सिन्थेरि राक्स् (Syntheri Rocks) कर्णाटकस्य उत्तरकन्नडमण्डले दाण्डेलीनगरतः ३२ कि मी दूरे अस्ति । अत्रत्यः शिलापर्वतः एकशिलानिर्मितः अस्ति । शिलापर्वतः १ किलोमीटरदीर्घः अस्ति । एतस्य दर्शनार्थं वने सोपानमार्गेण अधः गन्तव्यम् । शिलासन्धितः जलं निस्सरति । सर्वदा अत्र जलं प्रवहति । अत्यन्तम् अपायकारि स्थलमेतत् । शिलापर्वते तत्र तत्र मधुमक्षिकाः वसन्ति । तेषां झेङ्कारः सदा श्रोतुं शक्यते । अत्रैव समीपे दर्शकस्थानम् अस्ति । इतः काळीनदी द्रष्टुं शक्यते । वसत्याः कृते यल्लापुरं, कारवारं, दाण्डेली हळियाळप्रदेशेषु व्यवस्था अस्ति । वर्षाकाले दर्शनं कष्टसाध्यम् ।

मार्गः सम्पादयतु

कारवारतः १३७ कि.मी ।
दाण्डेलीतः ३२ कि.मी
अम्बिकानगरतः २२ कि.मी
बेङ्गळूरुतः ४३० कि.मी
हुब्बळ्ळीतः ७५ कि.मी
कुळगी निसर्गधामतः ४८ कि.मी ।
"https://sa.wikipedia.org/w/index.php?title=सिन्थेरी_राक्स्&oldid=389138" इत्यस्माद् प्रतिप्राप्तम्