सिद्दिजनाङ्गः
सिद्दिजनाङ्गस्य शारीरम्
सम्पादयतुएते उत्तरकन्नडमण्डलस्य अङ्कोल, यल्लापुर, शिरसि, हळियाळ, मुण्डगोडु इत्यादीनाम् उपमण्डलानां ग्रामेषु, तत् परितः पर्वतप्रदेशेषु च वसन्तः सन्ति । एते स्थूल-ओष्ठवन्तः उन्नतकायाःच । एतेषां प्रस्तीर्णा नासिका, लघुललाटं, कठिनाः अलकाः केशाः, कृष्णवर्णः, च । दर्शनेन ज्ञायते यत् एते नीग्रोवंशीयाः जनाः इति । सिद्दि नाम सिदि(श्रमकार्यं, कूलि) इत्यतः आगतं स्यात् । मूलदैवेन सिद्दिनासेन ‘सिद्दि’ नाम आगतम् इति एते वदन्ति ।
सिद्दिजनाङ्गस्य भाषा
सम्पादयतुएतेषु हिन्दुसिद्दि, मुस्लिंसिद्दि, क्रैस्तसिद्दि च इति वर्गत्रयम् अस्ति । एकधर्मतः अन्यधर्मं प्रति, एकसम्प्रदायतः अन्यसम्प्रदायं प्रति एतेषां सुलभतया परिवर्तनं भवति । एते यस्य गृहे कर्मकरकार्यं कुर्वन्ति तस्य गृहस्य धर्मं स्वीकुर्वन्ति । हिन्दुसिद्दिजनाः कन्नड-मराठी-कोङ्कणीभाषाभिः युक्तां मिश्रभाषां, मुस्लिंसिद्दिजनाः उर्दुभाषां, क्रैस्तसिद्दिजनाः कन्नडमिश्रितगोवाकोङ्कणीभाषां च वदन्ति ।
सिद्दिजनाङ्गस्य आहारः
सम्पादयतुअन्नं, यवागूः च एतेषां प्रमुखः आहारः । गोधायाः, वराहस्य, कस्तूरीमार्जार्याः, हरिणस्य, वनकुक्कुटस्य, नकुलस्य, चिक्रोडस्य, मीनस्य, कूर्मस्य, कर्कटकस्य च मांसः एतेषां बहुप्रियम् ।
सिद्दिजनाङ्गस्य वेषभूषणानि
सम्पादयतुपुरुषाः साम्प्रदायिकतया बन्धुं योग्यं युतकं, कौपीनवेष्टिं, शिरस्त्रं च धरन्ति । महिलाः शाटिकां चोलं च धरन्ति ।
सिद्दिजनाङ्गस्य आचाराः
सम्पादयतुहिन्दु-मुस्लिं-क्रैस्तसिद्दिजनानां मध्ये परस्परं विवाहसम्बन्धः अस्ति । वधूदक्षिणापद्धतिः अपि अस्ति । गृहस्य ज्येष्ठस्य, कोलुकारस्य, बुद्वन्तस्य, बालिकाभ्यः च विशेषं प्राशस्त्यं यच्छन्ति । निष्कासितशिम्बायुक्तं नारिकेलम् एतेषां गृहदेवः । भूताय अजं, कुक्कुटं च बलिरूपेण यच्छन्ति । गुमटेपाङ्गुनामक सिद्दिजनाः मृत्तिकायाः घटं वादयन्तः लयबद्धं नृत्यन्ति । स्त्रीषु ‘पुगडि’ नृत्यं विशिष्टम् । मुस्लिंसिद्दिजनेषु मोहरं पर्वसमये ‘अलादिनृत्यं’ दृश्यते । पुरुषाः पटाहसदृशं ‘ढमामि’ इति वाद्यं वादयन्ति । तस्य लयानुगुणं महिलाः नृत्यन्ति । महालय-अमावास्यायां स्वयं निर्मितां सुरां पीत्वा लिङ्गभेदेन विना ‘ढमायि, गुमटेपाङ्गु’ वादयित्वा नृत्यन्ति । तस्मिन् दिने पितॄणाम् आराधनम् अपि कुर्वन्ति । शवस्य निखननपद्धतिः एतेषु अस्ति । शुचेः अशुचेः नियमाः एतेषु न सन्ति