाथस्य विषये बहूनि प्रसिद्धानि स्तोत्राणि अरचयत् । [] भक्तसालबेगस्य समाधिः पुरी मुख्यचिकित्सालयस्य समीपे अस्ति।

 
सालबेगस्य समाधिः

सालबेगस्य दाण्डमुकुन्दपुरग्रामेण सह सम्पर्कः

सम्पादयतु

सालवेगस्य मातुलः पुरी जिलायां पिपिली समीपे दाण्डमुकुन्दपुरग्रामे अस्ति। एतत् स्थानं सालबेगस्य स्मारकरूपेण प्रसिद्धः अस्ति। कश्चनविद्वांसः सालबेगस्य मातुलः दाण्डमुकुन्दपुरे अस्तीति वदन्ति। रामदासः स्वस्यकवितामाध्यमेन सालबेगस्य माता दण्डमुकुन्दपुरग्रामम् उत्तमम् उक्तवती अपि च सालबेगस्य मातुः श्वशुरस्य अनुपस्थितौ स्नानसमये लालबेगः तस्याः अपहरणं कृतवान् तस्य उपरि अपि लिखितवान्। लालबेग १६०७ ई. तमे वर्षे तत्कालिकी बिहारस्य सूबेदारः आसीत्। लालबेगः जाहाङ्गिर्-महोदयस्य सेनाध्यक्षः आसीत्। एषः लालबेगः मुगल सेनायाः सह पुरीं जगन्नाथ मन्दिरं प्रति आक्रमणं कर्तुं गतवान् आसीत्। तस्मिन् समये, दंडमुकुन्दपुरग्रामे मार्गस्य पार्श्वे एकस्मिन् महातडागे बालविधवा एका युवती ब्राह्मणी ललिता स्नानं कृतवती। लालबेगः तस्याः सौन्दर्यतायाः उपरि आकृष्ठं भूत्वा तस्याः अपहरणं कर्तुं यत्नं कृतवान्। परन्तु सा विधवा लालबेगस्य समीपे आत्मसमर्पणं अकृत्वा आत्महत्या कर्तुं संकल्पं कृतवती। तदानिं सः विचलितः अभवत्। अनन्तरं तस्याः ब्राह्मणिकन्यायाः सर्वाणि शर्तानि स्वीकृत्य तां स्वपत्नीरूपेण स्वीकृतवान्। ब्राह्मणिकन्यायाः शर्तानि आसीत् यः लालबेगः पुरीं जगन्नाथमन्दिरं वा अन्यं हिन्दूदेवमन्दिरं प्रति आक्रमणं न भवेत् तथा च तां मुस्लिमनियमानां पालनं कर्तुं बाध्यं न कुर्यात्। तस्मात् लालबागः पुरीजगन्नाथमन्दिरं प्रति आक्रमणं न कृतवान् अपि च दण्डमुकुन्दपुरतः प्रत्यावर्तनं कृतवान्। एषा ब्राह्मणी लालबेगस्य पत्नी भूत्वा अपि पवित्रमनसा भगवातः जगन्नाथस्य पूजनं करोति स्म। किञ्चित् दिनानामनन्तरं सा सालबेगः इत्यस्मिन् नाम्ना पुत्रं जन्मं दत्तवती। एकदा सालबेगः एकस्मिन् युद्धक्षेत्रे शत्रु-आक्रमणसमये क्षताक्तः अभवत्। तदानिं सः बहुदिनानि यावत् किमपि कर्तुं असमर्थाः आसन्। सः स्वस्य जीवनधारणस्य आशां त्यक्तवान्। सालबेगः स्वमातरं उक्तवान् "भो मातः! जीवितुं यदि कश्चनः मार्गः अस्ति चेत् वदतु, नोचेत् अहं आत्मप्राणत्यागं करोमि" इति। इति श्रुत्वा माता पुत्रं भगवतः प्रति विश्वासं धारयितुं उपदिशति तथा पुराणे ध्रुवकथा, भगवातः श्रीकृष्णस्य बाल्यकालविषये अपि उक्तवती। सालबेगस्य माता सालबेगस्य मनसि हिन्दुदेवानां प्रति भक्तिसंवर्धनं कृतवती। किन्तु तस्य शरीरं स्वस्थं न अभवत्। अतः माता तं श्रीकृष्णस्य नामजपं कर्तुम् उपदिशति स्म।