सिन्धुतायी सप्काल्
सिन्धुतायी सप्काल्
Sindhutai Sapkal | |
---|---|
जन्म |
14 नवम्बर् 1948 वर्धा, महाराष्ट्रा, भारतम् |
मृत्युः | ४ जनवरी २०२२ (आयुः ७३) |
निवासः | हडप्सर् , पुणे |
देशीयता | भारतम् |
अन्यानि नामानि | अनाथानां माता |
वृत्तिः | सामाजिक कार्यकर्ता&Nbsp; |
कृते प्रसिद्धः | समाजसेवा |
धर्मः | हिन्दु |
भार्या(ः) | श्रीहरिः सप्काल् |
अपत्यानि |
3[उद्धरणं वाञ्छितम्] 1042 दत्रिम् |
अनाथबालानां सुरक्षायै उन्नत्यै च यतमाना भारतीय-समाज-सेविका अस्ति सिन्धुतायी सप्काल्| सा 'अनाथानां माता' इति नाम्ना अपि विख्याता अस्ति| 2016 वर्षे डि.वै.पाटिल ईन्स्टिट्यूट् ओफ़् टेकनोलजि एण्ड् रिसर्च् संस्थया सा डी.लिट्ट्. पदवीं प्रदत्ता |
आदिकालं जीवनं शिक्षणं च
1948 नवम्बर 14 दिनाङ्के महाराष्ट्रस्य वर्धा जनपदस्य पिम्परि-मेघे ग्रामे निर्धनकुटुम्बे सिन्धुतायी जाता| तस्याः पिता अभिमानजी साठे कश्चन गोपालकः आसीत्| तस्याः मातुः इच्छायाः विपरीतं पिता तां विद्यालयं प्रेषितवान्| प्रतिदिनं धेनुचारणस्य व्याजेन सा विद्यालयं गच्छति स्म| तस्याः लेखफलकं क्रेतुं धनं नासीत् अतः सा वृक्षाणां पत्रेषु लिखति स्म| परन्तु दारिद्र्य-बालविवाह-कुटुम्बपालनादि-कारणात् सा चतुर्थ्याः कक्षायाः पश्चात् विद्यालगमनं त्यक्तवति|
विवाहः समाजसेवायाः आरम्भ: च
दशवर्षस्य वयसि सिन्धुताय्याः विवाहः अभवत्| तस्याः पतिः त्रिंशतवर्षीयः श्रीहरिः सप्काल् वर्धाजनपदस्य नवर्ग्रामवासि गोपालकः आसीत्| विंशतिवर्षस्य वयः यावत् सिन्धुतायी त्रयाणां पुत्राणां माता अभवत्|