प्रमुखा विकल्पसूचिः उद्घाट्यताम्

हरियाणाराज्यं (Haryana) भारतस्य किञ्चन राज्यम् अस्ति । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । हरियाणा राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य राजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, कुरुक्षेत्रं सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति। वस्तुतः तु चण्डीगढनगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । चण्डीगढनगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । हिस्सार राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति।

हरियाणाराज्यम्

हरि का आणा
भारतस्य मानचित्रे हरियाणाराज्यस्य स्थाननिर्देशः
भारतस्य मानचित्रे हरियाणाराज्यस्य स्थाननिर्देशः
हरियाणाराज्यस्य मानचित्रम्
हरियाणाराज्यस्य मानचित्रम्
देशः  भारतम्
वलयः उत्तर
स्थापनादिनम् १ नवम्बर १९६६
राजधानी चण्डीगढ
बृहत्तमं नगरम् फरीदाबाद्
मण्डलानि २१
Government
 • Body हरियाणा विधान सभा
 • राज्यपालः कप्तान सिंह सोलङ्की
 • मुख्यमन्त्री मनोहर लाल खट्टर (भाजपा)
 • विधानमण्डलम् एकसदनात्मकम् (९० स्थानानि)
 • लोकसभाक्षेत्राणि १०
 • राज्यसभाक्षेत्राणि
Area
 • राज्यम् ४४,२१२
Area rank 20
 • वनक्षेत्रम् १,६८४
 • कृषियोग्यक्षेत्रम् ३,५५०
Population
 (२०११)
 • राज्यम् २,५३,५३,०८१
 • Rank अष्टादशः
 • Density ५७३
 • Density rank 11
 • Urban
८८,२१,५८८
 • Rural
१,६५,३१,४९३
भाषाः
 • अधिकृता पञ्जाबीभाषा, हिन्दीभाषा
 • प्रादेशिकी हरियान्वी
राज्यलाञ्छनानि
 • पक्षी ब्ल्याक् फ्र्याङ्क्लिन्
 • प्राणिः कृष्णमृगः
 • पुष्पम् कमलम्
 • वृक्षः अश्वत्थवृक्षः
Time zone UTC+05:30 (IST)
ISO 3166 code IN-HR
Vehicle registration HR-xx
HDI increase 0.644 (medium)
HDI rank सप्तदशः (२०११)
साक्षरतामानम् 76.64 %
लिंगानुपात 877
Life expectancy 66.2
GDP INR 3,093.26 billion (2011-12)
GDP per capita INR 109,227 (2011-12)
वृद्धिदर 8.1 %
Website www.haryana.gov.in

कुरुक्षेत्रं महाभारतयुद्धस्थलमिति प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।

नामकरणम्सम्पाद्यताम्

हरियाणा-राज्यस्य नामकरणे विभिन्नमतानि सन्ति ।

  • प्राचीनकाले अस्मिन् प्रदेशे बृहदारण्यम् आसीत्, अतः इदं क्षेत्रं “हरि अरण्य” इति कथ्यते स्म । समयान्तरे “हरि अरण्य” इत्यस्य अपभ्रंशत्वात् हरियाणा इत्यभवत् ।
  • अस्मिन् प्रदेशे बहवः जनाः शिवस्य उपासकाः आसन्, अतः इदं स्थलं शिवस्य हरस्य वा गृहं कथ्यते स्म । तेन “हर अरण्य” इति नाम आसीत् । समयान्तरे हरियाणा इति नाम अभवत् ।
  • “आरयाणा” इत्यस्य अर्थः लुण्ठनम् इति । तस्मात् हरियाणा शब्दस्य निष्पत्तिः जाता ।
  • हरितमयं क्षेत्रं प्रदेशः वा इत्यर्थे “हरियाणा” शब्दस्य व्युत्पत्तिः अभवत् ।

ई. स. १३२८ तमस्य वर्षस्य कस्मिँश्चित् संस्कृताभिलेखे हरियाणा-शब्दस्य उल्लेखः दृश्यते [१]

भौगोलिकम्सम्पाद्यताम्

हरियाणा-राज्यस्य उत्तरदिशि हिमाचलप्रदेश-राज्यं, दक्षिणदिशि, पश्चिमदिशि च राजस्थान-राज्यम्, उत्तर-पश्चिमदिशि पञ्जाब-राज्यं, पूर्वदिशि उत्तरप्रदेश-राज्यम्, उत्तराखण्ड-राज्यं, देहली-राज्यं च स्थितम् अस्ति । यमुना-नदी हरियाणा-राज्यस्य प्रमुखा नदी अस्ति । इयं नदी हरियाणा-राज्यस्य पूर्व-भागे प्रवहति । घग्गर, टङ्गरी, मरकण्डा इत्यादयः नद्यः अपि प्रवहन्ति ।

