स्वभावजेन कौन्तेय...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
- कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य षष्टितमः(६०) श्लोकः ।
पदच्छेदः
सम्पादयतुस्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥
अन्वयः
सम्पादयतुकौन्तेय ! स्वभावजेन स्वेन कर्मणा निबद्धः यत् कर्तुं न इच्छसि तत् मोहात् अवशः अपि करिष्यसि ।
शब्दार्थः
सम्पादयतु- स्वभावजेन = नैसर्गिकेन
- निबद्धः = नियतः
- मोहात् = अविवेकात्
- अवशः = परवशः ।
अर्थः
सम्पादयतुअर्जुन ! यदि त्वम् अविवेकेन युद्धं न करोषि तर्हि पूर्वकर्मसंस्कारानुगुणस्य स्वभावस्य यदनुरूपं युद्धादिकर्म तेन नियन्त्रणात् परवशः सन् अवश्यं युद्धे प्रवर्तसे ।