सुखं त्विदानीं त्रिविधं...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
- अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षड्त्रिंशत्तमः(३६) श्लोकः ।
पदच्छेदः
सम्पादयतुसुखं तु विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति ॥
अन्वयः
सम्पादयतुभरतर्षभ ! इदानीं मे (वचनात्) त्रिविधं सुखं तु शृणु यत्र अभ्यासात् रमते दुःखान्तं च निगच्छति ।
शब्दार्थः
सम्पादयतु- रमते = सन्तुष्टिं प्राप्नोति
- दुःखान्तम् = दुःखोपशमम्
- निगच्छति = प्राप्नोति
अर्थः
सम्पादयतुभरतश्रे ! यथा क्रियाणां कर्तृकर्मकरणानां च गुणभेदात् त्रिविधत्वं तथा तत्फलस्य सुखस्यापि तत् त्रिविधत्वं सम्भवति । तच्च सुखं तादृशं भवति यत्र पुरुषः समाधिवशात् अधिकां प्रीतिं प्राप्नोति, दुःखस्य अवसानं च । तदिदं कथयामि आकर्णय ।