सुधा चन्द्रन्
सुधा चन्द्रन् (Tamil: சுதா சந்திரன்) परिपूर्णा भरतनाट्यस्य नृत्याङ्गना । अपि च भारतस्य चलच्चित्रलोके दूरदर्शनकार्यक्रमेषु च अभिनयं नृत्यं च कृतवती । क्रि.श.१९८१तमे वर्षे तमिऴ् नाडु त्रिचीसमीपे सम्भूतात् सञ्चारवाहनस्य अपाघातात् एकपादेन हीना अपि कृतकपादयुक्ता एषा नृत्यक्षेत्रे अभिनयक्षेत्रे च यशः प्राप्तवती ।
Sudha Chandran | |
---|---|
Chandran at Rabindranath Tagore's 150th birth anniversary celebrations | |
जन्म |
Sudha Chandran २७ १९६५[१][२] Mumbai, Maharashtra, India |
शिक्षणस्य स्थितिः | मीठीबाई महाविद्यालय |
वृत्तिः | अभिनेता, टेलीविज़न अभिनेता&Nbsp; |
भार्या(ः) | Ravi Dang (m. 1994)[३] |
बाल्यं शिक्षा च
सम्पादयतुसुधा चन्द्रन् क्रि.श.१९६४तमे वर्षे सञ्जाता । [४] मितिबायी महाविद्यालयात् सा स्नातकपदवीम् अवप्नोत् । मुम्बै नगरे सा स्नातकोत्तरपदवीं समापितवती । क्ति.श.१९८११तमे वर्षे यदा सा तीर्थयात्राप्रसङ्गेफ़्न दक्षिणभारते तमिऴ् नाडु प्रान्ते गच्छन्ती सञ्चारयानस्य अपघातात् दक्षिणटङ्का नष्टा। तदनन्तरं तस्याः तत् दौर्बल्यं कृतकटङ्कां योजयित्वा भारतदेशस्य अग्रगण्यनृत्याङ्नासु अन्यतमा अभवत् । दैहिकमानसिकत्रासेन मध्ये वर्षद्वयं यावत् नर्तनस्य अभ्यासः त्यक्तः । तस्याः परिश्रमसाध्यम् उपलब्धिं परिगणयन्तः वैदेशिकाः तां नृत्यप्रदर्शनार्थम् आहूतवन्तः । यूरोप केनडा मध्यप्राच्येत्यादिषु विविधस्थानेषु नृत्यं प्रदर्श्य पुरस्कारान् सम्माननानि च प्राप्तवती । तस्याः प्रसिद्धिं परिगणयन्तः चलच्चित्रदूरदर्शनजनाः तां कार्यक्रमेषु योजितवन्तः ।
जीवनयात्रा
सम्पादयतुक्रि.श.१९८४तमे वर्षे तेलुगुभाषायाः मयूरी इति चलच्चित्रे कथया आकृष्टा सुधा चन्द्रन् तस्मिन् नटति । क्रि.श.१९८६तमे वर्षे एतत् एव चलच्चित्रं हिन्दीभाषया नाचि मयूरी इति नाम्ना पुनर्निर्मितम् । तस्मिन् एव वर्षे अनेन चलच्चित्रे अभिनयार्थम् इयं राष्ट्रियपुरस्कारं प्राप्तवती । एकता कपूरु इत्यनया निर्मिते दूरदर्शनवाहिन्याः कहीं किसी रोज़् हिन्दीभाषायाः कथामालिकायां रामोला सिकण्ड इति पात्रं निरूढवती यत् बहुखातमभवत् । भारतस्य दूरदर्शनवाहिनीषु अतिप्रसिद्धा अभिनेत्रिषु इयम् अन्यतमा इति परिगण्यते । यत्रापि अन्यस्मिन् क्षेत्रे कार्यं कुर्वती प्रसिधा अभवत् चेत् अपि अस्याः अनुरक्तिः भरतनाट्यम् एव । अतः सा मुम्बैनगरे सुधाचन्द्रन् अकादेमी अफ् डान्स् इति इति नृत्याकादमीम् अस्थापयत् । इदानीम् अस्याः संस्थायाः पुण्यपत्तनम् (पुणे) मध्ये अपि शाखा अस्ति । रविकुमार दङ्ग् इतेषः अस्याः पतिः अस्य नृत्यकलाशालायाः निदेशाकः अस्ति । आहत्य सुधा चन्द्रन् विश्वेऽस्मिन् आत्मविश्वासस्य मूर्तिरिव अस्ति ।
