सिग्मण्ड फ्रोइड
(कालः – ०६. ०५. १८५६ तः २३. ०९. १९३९)
सिग्मण्ड फ्रोइड | |
---|---|
Sigmund Freud, by Max Halberstadt, 1921 | |
जननम् |
सिग्मण्ड् स्च्लोमो फ़्रुड् ६ १८५६ Freiberg in Mähren, Moravia (now part of the Czech Republic), Austrian Empire |
मरणम् |
२३ १९३९ London, England, UK | (आयुः ८३)
वासस्थानम् | Austria |
देशीयता | Austrian |
कार्यक्षेत्राणि |
Neurology Psychotherapy Psychoanalysis |
संस्थाः | University of Vienna |
मातृसंस्थाः | University of Vienna |
विषयेषु प्रसिद्धः | Psychoanalysis |
प्रभावः | Aristotle, Brentano, Breuer, Charcot, Darwin, Dostoyevsky, Goethe, Haeckel, Hartmann, Jackson, Jacobsen, Kant, Mayer, Nietzsche, Plato, Schopenhauer, Shakespeare, Sophocles |
प्रभावितः | Eugen Bleuler, John Bowlby, Viktor Frankl, Anna Freud, Erich Fromm, Otto Gross, Karen Horney, Arthur Janov, Ernest Jones, Carl Jung, Melanie Klein, Jacques Lacan, Fritz Perls, Otto Rank, Wilhelm Reich |
प्रमुखाः प्रशस्तयः |
Goethe Prize Foreign Member of the Royal Society (London)[१] |
हस्ताक्षरम् |
अयं सिग्मण्ड् फ्राय्ड् (Sigmund Freud) मनोविज्ञानस्य अध्वर्युः । एषः आस्ट्रियादेशस्य (इदानीन्तने जोकोस्लोवाकियदेशे अस्ति) फैबर्ग् इति प्रदेशे १८५६ तमे वर्षे मेमासस्य ६ दिनाङ्के निर्धने यहूदिकुटुम्बे जन्म प्राप्नोत् । यदा एषः सिग्मण्ड् फ्राय्ड् ४ वर्षीयः आसीत् तदा तस्य कुटुम्बं वियेन्नां प्रति गतम् । तदनन्तरं सम्पूर्णं जीवनम् अयं सिग्मण्ड् फ्राय्ड् वियन्नानगरे एव अयापयत् । अयं श्रमेण अध्ययनं कृतवान् । गृहे तु सदा दारिद्र्यम् एव आसीत् । यद्यपि सः तत्त्वशास्त्रे, संस्कृतौ, रसायनशास्त्रे, जीवशास्त्रे च आसक्तः आसीत् तथापि संशोधनार्थं जीवशास्त्रम् एव अचिनोत् । तस्य पूरकत्वेन अङ्गरचनाशास्त्रं, प्राणिनां नाडीसमूहम्, औषधशास्त्रं च अध्येतव्यम् अभवत् । अनन्तरं तेषां सर्वेषां शास्त्राणां मिश्रणेन वैद्यपदवीं प्राप्नोत् । वैद्यपदव्याः प्राप्तेः अनन्तरम् अपि जीवविज्ञाने, नाडीसमूहविषये च आसक्तः सिग्मण्ड् फ्राय्ड् प्रशिक्षणार्थं प्रसिद्धानां वैद्यानां समीपम् अगच्छत् । सः मनसः विषये, नाडीविज्ञाने, मस्तिष्कविषये च परिणतानां जीन् चार्काट्, वान् ब्रुयर्, जि.एच्.मेयनर्ट् इत्यादीनां मार्गदर्शने अध्ययनं कृत्वा वियेन्नानगरे एव कञ्चित् नाडीरोगस्य चिकित्सालयम् उदघाटयत् । तदा समाजे मस्तिष्कस्य, मनसः, नाड्याः च रोगाणां विषये जनानां ज्ञानं न आसीत् एव । मानसिकरोगीन् उन्मत्ताः इति मत्वा बन्धने स्थापनं वा ताडनं वा कुर्वन्तः तान् दण्डयन्ति स्म । मानसिकरोगस्य कारणं भयम् अपि भवितुम् अर्हति इति न जानन्ति स्म । एतत्सर्वं दृष्टवान् सिग्मण्ड् फ्राय्ड् मानसिकानां रोगाणां विषये एव अधिकं लक्ष्यम् अददात् ।
