प्रमुखा विकल्पसूचिः उद्घाट्यताम्

पृथ्वी

(भूमिः इत्यस्मात् पुनर्निर्दिष्टम्)
पृथ्वी
{{{मुद्रा}}}
Rotating earth (large).gif
उपनाम
अपरं नाम भूमिः
विशेषणम् भूवासिनः
कक्षीयलक्षणानि
सूर्योच्यम् १५२,०९७,७०१ कि.मी
अपसौरिका १४७,०९८,०७४ कि.मी
अर्धमुख्य अक्ष १४९,५९७,८८७.५ कि.मी
विकेन्द्रता ०.०१६७१०२१९
परिक्रमणकालः ३६५.२५६३६६ देनानि
परिक्रमणगतिः १०७,२१८ कि.मी/हौ
उपग्रहः १ (चन्द्रमा:)
भौतिक लक्षणानि
मध्यत्रिज्यः ६,३७१.० कि.मी
ध्रुवीयत्रिज्या ६,३५६.८ कि.मी
सपाटता ०.००३३५२८
परिधिः ४०,०७५.०२ कि.मी
आयतनम् १.०८३२०७३×१० १२
द्राव्यमानम् ५.९७३६×१०२४ केजी
मध्यमघनित्वम् ५.५१५३ ग्रा/घन सेंमी
गुरुत्वाकर्षणम् ९.७८०३२७ मी/वर्ग क्षण:
पलायनगतिः ४०,२७० कि.मी/हौ
प्रदक्षिणकालः ०.९९७२५८ देनम्
प्रदक्षिणगतिः ४६५.११ मी/क्षण:
तापमानम् १८४-३३१ किलो
वायुमण्डलम्
दबः {{{दबः}}}
वयुसंघटनम् {{{वयुसंघटनम्}}}

पृथ्वी ( /ˈprθv/) (हिन्दी: पृथ्वी, आङ्ग्ल: Earth) कश्चित् ग्रहः अस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थिता अस्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमः ग्रहः अस्ति । जीवनाय अनुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्वी अधिकोष्णा नास्ति, अधिकशीतलापि नास्ति । पृथ्व्यां वायुः, जलम् च अस्ति । जीवनस्य कृते वायुजलयोः आवश्यकता भवति । अत्र प्राणवायुः (Oxygen) अपि अस्ति, येन श्वसनतन्त्रं चलति । अनेन कारणेन पृथ्वी सौरमण्डलस्य अद्भुतग्रहः विद्यते । [१]

अन्तर्विषयाः

पृथिव्याः उत्पत्तिःसम्पाद्यताम्

पृथिव्याः उत्पत्तिविषये संशोधनाय बहवः वैज्ञानिकाः कार्यरताः आसन् । इदानीमपि बहवः वैज्ञानिकाः संशोधने कार्यरताः सन्ति । पृथिव्याः उत्पत्तिविषये वैज्ञानिकानां, दार्शिकानां च बहूनि मतानि सन्ति ।

  • १९७६ तमे वर्षे लाप्सेस् नामकेन गणितज्ञेन पृथिव्याः उत्पत्तिवषये संशोधनं कृतम् आसीत् । तत् संशोधनं नीहारिका परिकल्पना (Nebular hypothesis) इति उच्यते । अस्याः परिकल्पनायाः अनुसारं ग्रहाणां निर्माणं कैश्चित् पदार्थैः अभवत् । ते पदार्थाः अन्तरिक्षे मन्दं मन्दं भ्रमन्ति । ततः तेषां पदार्थानां सम्मेलने ग्रहाणां निर्माणं जातम् ।
  • १९०० तमे वर्षे चेम्बरलेन्, मोल्टन् च इत्याख्याभ्याम् उक्तम् यत्, किञ्चित् भ्रमणशीलं नक्षत्रं ब्रह्माण्डे भ्रमत् आसीत् । तदा तन्नक्षत्रं सूर्यस्य समीपं गतवत् । नक्षत्रस्य गुरुत्वाकर्षणबलेन सूर्यात् कश्चित् लघुखण्डः पृथगभवत् । यदा नक्षत्रं सूर्यात् दूरं गतवत्, तदा अयं लघुखण्डः सूर्यं परितः एव भ्रमणम् आरभत । समयान्तरे लघुखण्डः ग्रहे रूपान्तरितः जातः ।
  • सूर्यस्य समीपं मित्रनक्षत्रं भ्रमति स्म इति अपि केषाञ्चित् मतम् अस्ति । अयं तर्कः 'द्वैतारक सिद्धान्त' (Binaru theories) इति नाम्ना प्रसिद्धः अस्ति ।
  • १९५० तमे वर्षे रूस-देशस्य ऑटो शिमिड्, जर्मन्-देशस्य कार्ल वाइजास्कर इत्याख्याभ्यां नीहारिका कल्पनायां संशोधनं कृतम् । तस्मिन् संशोधने किञ्चित् भिन्नम् आसीत् । सूर्यः एकस्यां सौरनीहारिकायाम् आसीत् । सा सौरनीहारिका हाइड्रोजन्, हीलीयम्, रजकणैः च निर्मिता आसीत् । एतेषां रजकणानां घर्षणेन शरावसदृशस्य आकारस्य मेघस्य निर्माणम् अभवत् । कालान्तरे तस्य मेघस्य वृद्धिः अभवत् । तेन ग्रहाणां निर्माणं जातम् ।[२]

