सुवर्णम्
सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि चित्रपलकानि इत्यादि वस्तूनि निर्माणन्ति। औषधानि च सिद्धं कुर्वन्ति । सुवर्णम् महार्घम् अस्ति।
- सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम् ।
- लोहानामुत्तमं चैव सर्वेषामपि चोत्तमम् ॥
इत्युक्तत्वात् सुवर्णं जनानाम् अत्युत्तमं धनं भवति । अनेन कटकमकुटादिभूषणादिकं क्रियते । तद्धारणं परमं मङ्गलमिति मन्यन्ते आर्याः ।
तथा च श्रुतिः -
- अग्नेरपत्यं प्रथमं पवित्रं मङ्गलं परम् ।
अत्र अग्नेरपत्यमित्यनेन सुवर्णादिकं पृथ्वीगर्भे विशेषतः अग्निकार्येण जायत इत्युक्तं भवति । अत एव केचित् तार्किकाः सुवर्णरजतादिकं तैजसमिति मन्यन्ते । अन्ये तु पार्थिवमिति । वस्तुतत्त्वं तु मृत्पाषाणादिपार्थिवद्रव्यमेव जलसंसर्गेण अग्निपाकेन सूर्यरश्मिकृतप्रकाशापादनेन वायुसहायेन आकाशादृतावकाशेन च सुवर्णरत्नादिरूपेण जायते ।
सुवर्णं जाम्बूनदम्, इन्द्रगोपसन्निभं चन्द्ररश्म्याभम्, शबरोपमं शुकाभं पीतम् इति अनेकधा भवति । सुवर्णं पञ्चविधम् इत्यन्यत्र - प्राकृतं सहजं वह्निसम्भूतं खनिसम्भूतं रसेन्द्रवेधसञ्जातं चेति । तेषु रजोगुणसमुद्भवं प्राकृतम् । मेरूद्भवं सहजम् । वह्निसम्भूतम् - त्रिविधमेतत्सुवर्णं षोडशवर्णयुतम् ।
गिरिसम्भूतं खनिसम्भूतं च सुवर्णं चतुर्दशवर्णाढ्यम् । रसेन्द्रवेधसम्भूतं वेधजम् । सुवर्णं स्निग्धं (Beautiful) मेध्यं (Precious and valuable) विषगदहरं (kills poison) बृंहणं (contribute greatly to growth) वृष्यं (gives energy) च । सुवर्णभस्मविधयः रसरत्नसमुच्चये लोहनिरूपणे दर्शिताः ।
सुवर्णादिनाणकनिर्माणशाला (Mint)
सम्पादयतुसुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानाम् असम्बन्धावेशनचतुश्शालाम् एकद्वारम् अक्षशालां (Laboratory) कारयेत् । विशिखामध्ये सौवर्णिकं शिल्पवन्तमभिज्ञानं प्रत्येकं च स्थापयेत् । इत्युक्त्वा सुवर्णप्रभेदविषये जाम्बूनदं शातकुम्भं हाटकं वैष्णवं शृङ्गशुक्तिजं जातरूपं रसविद्धमाकरोद्गतं च सुवर्णमिति दर्शयित्वा तस्य गौरववर्णादिकं (weight and carats) च निर्दिष्टम् । तद्विशेषविज्ञानाय शास्त्रान्तराणि विशेषतः वैद्यशास्त्राणि द्रष्टव्यानि ।
रसायनिकभावाः
सम्पादयतुसुवर्णं नवसप्ततितमं तत्त्वम् अस्ति। सुवर्णाणोः घनः १९९.९६ amu अस्ति। अस्य चिह्नम् Au अस्ति। सुवर्णम् उर्द्वतनीयम् आनत्यम् च अस्ति। अस्य सन्ततिः १३९०० kg/m३ ।