स्वागता
स्वागता।
प्रतिचरणम् अक्षरसङ्ख्या ११
स्वागतेति रनभाद् गुरुयुग्मम्। –केदारभट्टकृत वृत्तरत्नाकर:३.४०
ऽ।ऽ ।।। ऽ।। ऽऽ
र न भ ग ग।
यति: पादान्ते।
उदाहरणम् - धर्मलोपनमधर्मविकासो जायतेऽर्जुन यदा च तदैव। स्वं सृजामि खलनिर्दलनाय साधुलोकमभिपालयितुं च॥