पृथिव्याः आन्तरिकसंरचनासम्पाद्यताम्

पृथिव्याः प्रकृतिः विशिष्टा वर्तते । तस्य विषये इदानीम् अपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्याः उपरिभागः स्थलमण्डलेन आवृतः अस्ति । ज्वालामुखिना पृथिव्याः बहवः पदार्थाः बहिरागच्छन्ति । ज्वालामुखिनः अत्युष्णः द्रवपदार्थः, मृत्तिका, धूम्रः, अग्निः, मैग्मा च बहिरागच्छति । तेन एव वैज्ञानिकाः अनुमानं चिन्तयन्ति । वैज्ञानिकाः भौगोलिके संशोधने कार्यरताः भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्याः विषये विशिष्टं ज्ञानं भवति । अतः ते पृथिव्याः, ब्रह्माण्डस्य च संरचनायाः विषये सूक्ष्मतया जानन्ति । वैज्ञानिकैः पृथिव्याः आन्तरिकसंरचनायाः संशोधनं कृतम् अस्ति । पृथिव्याः त्रिज्या ६,३७० कि. मी. अस्ति । किन्तु पृथिव्याः केन्द्रे गमनम् असम्भवम् अस्ति । तत्रत्यानां पदार्थानां प्रतिरूपं प्राप्तुम् अपि अशक्यम् । अस्यां स्थितौ अपि वैज्ञानिकाः संशोधनं कुर्वन्तः सन्ति । संशोधनेन एव ते बहवः विशिष्टं ज्ञानं प्राप्तुं समर्थाः अभवन् ।[३]

संशोधनाय स्रोतांसिसम्पाद्यताम्

भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति । भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः ।[४]

प्रत्यक्षस्रोतांसिसम्पाद्यताम्

पृथिव्यां धरातलीयाः शिलाः सन्ति । ताः शिलाः खननक्षेत्रेषु प्राप्यन्ते । दक्षिण अफ्रिका-देशे स्वर्णस्य सुरङ्गाः सन्ति । ताः सुरङ्गाः ४ कि. मी. पर्यन्तं गहनाः सन्ति । किन्तु एतावत् अधिकं खननम् अशक्यम् अस्ति । यतः तत्रत्यं तापमानम् अधिकं भवति । तस्मात् अग्रे गमने तापमाने वृद्धिर्भवति । किन्तु वैज्ञानिकाः केवलं खननकार्येण एव संशोधनं न कुर्वन्ति । तस्मात् खननकार्यात् अतिरिक्तः विभिन्नाभिः योजनाभिः पृथिव्याः आन्तरिकीं स्थितिं ज्ञातुं वैज्ञानिकाः गहनं संशोधनं कुर्वन्तः सन्ति ।

विश्वस्य वैज्ञानिकाः द्वाभ्यां मुख्याभ्यां योजनाभ्याम् संशोधनं कुर्वन्तः सन्ति । गहने समुद्रे प्रवेधनस्य परियोजना, समन्वितमहासागरे प्रवेधनस्य परियोजना इति द्वे परियोजने प्रचलतः ।[५]

वर्तमाने आर्कटिक-महासागरे कोला-क्षेत्रे १२ कि. मी. गहनं प्रवेधनम् अस्ति । एतादृशीभ्यः परियोजनाभ्यः संशोधने वैज्ञानिकाः असाधारणज्ञानं प्राप्तवन्तः ।

ज्वालामुखी प्रत्यक्षस्रोतस्सु अन्यतमः स्रोतः वर्तते । यदा ज्वालामुखिनः अत्युष्णः द्रवपदार्थः प्राप्यते, तदा वैज्ञानिकाः तत्पदार्थं संशोधनार्थं प्रयोगशालायां नयन्ति । किन्तु इदानीम् अपि मैग्मा इत्यस्य क्षेत्रं कियत् गहनम् अस्ति ? इति निश्चितं नास्ति ।[६]

अप्रत्यक्षस्रोतांसिसम्पाद्यताम्

प्रत्यक्षस्रोतसा यः कोऽपि पदार्थः प्राप्तः, तत्पदार्थस्य गुणधर्मस्य विश्लेषणे वैज्ञानिकाः पृथिव्याः आन्तरिकभागस्य अप्रत्यक्षज्ञानं प्राप्नुवन्ति । खननप्रक्रियया ज्ञायते यत्, पृथिव्याः तलस्य गहने सति तापमानः, प्रबलता च वर्धते । अधिके गहने सति पदार्थस्य घनत्वम् अपि वर्धते । अतः पृथिव्याः परिवर्तनमानस्य अनुमानं भवति ।[७]

पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः द्वितीयस्रोतः अस्ति । ताः उल्काः यदा कदा पृथिव्यां पतन्ति । किन्तु उल्कासु ये पदार्थाः भवन्ति ते पदार्थाः पृथिव्याः आन्तरिकभागेषु न प्राप्यन्ते । उल्काभ्यः प्राप्तपदार्थानां संरचना पृथिव्याः आन्तरिकसंरचनया सह किञ्चित् सम्मिलति । यैः पदार्थैः पृथिवी निर्मिता अस्ति, तैः पदार्थैः एव एताः उल्काः निर्मिताः सन्ति । अतः पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः महत्वपूर्णं स्रोतः अस्ति ।

गुरुत्वाकर्षम्, अयस्कान्तीयक्षेत्रं, भूकम्पः इत्यादयः अप्रत्यक्षाणि स्रोतांसि सन्ति । पृथिव्याः धरातले अपि विभिन्नेषु अक्षांशेषु गुरुत्वाकर्षणबलं समानं नास्ति । इदं गुरुत्वाकर्षणबलं ध्रुवेषु अधिकं भूमध्यरेखायां न्यूनं भवति । गुरुत्वस्य मानं पदार्थस्य तापमानानुसारम् अपि परिवर्तते ।[८] यतः भूगर्भस्य आन्तरिकसंरचनायां स्थितेषु पदार्थेषु अपि बहूनि परिवर्तनानि भवन्ति । पृथिव्याः आन्तरिकसंरचनायाः बहवः विभागाः सन्ति । यथा – भूपर्पटी (The Crust), आवरणं (मैंटल), अन्तर्भागः (क्रोड) ।

भूपर्पटी (The Crust)सम्पाद्यताम्

भूपर्पटी पृथिव्याः बहिर्भागः वर्तते । अयं भगुरः भागः अस्ति । इयं भूपर्पटी न्यूनप्रबलातया (pressure) एव भङ्गः भवति । महासागरेषु भूपर्पट्याः विस्तीर्णता महाद्वीपेभ्यः न्यूना वर्तते । महासागरेषु अस्याः विस्तीर्णता प्रायः ५ कि. मी. अस्ति । किन्तु द्वीपेषु ३० कि. मी. अस्ति । पर्वतीयासु शृङ्खलासु अस्य विस्तीर्णता सर्वाधिका वर्तते । हिमालयपर्वतशृङ्खलायाः भूपर्पट्याः विस्तीर्णता ७० कि. मी. अस्ति ।

भूपर्पटी गहनाभ्यः शिलाभ्यः निर्मिता अस्ति । अस्याः घनत्वं ३ ग्राम् प्रतिघनं से. मी. अस्ति । महासागरेषु स्थिता भूपर्पटी बेसाल्ट् इत्यनेन निर्मिता अस्ति । अतः महासागरेषु अस्याः घनत्वं २.७ ग्राम् प्रतिघनं से. मी. अस्ति ।[९]

आवरणम् (मैंटल - Mantle)सम्पाद्यताम्

भूपर्पट्याः अधः भागः मैंटल इति कथ्यते । अस्याः गहनता २९०० कि. मी. पर्यन्तम् अस्ति । मैंटल इत्यस्य ऊर्ध्वभागः दुर्बलतामण्डलं (Asthenosphere) कथ्यते । एस्थेनो (Astheno) इत्यस्य शब्दस्य अर्थः दुर्बलता इति । अस्य मण्डलस्य विस्तीर्णता प्रायः ४०० कि. मी. पर्यनतम् अस्ति । ज्वालामुखिनः बहिरागतस्य अत्युष्णपदार्थस्य मुख्यं स्रोतः इदं मण्डलम् एव अस्ति । अस्य घनत्वं भूपर्पट्याः शिलाभ्यः अधिकं वर्तते । ३.४ ग्राम् प्रति से. मी. इत्यस्मात् अपि अधिकम् अस्य घनत्वं वर्तते ।

भूपर्पटी मैंटल इत्येतौ द्वौ मिलित्वा स्थलमण्डलं (Lithosphere) कथ्यते । अस्य मण्डलस्य विस्तीर्णता १० तः २०० कि. मी. पर्यन्तम् अस्ति । अधस्थस्य मैंटल इत्यस्य विस्तीर्णता दुर्बलतामण्डलस्य समाप्तेः परम् अपि अस्ति । अयं भागः कठोरः वर्तते ।[१०]

अन्तर्भागः (क्रोड- The core)सम्पाद्यताम्

भूकम्पीयानां तरङ्गाणां वेगेन पृथिव्याः अन्तर्भागस्य संशोधने साहाय्यम् अभवत् । २९०० कि. मी. इत्यस्मात् परं अन्तर्भागस्य (क्रोड- The core) आरम्भः भवति । अस्य भागस्य द्वौ भागौ स्तः । बाह्यक्रोडः, आन्तरिकक्रोडः च । बाह्यभागः तरलावस्थायाम् अस्ति । आन्तरिकक्रोडः कठोरावस्थायां वर्तते । मैंटल क्रोड् इत्येतयोः सीमायां स्थितानां शिलानां घनत्वं प्रायः ५ ग्राम् प्रतिघनं से. मी. अस्ति । किन्तु ६३०० कि. मी. पर्यन्तं पृथिव्याः केन्द्रे घनत्वं १३ ग्राम् प्रतिघनं से. मी. अस्ति । तेन ज्ञायते यत् भारवद्भिः पदार्थैः अन्तर्भागः (क्रोड- The core) निर्मितः अस्ति । तेषु पदार्थेषु मुख्यतः निकल (Nickle), लोहः (Ferrum) इत्यादयः सन्ति । अयं ’निफे’ (Nife) इति नाम्ना अपि ज्ञायते ।[११]

पृथिव्यां जीवनस्य विकासःसम्पाद्यताम्

पृथिव्याः उत्पत्तेः अनन्तरम् अन्ते जीवनस्य उत्पत्तिः, विकासश्च अभवत् । प्रारम्भे पृथिव्याः प्रारम्भिकं वायुमण्डलं जीवनाय अनुकूलं नासीत् । सा एका रासायनिका प्रक्रिया आसीत् इति आधुनिकाः वैज्ञानिकाः कथयन्ति । तस्यां प्रक्रियायां पुरा जैव-अणोः निर्माणम् अभवत् । तदनन्तरं तेषां जैव-अणूनां समूहाः अभवन् । ते समूहाः निर्जीवपदार्थानां जीवतत्त्वे परिवर्तनं कृतवन्तः । ३८० कोटिवर्षाणि पुरा पृथिव्यां जीवनविकासस्य आरम्भः अभवत् इति मान्यता ।[१२]

पृथिव्याः प्रमुखाणि परिमण्डलानिसम्पाद्यताम्

ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च ।

भूमण्डलं नामकः प्रथमः घटकः अस्ति । भूमण्डले जीवाः निवसन्ति । वायोः स्तरैः पृथ्वी आवृता अस्ति । तत्स्तराः वायुमण्डलम् इति कथ्यन्ते। ऑक्सीजन, नाइट्रोजन, कार्बन डाइऑक्साइड् इत्यादयः वायवः वायुमण्डले भवन्ति । पृथिव्याः अधिकतमेषु स्थानेषु जलम् अस्ति । तज्जलमण्डलम् इति कथ्यते । हिमः, जलं, जलबाष्पः इत्यादयः अवस्थाः जलमण्डले सम्मिलिताः सन्ति । एतानि मण्डलानि जैवमण्डले सम्मिलन्ति । जैवमण्डले समस्तप्रकारकाणि जीवनानि प्राप्यन्ते ।[१३]

स्थलमण्डलम्सम्पाद्यताम्

पृथिव्याः कठोरभागः भूमण्डलम् इति कथ्यते । भूपर्पट्याः शिलानां, मृत्तिकायाः च स्तरैः इदं मण्डलं निर्मितम् अस्ति । मण्डलेऽस्मिन् जीवेभ्यः पोषकत्त्वानि प्राप्यन्ते ।

अस्य भूमण्डलस्य भागद्वयं कृतम् अस्ति । महाद्वीपाः, महासागरीयः बेसिन इति । विश्वस्य सर्वे महासागराः परस्परं सम्बद्धाः सन्ति । समुद्रजलस्य तलम् अपि सर्वत्र समानम् एव भवति । समुद्रतलात् स्थलस्य औन्नत्यस्य मानं क्रियते । तत् शून्यम् इति मन्यते ।

माउण्ट एवरेस्ट विश्वस्य उच्चतमं शिखरं वर्तते । अस्य औन्नत्यं ८,८४८ मी. अस्ति । विश्वस्य गहनतमः गर्तः प्रशान्तमहासागरस्य मेरियाना गर्तः अस्ति । तस्य गर्तस्य गहनता ११,०२२ मी. अस्ति । पृथिव्याः उच्चतमात् स्थलात् अपि समुद्रस्य गहनता अधिका वर्तते ।[१४]

महाद्वीपाःसम्पाद्यताम्

पृथिव्यां सप्त महाद्वीपाः सन्ति । तान् परितः जलम् एव अस्ति । ते – एशिया, यूरोप्, आफ्रिका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्कटिका च ।

एशियासम्पाद्यताम्

एशिया-महाद्वीपः सप्तमहाद्वीपेषु बृहत्तमः वर्तते । अयं महाद्वीपः पूर्वगोलार्धे स्थितः अस्ति । कर्क-रेखायाम् अयं द्वीपः स्थितः अस्ति । एशियामहाद्वीपस्य पश्चिमे एशिया-यूरोपमहाद्वीपयोः मध्ये युराल नामकः पर्वतः अस्ति । सः पर्वतः एशियामहाद्वीपात् यूरोपमहाद्वीपं पृथक्करोति । यूरोप-एशिया इत्येतयोः संयुक्तः भागः यूरेशिया (यूरोप+एशिया) इति कथ्यते ।

यूरोप्सम्पाद्यताम्

आर्कटिक-वृत्ते अयं महाद्वीपः स्थितः अस्ति । यूरोप-महाद्वीपः एशियामहाद्वीपात् लघुः वर्तते । अयं महाद्वीपः एशिया-महाद्वीपस्य पश्चिमे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु जलम् अस्ति ।

अफ्रिकासम्पाद्यताम्

अफ्रिका-महाद्वीपः विश्वस्य द्वितीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते । अस्य महाद्वीपस्य मध्ये विषुवत् वृत्तरेखा अस्ति । अस्य महाद्वीस्य अधिकतमः भागः उत्तरीये गोलार्धे स्थितः अस्ति । अस्मिन् महाद्वीपे कर्करेखा, विषुवत्-रेखा, मकररेखा इति तिस्रः रेखाः वर्तन्ते ।

विश्वस्य बृहत्तमः सहारा-नामकः मरुः अफ्रिका-महाद्वीपे स्थितः अस्ति । अफ्रिका-महाद्वीपं परितः महासागराः वर्तन्ते । विश्वस्य दीर्घतमा नीलनदी अपि अफ्रिका-महाद्वीपे प्रवहति ।[१५]

उत्तर अमेरिकासम्पाद्यताम्

उत्तर अमेरिका-महाद्वीपः विश्वस्य तृतीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः पनामा-स्थलसन्धिना, दक्षिण अमेरिका-महाद्वीपेन च सह संलग्नः अस्ति । अयं महाद्वीपः उत्तरीय-पश्चिमगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु महासागराः सन्ति ।

दक्षिण अमेरिकासम्पाद्यताम्

दक्षिण अमेरिका इत्यस्य महाद्वीपस्य अधिकतमः भागः दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य उत्तरतः दक्षिणपर्यन्तं विश्वस्य दीर्घतमा पर्वतशृङ्खला वर्तते । अस्मिन् महाद्वीपे विश्वस्य बृहत्तमा अमेजन-नदी प्रवहति ।

आस्ट्रेलियासम्पाद्यताम्

आस्ट्रेलिया-महाद्वीपः विश्वस्य लघुत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः दाक्षिणात्यगोलार्धे स्थितः अस्ति । इमं महाद्वीपं परितः सागराः, महासागराः च सन्ति । अयं द्वीपीयमहाद्वीपः अपि कथ्यते ।

अण्टार्कटिकासम्पाद्यताम्

अण्टार्कटिका-महाद्वीपः बृहत् महाद्वीपः अस्ति । अयं दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य मध्ये दक्षिणध्रुवः अस्ति । अतः अयं महाद्वीपः हिमाच्छादितः भवति । अस्मिन् महाद्वीपे मानवनिवासः असम्भवः । अतः केवलं विभिन्नदेशानां शोधकेन्द्राणि अत्र स्थापितानि सन्ति । भारतदेशस्य अपि मैत्रीशोधसंस्थानं, दक्षिणगङ्गोत्रीशोधसंस्थानम् इत्येते शोधसंस्थाने अत्र स्थिते स्तः ।[१६]

स्थलमण्डलस्य विकासःसम्पाद्यताम्

सूर्यस्य अत्यधिकप्रकाशेन वयं नक्षत्राणि, चन्द्रमसः इत्यादीनि मध्याह्ने दृष्टुं न शक्नुमः । सूर्यः, चन्द्रमा, रात्रौ आकाशे दृश्यमानानि यानि सन्ति, तानि सर्वाणि खगोलीयपिण्डः इति उच्यन्ते ।

केषाञ्चित् खगोलीयपिण्डानाम् आकृतिः बृहती भवति । ते उष्णाः अपि भवन्ति । ते वायोः निर्मिताः सन्ति । तेषां समीपं प्रकाशः, उष्मा च भवतः । ते खगोलियपिण्डाः नक्षत्राणि कथ्यन्ते । सूर्यः अपि नक्षत्रम् अस्ति ।

ग्रहाणुः, अन्ये खगोलियपिण्डाः च लघुभारपदार्थानां मिश्रणैः निर्मिताः सन्ति । अतः बहूनाम् अणूनां मिश्रणेन ग्रहाः निर्मिताः जाताः । पृथिव्याः रचना अपि अनेन प्रकारेण एव अभवत् । गुरुत्वबलात् पदार्थाः एकत्रिताः अभवन् । तस्मिन् समये पदार्थाः पिण्डेभ्यः प्रभाविताः जाताः । तेन कारणेन तेभ्यः उष्मा उत्पन्ना अभवत् । अत्यधिकतापेन पृथ्वी आंशिकरूपेण द्रवावस्थायां परिवर्तिता जाता । लघुभारयुताः भारयुतेभ्यः पदार्थेभ्यः पृथगभवन् । अनेन कारणेन भारयुताः पदार्थाः पृथ्व्याः केन्द्रं गतवन्तः । यथा – लौहः इत्यादयः । भारहीनाः पदार्थाः पृथ्व्याः उपरि आगतवन्तः । समयान्तरे ते पदार्थाः शीतलाः जाताः । कठोररूपे अपि परिवर्तिताः जाताः । अन्ते ते पदार्थाः भूस्थलत्वेन स्थापिताः अभवन् । सा पृथक्करणप्रक्रिया विभेदनम् (Differentiation) इत्युच्यते ।[१७]

चन्द्रमसः उत्पत्तिसमये भीषणसङ्घट्टेन (Giant impact) पृथ्व्याः तापमाने पुनः वृद्धिः जाता । पुनः ऊर्जायाः वृद्धिरभवत् । इदं विभेदनस्य द्वितीयचरणम् आसीत् । अनया प्रक्रियया पृथ्व्याः पदार्थाः अनेकेषु भागेषु विभक्ताः अभवन् । तेषु – पर्पटी(Crust), प्रावार(Mantle), बाह्यकोड(Outer core), आन्तरिकक्रोड(Inner core) । पृथिव्याः पर्पटी तः आन्तरिकभागपर्यन्तं पदार्थानां घनत्वं वर्धते ।[१८]

पृथिवीतलं सर्वत्र समानं नास्ति । पृथिव्याम् अनेकेषां प्रकारकाणां स्थलरूपाणि सन्ति । स्थलमण्डलस्य कश्चित् भागः उच्चः, अधः, समतलः च वर्तते । तेषु पर्वतः, उच्चप्रदेशः (पठार), क्षेत्रं च अस्ति ।[१९]

पर्वतःसम्पाद्यताम्

पर्वतस्य शिखरं लघु, आधारः विस्तृतः च वर्तते । अयं समीपस्थेभ्यः क्षेत्रेभ्यः उन्नतः भवति । केषुचित् पर्वतेषु सदैव हिमनद्यः भवन्ति । ताः हिमानी इति कथ्यन्ते । पृथिव्यां केचित् पर्वताः समुद्रेषु सन्ति । तेन वयं तान् दृष्टुम् असमर्थाः स्मः । ये पर्वताः क्रमबद्धाः भवन्ति, ते पर्वतशृङ्खला इत्यनेन सम्बोध्यते । पर्वतानाम् आकारे अपि भिन्नता भवति । पर्वतस्य त्रयः प्रकाराः सन्ति । वलितपर्वतः, भ्रंशोत्थपर्वतः, ज्वालामुखिपर्वतः च । यस्य पर्वतस्य तलं कर्कशं, शिखरं शङ्क्वाकारं च वर्तते, सः वलितपर्वतः कथ्यते । हिमालयपर्वतः, आल्प्स-पर्वतः च एतौ वलितपर्वतौ स्तः । भारतस्य अरावली-पर्वतशृङ्खला विश्वस्य पुरातनी वलितपर्वतशृङ्खला अस्ति । उत्तर अमेरिका-महाद्वीपे अप्लेशियन् पर्वताः, रूस-देशे यूराल् पर्वताः सन्ति । ते पर्वताः वृत्ताकाराः सन्ति । तेषाम् उच्चता न्यूना वर्तते । यदा पर्वतस्य बृहद्भागः त्रुटितः, ऊर्ध्वाधरः च भवति, तदा सः भ्रंशोत्थपर्वतस्य निर्माणं करोति । पर्वतस्य ऊर्ध्वभागः उत्खण्डभ्रंशः, ध्वस्तः भागः द्रोणिकाभ्रंशः कथ्यते । यूरोप्-महाद्वीपे वॉसजेस्-पर्वतः, राईन घाटी च भ्रंशोत्थपर्वतः अस्ति ।

ज्वालामुखिक्रियया ज्वालामुखिपर्वतस्य निर्माणं भवति । अफ्रीका-महाद्वीपे किलिमञ्जारो, जापान्-देशे फ्यूजियामा एतौ ज्वालामुखिपर्वतौ स्तः ।

पर्वताः लाभदायकाः, जलसङ्ग्राहकाः च भवन्ति । पर्वतेषु स्थिताः हिमान्यः बह्वीनां नदीनां स्रोतांसि भवन्ति । पर्वतानां जलस्य उपयोगः सेचनाय, जलविद्युतः उत्पादनाय भवति । पर्वतेषु विविधाः वनस्पतयः, जीवजन्तवः च प्राप्यन्ते ।[२०]

शैलप्रस्थः(पठार)सम्पाद्यताम्

उच्च-समतलभूमिः शैलप्रस्थः उच्यते । समीपस्थानां स्थलानाम् अपेक्षया अयम् उच्चः भवति । अस्य उपरिभागः उत्पीठिका इव दृश्यते । शैलप्रस्थस्य उच्चता प्रायः मीटर् तः किलोमीटर् पर्यन्तं भवति । भारतदेशे स्थितः दक्कन-शैलप्रस्थः पुरातनेषु शैलप्रस्थेषु अन्यतमः वर्तते । चीन-देशस्य तिब्बत-शैलप्रस्थः विश्वस्य उच्चतमः शैलप्रस्थः वर्तते । समुद्रतलात् तस्य उच्चता ४००० मी. तः ६००० मी. पर्यन्तम् अस्ति ।

शैलप्रस्थेषु प्रचुरमात्रायां खानिजाः प्राप्यन्ते । व्यापारिणः शैलप्रस्थे खननं कारयन्ति । अफ्रीका-देशस्य शैलप्रस्थः स्वर्णहीरकयोः खननाय प्रसिद्धः अस्ति । भारतेऽपि छोटानागपुरस्य शैलप्रस्थे लोहः, अङ्गारः, मैङ्गनीज इत्येते प्राप्यन्ते । शैलप्रस्थेषु वीक्षणीयस्थानानि अपि भवन्ति । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति ।[२१]

क्षेत्रम्(मैदान)सम्पाद्यताम्

समतलभूमेः बृहद्भागः क्षेत्रम् कथ्यते । क्षेत्रस्य उच्चता समुद्रतलात् २०० मी. इत्यस्मात् अधिकः न भवति । नदीनां ग्रासप्रक्रियया क्षेत्राणां निर्माणं भवति । क्षेत्राणि उर्वराणि अपि भवन्ति । क्षेत्रेषु परिवहनस्य साधनानां निर्माणं सरलम् अस्ति । क्षेत्रेषु जनसङ्ख्या अधिका भवति । मनुष्येभ्यः क्षेत्राणि उपयोगीनि भवन्ति । यतः भवननिर्माणे समतलभूमेः आवश्यकता भवति । क्षेत्रेषु कृषिः अपि क्रियते । विश्वस्य बृहत्तमेषु भागेषु क्षेत्राणि सन्ति ।[२२]

जलमण्डलम्सम्पाद्यताम्

पृथ्वी नीलग्रहः अपि कथ्यते । पृथिव्याः जलभागः ७१%, स्थलभागः २९% अस्ति । जलमण्डले जलस्य सर्वाणि स्वरूपाणि भवन्ति । तेषु – महासागराः, नद्यः, सरोवराणि, हिमनद्यः, भूमिगतजलं, वायुमण्डलस्य जलबाष्पः च सम्मिलिताः सन्ति ।

पृथिव्यां स्थितस्य जलभागस्य ९७.२% भागः महासागरेषु अस्ति । तज्जलं बहुक्षारयुतं भवति । अतः मनुष्येभ्यः अनुपयोगि वर्तते । २.७७% भागः हिमनदीनां, भूमिगतजलस्य, हिमस्तराणां च स्वरूपे अस्ति । ०.०३% भागे एव लवणहीनं जलं वर्तते । मानवाः तस्य जलस्य उपयोगं कर्तुं शक्नुवन्ति । यद्यपि नीलग्रहः अस्ति, तथापि जलस्य अभावः अस्ति ।[२३]

महासागराःसम्पाद्यताम्

महासागराः जलमण्डलस्य मुख्यभागाः सन्ति । एते सर्वे परस्परं सम्बद्धाः सन्ति । महासागरीयजलं गतिशीलं भवति । महासागरीयजलस्य मुख्याः तिस्रः गतयः सन्ति । तरङ्गाः, वेलाः (ज्वार-भाटा, (Tide), महासागरीयधाराः च ।

पृथिव्यां चत्वारः महासागराः सन्ति । तेषु – प्रशान्तमहासागरः, अटलांटिक महासागरः, हिन्दमहासागरः, आर्कटिक महासागरः च ।

प्रशान्तमहासागरःसम्पाद्यताम्

प्रशान्तमहासागरः पृथिव्याः बृहत्तमः महासागरःवर्तते । पृथिव्याः ६६% भागे अयं विस्तृतः अस्ति । मेरियाना इति नामकः पृथिव्याः गहनतमः गर्तः अस्मिन् महासागरे एव स्थितः अस्ति । अयं प्रायः वृत्ताकारः वर्तते । अस्य महासागरस्य चतसॄषु र्दिक्षु एशियामहाद्वीपः, आस्ट्रेलियामहाद्वीपः, उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च स्थितः अस्ति ।

अटलांटिक महासागरःसम्पाद्यताम्

अटलांटिकमहासागरः विश्वस्य द्वितीयः बृहत्तमः महासागरः अस्ति । अस्य महासागरस्य आकारः आङ्ग्लभाषायाः S इति अक्षरम् इव वर्तते । अस्य महासागरस्य पश्चिमदिशि उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च अस्ति । पूर्वदिशि यूरोप-महाद्वीपः, अफ्रीका-महाद्वीपः च वर्तते । अस्य महासागरस्य माध्यमेन अधिकमात्रायां व्यापारः भवति । अतः सर्वेषु महासागरेषु व्यापारदृष्ट्या व्यस्ततमः महासागरः अस्ति ।

हिन्दमहासागरःसम्पाद्यताम्

हिन्दमहासागरस्य नाम भारत-देशस्य नामोपरि अस्ति । अयं महासागरः त्रिभुजाकारः वर्तते । अस्य उत्तरदिशि एशिया-महाद्वीपः, पश्चिमदिशि अफ्रीका-महाद्वीपः, पूर्वदिशि ऑस्ट्रेलिया-महाद्वीपः च अस्ति ।

आर्कटिक महासागरःसम्पाद्यताम्

आर्कटिकमहासागरः उत्तरध्रुववृत्ते स्थितः अस्ति । अयम् उत्तरध्रुवं परितः विस्तृतः अस्ति । अयं प्रशान्तमहासागरेण सह सम्बद्धः अस्ति । सा बेरिङ्ग नामिकः जलसन्धिः उच्यते ।[२४]

वायुमण्डलम्सम्पाद्यताम्

पृथिवी वायूनां स्तरैः आवृता अस्ति । तत् वायुमण्डलम् कथ्यते । वायोः स्तरः अस्य ग्रहस्य महत्वपूर्णः भागः वर्तते । वायुमण्डले बहवः वायवः सन्ति । मानवानां जीवनाय ते वायवः साहाय्यं कुर्वन्ति । इदं वायुमण्डलं सूर्यस्य हानिकारकेभ्यः किरणेभ्यः जीवान् रक्षति ।

वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः कृताः । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलम्, आयनमण्डलं, बहिर्मण्डलं च ।

नाइट्रोजन-ऑक्सीजन इत्येतौ द्वौ वायू वायुमण्डले मुख्यत्वेन स्तः । विस्तारानुसारेण वायुमण्डलस्य ७८% भागे नाइट्रोजन वायुः, २१% भागे ऑक्सीजन वायुः, १% भागे अन्ये वायवः(कार्बन डाई ऑक्साइड, ऑर्गन) सन्ति ।[२५] ऑक्सीजन वायुः श्वसनक्रियायाम् आवश्यकः वर्तते । यद्यपि कार्बन डाई ऑक्साइड इत्यस्य वायोः अल्पमात्रा अस्ति । तथापि अयं पृथिव्या निष्कासितायाः उष्मायाः अवशोषणं करोति । अयं वायुः पादपानां वृद्ध्यर्थम् अपि आवश्यकमः अस्ति ।

स्थलमण्डलात् औन्नत्ये वायुमण्डलस्य घनत्वे अपि भिन्नता भवति । समुद्रतले घनत्वस्य मात्रा सर्वाधिका वर्तते । किन्तु यथा यथा वायुमण्डले उर्ध्वं गच्छामः, तथैव घनत्वं न्यूनं भवति ।

वायुमण्डलस्य जलमण्डलस्य च विकासःसम्पाद्यताम्

पृथिव्याः वायुमण्डलस्य वर्तमानसंरचनायां नाइट्रोजन, ऑक्सीजन च वायुः प्रमुखः अस्ति । वर्तमानवायुमण्डलस्य अवस्थात्रयम् अस्ति । प्रथमायाम् अवस्थायाम् आदिकालिकानां वायुमण्डलीयानां वायूनां ह्रासः भवति । द्वितीयावस्थायां पृथिव्याः उत्पन्नः जलवाष्पः वायुमण्डस्य विकासे साहाय्यं कृतवान् ।

पृथिव्याः शीतलीकरणे विभेदनकाले पृथिव्याः आन्तरिकभागात् अनेकाः जलवाष्पः, वायवः च निर्गताः । अनेन वायुमण्डलस्य उद्भवः जातः । प्रारम्भे वायुमण्डले जलवाष्पः, नाइट्रोजन, कार्बनडाइ ऑक्साइड, मीथेन, अमोनिया इत्यादयः वायवः अधिकमात्रायां प्राप्ताः अभवन्, किन्तु स्वतन्त्रः ऑक्सीजन-वायुः न्यूनः आसीत् । पृथ्व्याः आन्तरिकभागात् वायवः बहिरागताः, इयं प्रक्रिया वायु-उत्सर्जनम् (Degassing) इति कथ्यते । ज्वालामुखिनां विस्फोटैः वायुमण्डले जलवाष्पः, वायुः च अवर्धत । कार्बन् डाई ऑक्साइड वायुः वर्षाजले सम्मिश्रितः जातः । तेन कारणेन तापमानं न्यूनम् अभवत् । अतः अत्यधिकवर्षा अभवत् । अधिकवर्षया पृथिव्यां महासागराणां निर्माणम् अभवत् । पृथिव्याः उत्पत्यनन्तरं ५० कोटिवर्षेषु महासागाराणां निर्माणं जातम् । प्रायशः २५०-३०० कोटिः वर्षाणि पुरा प्रकाशसंश्लेषणस्य प्रक्रियायाः विकासः अभवत् । अनया प्रक्रियया महासागरेभ्यः ऑक्सीजन् वायोः वृद्धिः जाता । किञ्चित् कालान्तरे वायुमण्डले ऑक्सीजन् वायोः आवश्यकता पूर्णा अभवत् ।[२६]

जीवमण्डलम्सम्पाद्यताम्

जीवमण्डलं स्थलमण्डले, जलमण्डले, वायुमण्डले च स्थितः कश्चित् भागः वर्तते । अस्मिन् मण्डले जीवनं शक्यम् । मण्डलेऽस्मिन् बह्वीनां प्रजातीनां जीवाः सन्ति । तेषु सूक्ष्मजीवाः, बैक्टीरिया, स्तनधारिणः इत्यादयः सर्वे जीवाः जीवमण्डले निवसन्ति । मनुष्यैः सह अन्ये प्राणिनः परस्परं जीवमण्डलैः सह सम्बद्धाः सन्ति । जीवमण्डलस्य प्राणिनः द्वयोः भागयोः विभक्ताः सन्ति । जन्तुजगत्, पादपजगत् च ।[२७]

पृथिव्यां जीवनम्सम्पाद्यताम्

पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति । स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च । पृथिव्यां जैवमण्डलम् अपि वर्तते । पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य (Biosphere) रचना अभवत् । एते सर्वे जीवधारिणः अन्यैः मण्डलैः सह पारस्परिकक्रियां कुर्वन्ति । पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते । तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति । अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते । किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते । केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति ।

जैवमण्डलं, जैवमण्डलानां घटकाः च पर्यावरणस्य महत्वपूर्णानि तत्त्वानि सन्ति । एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति । तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति । जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते ।[२८]

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्



सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 5. ISBN 8174505342. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 14. ISBN 8174505318. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 21. ISBN 8174505318. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 15. ISBN 8174505318. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174505318. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174505318. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174505318. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174505318. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 26. ISBN 8174505318. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 26. ISBN 8174505318. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 26,27. ISBN 8174505318. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174505318. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 31. ISBN 8174505342. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 33. ISBN 8174505342. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 33. ISBN 8174505342. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 34. ISBN 8174505342. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 17. ISBN 8174505318. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 18. ISBN 8174505318. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 41. ISBN 8174505342. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174505342. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 8174505342. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174505342. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 34. ISBN 8174505342. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 36. ISBN 8174505342. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 37. ISBN 8174505342. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 19. ISBN 8174505318. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). पृथ्वी- हमारा आवास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174505342. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 135. ISBN 8174505318. 
"https://sa.wikipedia.org/w/index.php?title=पृथ्वी&oldid=444530" इत्यस्माद् पुनः प्राप्तिः