अतः सालबेगः वृन्दावने श्रीकृष्णास्य दिनत्रयात्मकं निरन्तरं नामजपपारायणं कृतवान्। तस्यानन्तरं तस्य शरीरं सम्यक् जातम्। तदनन्तरं सालबेगः तस्य माता च पुरीं आगतवन्तौ। किन्तु तत्रत्यः पूजकाः तेषां कृते मन्दिरप्रवेशार्थं अनुमतिं न दत्तवन्तः। किमर्थम् इत्युक्ते श्रीमन्दिरस्योपरी वाह्याक्रमणकारणात् अणहिन्दुप्रवेशः निषेधः इति नियमः अस्ति। तस्मात् सालबेगः स्वकवितायाम् स्पष्टं कृतवान्, "पिता मो मोगल वेटा, माता मो ब्राह्मणी, ए कुले जन्मिलि हिन्दु न छुएँ मो पाणि।" इति, यस्यार्थः भवति- मम पिता मोगलसम्प्रदायस्य अस्ति परन्तु मम माता ब्राह्मणी, तथापि कोऽपि हिन्दु मम हस्तं न धरति नाम तस्य सहाय्यं न करोति। सालबेगः, प्रभोः दर्शनात् अपि वञ्चितः अभवत्। सः स्वमातुः सह बालेश्वरनगरस्थ दामोदरपुरस्य श्यामसुन्दर मन्दिरस्य समीपे १६०८ तः १६१५ पर्यन्तं वासं कृतवान्। तदनन्तरं सः 'यशोवन्तदासस्य' शिष्यत्वं ग्रहणं कृतवान्। तत्र सः 'सालबेगङ्क भजन जणाण' इति पुस्तकं रचितवान् इति प्रमाणं सुदर्शनदासस्य पुस्तकं 'यशोवन्तदासङ्क चउराशिआज्ञा' इति ग्रन्थे मिलति। पुरीनगरं प्रति मोगलजनाम् आक्रमणकाले नागासन्यासिनः मन्दिरस्य संरक्षणाय स्वस्य वलिदानं दतवन्तः। सेवायतजनाः नाम जगन्नाथस्य पूजकाः भगवतः हानि न भवेत् इति चिन्तयित्वा तेषां रक्षां कर्तुं स्वामिनः मन्दिरस्य पृष्ठतः नाम उत्तरद्वारतः/हस्तिद्वारतः गुप्तरूपेण नीत्वा तं चिलिकायाः गुप्ताश्रये स्थापितवन्तः। अस्याः घटनायाः किञ्चित् दिनानाम् अनन्तरं बङ्गालप्रदेशे युद्धं जातम्। बङ्गालगमनसमये कलिकत्तायां लालबेगस्य मृत्युः अभवत्। ततः लालबेगस्य सम्बन्धिनः सालबेगः तस्य मातरं च गृहात् निष्कासितवन्तः अतः ते दक्षिणदिशिं गतवन्तः। अग्रिमवर्षे सालबेगः रथयात्रायाम् भगवतः दर्शनस्य कामना कृतवान्। परन्तु अस्वास्थ्यकारणात् सः समयाअभ्यन्तरे तत्र गन्तुं असमर्थः अभवत्। अतः तस्य प्रार्थनानुसारं तस्मिन् वर्षे रथयात्रायां नन्दीघोषः सालबेगस्य प्रतीक्षां कृत्वा बददण्डे तावत् पर्यन्तं स्थगितवान् यावत् पर्यन्तं सालबेगः तत्र न आगतवन्तः। सालवेगस्य भगवतः दर्शनानन्तरमेव रथाः अग्रे गतवन्तः। सालबेगः भगवातः एतावत् महान् भक्तः आसीत्। अतः तस्य मृत्युः अनन्तरं पुरी-बडदाण्डस्य बालगण्ड्यां तस्य समाधिस्थलं निर्मितः अस्ति। इदानीं दण्डमुकुन्दपुरग्रामे स्मारकरूपेण 'सालबेगङ्क पीठ/ सालबेगस्य पीठम्' इति स्थानम् अस्ति। इदानीं अस्मिन् ग्रामे आयोजिताः सर्वे कार्यक्रमाः सालबेगस्य नाम्ना एव प्रचलति।

