सौकुमार्यम्
सुकुमाराक्षरप्रायं सौकुमार्यमुच्यते । सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् । अनिष्ठुराक्षरप्रायं सौकुमार्यमिति दण्डिनो मतम् । अर्थगतमपारुष्यमपि सौकुमार्यमेव । यथा –
- अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
- नगरे कालतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