हरियाणा-राज्यं भौगोलिकदृष्ट्या द्वयोः प्राकृतिकक्षेत्रयोः विभक्तम् अस्ति । प्रथमं - हिमालयस्य क्षेत्रं, द्वितीयं – सिन्धु-गङ्गानद्योः स्थलीयक्षेत्रेषु विभक्तम् अस्ति । अस्य राज्यस्य स्थलीयक्षेत्रम् अत्यधिकम् उर्वरम् अस्ति । किन्तु दक्षिण-पश्चिमभागः शुष्कः, सिकतामयः च अस्ति । अस्य राज्यस्य चत्वारि प्रमुखाणि भौगोलिक वैशिष्ट्यानि सन्ति । प्रथमम् - उत्तर-दिशि शिवालिक-पर्वतशृङ्खला अस्ति । द्वितीयं – घग्गर-यमुनानद्योः स्थलीयभागः द्वयोः भागयोः विभक्तः अस्ति । बाङ्गर, खादर च । तृतीयं – मरुस्थलीयः अर्धभागः । चतुर्थं – दक्षिणदिशि अरावलीपर्वतशृङ्खला [२]

जलवायुःसम्पाद्यताम्

हरियाणा-राज्ये ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । ग्रीष्मर्तौ हरियाणा-राज्यस्य तापमाम् अधिकतमं ५० डिग्री मात्रात्मकं भवति । वर्षतौ हरियाणा-राज्यस्य केषुचित् क्षेत्रेषु अधिकमात्रायां वर्षा भवति, केषुचित् क्षेत्रेषु अल्पमात्रायां वर्षा भवति । शिवालिक-क्षेत्रे अत्यधिकं वर्षा भवति । किन्तु अरावली-पर्वतीयक्षेत्रं शुष्कं भवति । तत्र अल्पवर्षा भवति [३]

प्रमुखनगराणिसम्पाद्यताम्

गुडगांवसम्पाद्यताम्

गुडगांव-नगरं हरियाणा-राज्यस्य औद्योगिकनगरं विद्यते । अतः इदं नगरं हरियाणा-राज्यस्य आर्थिकराजधानी कथ्यते । नगरमिदं देहली-महानगरात् ३० किलोमीटर्मितं दूरे स्थितम अस्ति । तत्र “नया गुडगांव”, “पुराना गुडगांव” इत्येते द्वे नगरे स्तः । किन्तु तयोः नगरयोः भिन्नता दृश्यते । यतः “पुराना गुडगांव”-नगरे पुरातनानि भवनानि सन्ति । किन्तु “नया गुडगांव”-नगरे उच्चभवनानि दृश्यन्ते । नया गुडगांव”-नगरं विकाशीलं दृश्यते । गुडगांव-नगरं देहली-नगरस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । पुरा गुडगांव-नगरे कृषिः क्रियते स्म । किन्तु साम्प्रतं तस्य नगरस्य जनसङ्ख्या अपि अधिका अस्ति । अस्मिन् नगरे अशीत्यधिकानि बृहद्क्रयणकेन्द्राणि (Shoping Centre) सन्ति । तानि – एम्बिएन्स् मॉल्, सिटी सेन्टर् मॉल्, प्लाजा मॉल् च । तेषु “एम्बिएन्स् मॉल्” भारतस्य बृहद्क्रयणकेन्द्रेषु दितीयः अस्ति । गुडगांव-नगरे भ्रमणार्थं बहूनि उद्यानानि अपि सन्ति । लीशर् वेली पार्क्, किङ्गडम् ऑफ् ड्रीम्स्, अप्पू घर, सुल्तानपुर पक्षी अभयारण्य, पटौदी महल च इत्यादीनि पर्यटनस्थलानि सन्ति ।

पुरा गुडगांव-नगरम् आर्थिकदृष्ट्या अविकसितम् आसीत् । किन्तु समयान्तरे अस्य नगरस्य आर्थिकः विकासः अभवत् । नगरेऽस्मिन् डी. एल्. एफ्. (DLF) इत्यनया संस्थया जनेभ्यः वृत्तिः प्रदत्ता । तेन स्थानीयजनाः धनिकाः अभवन् । गुडगांव-नगरस्य कृषकाः अपि धनिकाः अभवन् । तैः कृषकैः स्वस्य कृषिभूमिः उद्योगपतिभ्यः विक्रीता । अनेन कारणेन इदं नगरम् औद्योगिकगतिविधीनां महत्त्वपूर्णं केन्द्रं विद्यते । अस्मिन् नगरे बहुराष्ट्रियाणाम्, अन्ताराष्ट्रियाणां च व्यावसायिकसंस्थानां मुख्यालयाः अपि सन्ति । अतः इदं नगरं विकासशीलनगरेषु गण्यते ।

