सिन्धुदुर्गमण्डलम्
सिन्धुदुर्गमण्डलं (मराठी: सिन्धुदुर्ग जिल्हा, आङ्ग्ल: Sindhudurg District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं सिन्धुदुर्ग इत्येतन्नगरम् | महाराष्ट्रराज्यस्य कोकणविभागे स्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् । निसर्गरम्यसागरतटानां, दुर्गाणां (३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापितः सिन्धुदुर्ग सागरकोटः आभरतं प्रसिद्धः ।
सिन्धुदुर्गमण्डलम् Sindhudurg district सिन्धुदुर्ग जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम् | |
देशः | India |
जिल्हा | सिन्धुदुर्गमण्डलम् |
उपमण्डलानि | नागपुर, नागपुर ग्रामीण, सावनेर, कळमेश्वर, नरखेड, काटोल, पारशिवनी, रामटेक, हिङ्गणा, मौदा, कामठी, उमरेड, भिवापुर, कुही |
विस्तारः | ९,८९७ च.कि.मी. |
जनसङ्ख्या(२०११) | २०,४८,७८१ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://ratnagiri.gov.in |
भौगोलिकम्
सम्पादयतुसिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि अरबी समुद्रः, उत्तरदिशि रायगडमण्डलं, दक्षिणदिशि गोवाराज्यं, कर्णाटकराज्यं च अस्ति । अत्र प्रवहन्त्यः मुख्यनद्यः शास्त्री, बोर, मुचकुन्दी, काजळी, सावित्री, वासिष्ठी च सन्ति । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
कृषिः उद्यमाश्च
सम्पादयतुमण्डलेऽस्मिन् कोकणप्रान्तविशिष्टानां फलानाम् उत्पादनं अधिकं भवति । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातकः, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धाः व्यवसायाः प्रचलन्ति । खनिजसम्पत्तिः अत्र बह्वी उपलभ्यते । अतः तत्सम्बद्धउद्यमाः बहवः सन्ति । मत्स्यव्यवसायः प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसरः अतः बहूनां जनानां पर्यटनव्यवसायः अपि उपजीविकात्वेन विद्यते ।
जनसङ्ख्या
सम्पादयतुसिन्धुदुर्गमण्डलस्य जनसङ्ख्या(२०११) ८,४९,६५१ अस्ति । अस्मिन् ४,१७,३३२ पुरुषाः, ४,३२,३१९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३६ अस्ति । अत्र साक्षरता ८५.५६ % अस्ति ।
ऐतिहासिकं किञ्चित्
सम्पादयतुपाण्डवानां निवासः वनवासकाले अस्मिन् परिसरे आसीत् एवं कथ्यते । द्वितीयशतके कोकणविभागे मौर्य-नलवंशीयानां राजानाम् आधिपत्यमासीत् । अनन्तरं शिलाहार-पोर्तुगाली-मुघलराजानाम् आधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जितः । अत्र सिन्धुदुर्ग सागरकोटः निर्मापितः । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्यः आङ्ग्लप्रशासकैः जितः । १८३२ तमे वर्षे रत्नागिरिविभागस्य स्थापना आङ्ग्लैः कृतः । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रहः जातः । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्टः । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्यस्य रत्नगिरिमण्डले एव समाविष्टः आसीत् अयं परिसरः । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना कृता ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
- सावन्तवाडी
- कणकवली
- कुडाळ
- देवगड
- दोडामार्ग
- मालवण
- वेङ्गुर्ले
- वैभववाडी
लोकजीवनम्
सम्पादयतुमण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालतः समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधाः सन्ति । 'कोकणी' संस्कृतिः अत्र दृश्यते । गणेशोत्सवः, होलिका इत्येतौ प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुगड्या' इत्येतौ अन्तर्भवतः । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जनाः पचन्ति । दशावतार इति सांस्कृतिककलाविष्कारः अत्र प्रचलति । धनगरजातीयजनैः 'दसरा' इति उत्सवः सोत्साहेन आचर्यते । दीपावलिदिनानन्तरं 'दहिकाला' जनाः कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वात् भिन्नता दृश्यते ।
व्यक्तिविशेषाः
सम्पादयतुमण्डलमिदं बहूनां विभूतिमतानां जन्मस्थलं वा कार्यस्थलम् अस्ति । यथा समाजसुधारकः रा. गो. भाण्डारकर, अप्पासाहेब पटवर्धन, र.के.खाडिलकर, बेरिस्टर् नाथ पै च ।
वीक्षणीयस्थलानि
सम्पादयतु- सिन्धुदुर्ग सागरकोटः - सिन्धुदुर्ग इत्येषः दुर्गः शिवाजीमहाराजेन स्थापितः । शिवाजीराजस्य ध्येयम् आसीत् जञ्जिरादुर्गं स्वराज्यम् आनेतव्यम् इति । परं तत् साधयितुं न अशक्तः सः । तदा 'आरमार'(सागरसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्गं निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं राज्ञा पद्मदुर्गः, राजकोटः, सर्जेदुर्गः च निर्मापितः । ५० कि.मी.द्वीपपरिसरे सिन्धुदुर्गनिर्माणम् अभवत् ।
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- विजयदुर्गः
- देवगड इत्यत्र कुणकेश्वरमन्दिरम्
- मालवण इत्यत्र सुवर्णगणेशमन्दिरम्
- अम्बोली गिरिधाम
- महादेवगड कोटः, दीपगृहं च
- सावन्तवाडी इत्यत्र राजप्रासादः
- तेरेखोल कोटः
- आचार खाडी (बेकवाटर)
- तारकर्ली सागरतटः
- यशवन्तकोटः
- निवती-कोटः
बाह्यसम्पर्कतन्तुः
सम्पादयतु- सिन्धुदुर्गपर्यटन-मार्गदर्शकः Archived २०१३-०४-२२ at the Wayback Machine
- सिन्धुदुर्गपर्यटन-मार्गदर्शक-सङ्केतस्थलम्
- सिन्धुदुर्गमण्डल-सर्वकार-सङ्केतस्थलम्
- 'मराठीसृष्टी' इत्यस्य सङ्केतस्थलम्[नष्टसम्पर्कः]
- मराठीविश्वकोशः