भक्तियुगे भक्तस्य सलबेगस्य गहनभक्तिः तस्य लेखने प्रतिबिम्बितं जातम्। यद्यपि मन्दिरं प्रवेशार्थं प्रतिबन्धः आसीत्, किन्तु सलबेगः मन्दिरस्य बाहिः भक्तिं प्रदर्शयति स्म। तस्य ओडिआभजनानि ज्ञानं च अद्यापि ओडिआसाहित्यस्य अमूल्यसम्पत्तिरूपेण स्थितम् आसीत्। तस्य "अहे नील सइल प्रवल मत्त वारण..." ओडिया भक्तिसङीतं, रेडियो, टीवी आदि सर्वत्र श्रूयते। ओडिशायाः सर्वे प्रसिद्धभजनगायकाः, विशेषतः भिकारिबलस्य मधुरस्वरेण एतत् गीतं ओडिशायाम् लोकप्रियः आस्ति। एतत् भजनं पुरीमन्दिरस्य सुप्रसिद्धं भजनम् अस्ति। जनाः बेढा परिक्रमा समये नाम श्रीमन्दिरस्य चतुर्पाश्वे भ्रमणसमये अस्य भजनस्य पारायणं कुर्वन्ति। अस्मिन् भजने श्रीमन्दिरस्य उपरी आक्रमणस्य विषये, लुण्ठनस्य विषये, भगवतः गुप्तस्थानान्तरणस्य विषये, रामायणस्य विषये, महाभतस्य विषये अदि वहुविषयानामुपरी वर्णितमस्ति। एतत् भजनं श्रीमन्दिरस्य ऐतिहासिकभजनम् इति वदामः चेदपि तत् सत्यं भवति, नास्त्यत्र संशयः।

"अहो नीलशैली" इत्यस्मात् केचन उद्धरणाः।

सम्पादयतु

आहे नील शइल, प्रबल मत्त वारण,

मो आरत नलिनि वनकु कर दलन,

आहे नील शइल…॥

गजराज चिन्ता कला थाइ घोर जलेण,

चक्र पेशी नक्र नाशी, उधारिले अपण।

आहे नील शइल…॥


घोरवने मृगुणीकु पडिथिला कषण,

केते बड विपत्तिरु करिछ तारण,

आहे नील शइल…॥

कुरु सभा तले शुणि द्रौपदीर जणाण

कोटि वस्त्र देइ हेले लज्जा कला वारण,

आहे नील शइल…॥

रावणर भाइ विभीषण गला शरण,

शरण सम्भालि ताङ्कु लङ्के कल राजन,

आहे नील शइल…॥

प्रहल्लाद पिता से ये(जे) बडदुष्टदारुण,

स्तम्भरु बाहारि ताकु बिदारिला तक्षण।

आहे नील शइल…॥

"कहे सालबेग हीन जातिरे मुँ य(ज)बन, श्रीरङ्गा चरण तले करुअछि जणाण आहे नील शइल……॥"

"आहे नील शइल" इति कवितायां सालबेगस्य परिचयः

सम्पादयतु

 अस्यां कवितायां अपि सालबेगस्य उपरि परिचयः मिलति यथा- "कहे सालबेग हीन जातिरे मुँ य(ज)बन, श्रीरङ्गा चरण तले करुअछि जणाण आहे नील शइल……॥"

नाम अत्र सालबेगः - भोः नील शइल (जगन्नाथः)! मम जाति जवनः नाम मुसल्मान् अस्ति, परन्तु श्रिरङ्गा चरण तले नाम श्रीमन्दिरस्य अधोभागे अहं प्रार्थना करोमि।

  1. Subas Pani (19 February 2004). "Salabega". Indian Express. आह्रियत 2 February 2011. 

फलकम्:ଜଗନ୍ନାଥ

"https://sa.wikipedia.org/w/index.php?title=सालबेगः&oldid=490810" इत्यस्माद् प्रतिप्राप्तम्