दूरदर्शनवाहिन्यां कलासेवा
सम्पादयतुकताशीर्षमकम् | पात्रम् | वाहिनी |
---|---|---|
अन्तरालम् | - | दूरदर्शनम् राष्ट्रियप्रसारः |
अरसि | मधुरै तिलवती | सन् TV |
बहुरानियाँ | - | राष्ट्रियदूरदर्शनम् Metro |
चन्द्रकान्ता | - | राष्ट्रियदूरदर्शनम् |
चस्मे बदूर् | - | ज़ी TV |
हमारी बहू तुलसी | तुलसि | राष्ट्रियदूरदर्शनम् |
हम पाञ्च | आनन्दस्य पत्नी | ज़ी TV |
जाने भी दो यारो | - | राष्ट्रियदूरदर्शनम् Metro |
कि.स्ट्रीट् पाली हल्ली | गायत्री कौल | स्टार् प्लस् |
कहीं किसी रोज़् | रोमोला सिकण्ड | स्टार् प्लस् |
कैसे कहूँ | - | ज़ी TV |
कलसम् | चन्द्रमति | सन् TV |
कसौटी | मासी | स्टार् प्लस् |
कुच् इस् तरहा | मल्लिका नन्दा | Sony TV |
क्या दिल् में है | राजेश्वरी देवी | ९X |
क्या सास भी कभी बहू थी | आरक्षकाधिकारिणी | स्टार् प्लस् |
साथ् साथ् | - | राष्ट्रियदूरदर्शनम् Metro |
सोलह सिङ्गार् | राजेश्वरी देवी | सहारा वन् |
तुम्हारी दिशा | दिशायाः माता | ज़ी TV |
कश्मकश् ज़िन्दगी की | राजलक्ष्मी | राष्ट्रियदूरदर्शनम् |
कथापरयुम् कव्याञ्जली | राजलक्ष्मी | सूर्यTV |
सौन्दर्यवल्ली | अखिलाण्डेश्वरी | जयाTV |
जैयम् | पद्मा | जयाTV |
पोण्डट्टि तेवै | राजलक्ष्मी | सन् TV |
थक थिमि था | सा स्वयम् | जया TV |
चलच्चित्रजगति कलासेवा
सम्पादयतुवर्षम् | चलच्चित्रम् | पात्रम् | टीका |
---|---|---|---|
क्रि.श.२००६ | शादी करके फँस गया यार - हिन्दीभाषा | न्यायाधीशा | |
क्रि.श.२००६ | मालामाल वीकली | ठकुराइन | |
क्रि.श.२००० | तूने मेरा दिल ले लिया | ||
क्रि.श.१९९९ | हम आपके दिल में रहते हैं | ||
क्रि.श.१९९५ | रघुवीर | आरती वर्मा | |
क्रि.श.१९९५ | मिलन | जया | |
क्रि.श१९९४ | बाली उमर को सलाम | ||
क्रि.श.१९९४ | अंजाम | ||
क्रि.श.१९९३ | फूलन हसीना रामकली | ||
क्रि.श.१९९२ | इन्तेहा प्यार की | ||
क्रि.श.१९९२ | इंसाफ की देवी | सीता एस प्रकाश | |
क्रि.श.१९९२ | निश्चय | ||
क्रि.श.१९९१ | जान पहचान | हेमा |
प्रशस्तिपुरस्काराः
सम्पादयतुNational Film Awards, १९८६
The Indian Television Academy Awards, २००५
- Best Actess in a negative role - For तुम्हारी दिशा
उल्लेखाः
सम्पादयतु- ↑ "Sudha Chandran Herself". Indiatimes. आह्रियत 16 June 2016.
- ↑ Madon, Vimala (7 March 2016). "Women's Day special – against all odds". Gulf News. Archived from the original on 8 March 2016. आह्रियत 16 June 2016.
- ↑ Farook, Farhana (21 November 2007). "I view the accident as a blessing: Sudha Chandran". DNA. आह्रियत 16 June 2016.
- ↑ Never-say-die attitude: BACK ON THE BIG SCREEN - Sudha Chandran 'The Hindu'