एषः सिग्मण्ड् फ्राय्ड् “कोकेन्” इत्यस्य परीक्षां कृत्वा तत् स्थानीयस्य संज्ञाहीनकरणस्य औषधत्वेन उपयोक्तुं शक्यते इति सूचितवान् । किन्तु वेदनानिवारकं कोकेन् अग्रे अभ्यासत्वेन परिवर्तते स्म । तेन जायमानां हानिम् अपि सः जानाति स्म । एषः सिग्मण्ड् फ्राय्ड् यदा प्यारिस्-नगरे आसीत् तदा प्रख्यातः नाडीतज्ञः जीन् मार्टिन् शार्कूट् उन्मादरोगस्य चिकित्सां यत् विशिष्टया रीत्या कृतवान् तत् दृष्टवान् आसीत् । तथैव ब्रायर् इत्याख्यः उन्मादयुक्तानां वशीकरणं (हिप्नाटिसम्) कृत्वा सुप्तावस्थायां यत् रोगनिवारणं कृतवान् तदपि दृष्टवान् आसीत् । तदा एव सिग्मण्ड् फ्राय्डस्य सुप्तावस्थायाः जागरितावस्थायाः च मध्ये कश्चन सेतुः भवेत् इति अस्फुरत् । एतत् एव तस्य मनोविश्लेषणस्य प्रेरणामूलम् अपि अभवत् । वैद्याः रोगिभिः सह मुक्ततया सम्भाषणं कृत्वा तेषां मनसि विद्यमानं भयं, संशयं वा दूरीकर्तुम् अवसरस्य कल्पनम् । तदवसरे सुप्तमनसि विद्यमानाः विचाराः अनिर्बन्धरूपेण जागरितमनः प्रविशन्ति । तदा वैद्याः तान् विचारान् अवगन्तुं शक्नुवन्ति । तदनुगुणं रोगिणां समाधानं च कुर्वन्ति । तदनन्तरं रोगिणां मनसि विद्यमानं भयं वा संशयः वा दूरीभवति । रोगी स्वस्थः भवति अपि । एतत् एव सिग्मण्ड् फ्राय्डेन निरूपितस्य मनोविश्लेषणस्य मूलं तत्त्वम् ।
पिता पुत्रस्य विषये अधिकारं चालयति । पुत्रः यद्यपि तस्य विरोधं कर्तुम् इच्छति तथापि न शक्नोति । अन्ते पुत्रः स्वत्मानम् एव दहति । एवं मनसि विभिन्नाः शक्तयः परस्परं सङ्घर्षं कुर्वन्ति । तत्कारणतः एव मनसः विभिन्नाः स्तराः निर्मिताः भवन्ति इत्यपि एषः सिग्मण्ड् फ्राय्ड् संशोधितवान् । सः मनसि उत्पद्यमानाः भावनाः स्वप्ने अभिव्यक्ताः भवन्ति इत्यपि सः वादम् अकरोत् । बहूनां स्वप्नस्य विश्लेषणं कृत्वा तस्य समीचीनम् अर्थम् अपि सः अवदत् । स्वप्ने वयं बाल्यस्य चिन्तनरीतिम् एव अनुसरामः । तानि चिन्तनानि तर्कबद्धानि न भवन्ति । विस्मरणम् आकस्मिकं न । तस्य किमपि किञ्चित् कारणं भवति । इति नूतनान् विचारान् अपि संशोधितवान् एषः सिग्मण्ड् फ्राय्ड् । अयं सिग्मण्ड् फ्राय्ड् मनोविश्लेषणस्य रीतिनीतीन् विवरीतुं शतशः लेखनानि पुस्तकानि च प्राकटयत् । तस्य पद्धतिः बहुशीघ्रं जनप्रियताम् अपि प्राप्नोत् । १९०८ तमे वर्षे तस्य सिग्मण्ड् फ्राय्डस्य नेतृत्वे एव प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् । सिग्मण्ड् फ्राय्ड् अपि बहुभिः उपायनैः पुरस्कारैः च सम्मानितः अभवत् । “गवटि” पुरस्कारः, रायल् सोसैट्याः सदस्यत्वादयः अपि तम् अन्विष्य आगताः । अयं सिग्मण्ड् फ्राय्ड् लैङ्गिकप्रवृत्तिः मनोव्यापारे प्रमुखतया दृश्यते । बाल्यादारभ्य अपि सा प्रवृत्तिः भवति एव । यौवने सा स्वयमेव प्रकटिता भवति । कदाचित् वयम् एव तां नियन्त्रयामः तावदेव । इत्यपि सः प्रतिपादयत् । १९३८ तमे वर्षे यदा जर्मन्-देशः वियेन्नानगरस्य उपरि आक्रमणम् अकरोत् तदा अनेन सिग्मण्ड् फ्राय्डेन यहूदिः इति कारणतः ततः पलायनं करणीयम् अभवत् । सः १९३९ तमे वर्षे सेप्ट्म्बरमासस्य २३ तमे दिनाङ्के इहलोकम् अत्यजत् ।
- ↑ doi:10.1098/rsbm.1941.0002
This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand