कविपरिचयः सम्पादयतु

सूर्यनारायणशास्त्रिणो(Suryanarayana Shastri) जन्म हरियाणाप्रान्ते मसेन्द्रगडनगरे १८८३ तमे ईशवियाब्दे अभूत् । अस्य पितुर्नाम प्रभुदयाल आसीत् । अयं जयपुरे अधीत्य तत्रैव आङ्लमहाविद्यालये अध्यापनकार्यं कृतवान् । जयपुरनरेशो मानसिंहोऽस्य शिष्य आसीत् । अस्य निधनं १९५१ तमे क्रिष्टाब्दे जयपुरे अभवत् ।

काव्यरचनाः सम्पादयतु

अस्य महाकवेः मानवंशाख्यं बहूनि लघुकाव्यानि, प्रकीर्णपद्यानि, बहवो गद्यलेखाः, लघुकथाश्च संस्कृतरत्नाकरपत्रिकायां प्रकाशिताः ।

मानववंश्महाकाव्यम् सम्पादयतु

अस्मिन् ऐतिहासिककाव्ये १७ सर्गेषु आमेरराजपरम्परा वर्णिता । नात्र कश्चिदेको नायकः प्रत्युत एकवंशभवाः भूपाः नायकत्वेन वर्णिताः । अतोऽत्र जीवनस्य विविधपक्षाणां स्वाभाविकं चित्रणं जातम् ।

काव्यकला सम्पादयतु

मानवंशे भावपक्षयोः अद्भुतं सामञ्जस्य वर्तते । विरोऽत्र अङ्गिरसः । अन्ये श्रृङ्गारकरुणरौद्रादयः अङ्गत्वेन प्रयुक्ताः । अलङ्कारप्रयोगः स्वाभाविकः। भाषा प्रसादगुणयुक्ता सरला सुबोधा चास्ति । यथा -

वसन्ते विप्रेन्द्रैः कृतविविधवेदध्वनिमर्यिं
तपोभूमिं गत्वा कृतसुरसमर्चः स्तुतिपदैः ।
प्रपश्यन् वासन्तीकुसुमंलतिकां काननभुवं
तरुणां छायायां विविधमपि भोज्यं स जगृहे ॥

पदानां मघुरता, भावानां गम्भीरता, कल्पनाया विचित्रता, अलङ्काराणां सुप्रयोगः चात्र महाकाव्ये सर्वत्र संशोभन्ते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सूर्यनारायणशास्त्री&oldid=419451" इत्यस्माद् प्रतिप्राप्तम्