आवर्षं तत्र पर्यटकाः भ्रमणार्थं गच्छन्ति । किन्तु शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् समये अधिकमात्रायां वीक्षणार्थिनः आनन्दप्राप्तये गुडगांव-नगरं गच्छन्ति । देहली-महानगरस्य “इन्दिरागान्धीराष्ट्रियविमानस्थानकं” गुडगांव-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अपरं च रेलमार्गेण, भूमार्गेण च नगरमिदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

कुरुक्षेत्रम्सम्पाद्यताम्

मुख्यलेखः : कुरुक्षेत्रम्

पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।

समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति । तत्र “ब्रह्मा सरोवर टैङ्क्” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति । समीपे सरोवरः अपि अस्ति । तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसार-क्षेत्रे भगवता कृष्णेअर्जुनागीतोपदेशः प्रदत्तः आसीत् ।

ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्णा सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति । “कल्पना चावला” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते । अस्य नगरस्य एकस्मिन् क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति । तत्र स्थानेश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति । तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः । कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति । तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नारकतारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति । वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ-नगरे स्थितम् अस्ति ।

इतिहासःसम्पाद्यताम्

ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य प्रथमे दिनाङ्के (१ नवम्बर १९६६) हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य इतिहासः सिन्धुघाटीसभ्यतया सह सम्बद्धः अस्ति । हस्तिनापुरतः गान्धारपर्यन्तम् इदं सप्तसिन्धुक्षेत्रम् आसीत् । आर्याणाम् आगमनानन्तरम् अस्मिन् क्षेत्रे आर्याणां जनानां सङ्ख्या वर्धिता । अनन्तरं बहूनि राज्यानि स्थितानि, वैदिकसंस्कृतीनां विकासश्चाभवत् । प्रागैतिहासिककाले इदं राज्यम् आर्यसंस्कृतेः मुख्यकेन्द्रम् आसीत् । वैदिकवाङ्मये इदं राज्यं देवभूमिः कथ्यते । अस्मिन् राज्ये सरस्वती-नदी प्रवहति । सा वैदिकनदी कथ्यते । अस्मिन् राज्ये वैदिकमन्त्राणां रचना जाता । महाभारतकाले कौरव-पाण्डवानां युद्धं कुरुक्षेत्रे अभवत् । तत् कुरुक्षेत्रं हरियाणा-राज्ये स्थितम् अस्ति । मध्यकाले मुस्लिम-शासनकाले अस्मिन् प्रदेशे त्रीणि युद्धानि अभवन् । तेषु ई. स. १५२६ तमे वर्षे प्रथमं पानीपत-नामकं युद्धम् अभवत् । तस्मिन् समये बाबर-इत्याख्येन राज्ञा भारते मुघल-साम्राज्यं स्थापयितुम् इब्राहिम लोदी इत्याख्येन राज्ञा सह युद्धं कृतम् आसीत् । द्वितीयं युद्धम् ई. स. १५५६ तमे वर्षे अभवत् । तस्मिन् समये अकबर-इत्याख्येन अफगान-राजा पराजितः । एवं च तृतीयं युद्धम् ई. स. १७६१ तमे वर्षे अभवत् । ई. स. १८५७ तमे वर्षे स्वातन्त्र्यान्दोलने हरियाणा-राज्यस्य महद्योगदानम् आसीत् । ई. स. १९१९ तमे वर्षे पलवल-रेलस्थानके आङ्ग्लैः महात्मा परासेधितः [४] [५]

मध्यकालीनेतिहासःसम्पाद्यताम्

हुण-शासनानन्तरं हर्षवर्धनेन सप्तमशताब्द्यां कुरुक्षेत्रस्य समीपे थानेसर-नामिका राजधानी स्थापिता । हर्षवर्धनस्य मृत्योः अनन्तरं प्रतिहार-राज्ञा तत्र शासनं कृतम् । तेन कन्नौज-नगरी स्वस्य राज्यस्य राजधानीत्वेन कारिता । द्वादशशताब्द्यां “पृथ्वीराज चौहान” इत्याख्येन “हांसी”, “तरावडी” च इत्येतयोः नगरयोः स्वस्य दुर्गः स्थापितः । मुहम्मद गौरी इत्याख्येन तराईन-युद्धे अत्र अधिकारः प्राप्तः । अनन्तरं दीर्घकालं यावत् देहली-साम्राज्येन अत्र शासनं कृतम् आसीत् । वैदेशिकशत्रुभिः यदा यदा देहली-साम्राज्यस्य अधिकाराय युद्धानि कृतानि, तेषु बहूनि युद्धानि हरियाणा-राज्ये अभवन् ।

राजनीतिःसम्पाद्यताम्

हरियाणा-राज्ये एकं सदनात्मकं विधानमण्डलं विद्यते । राज्ये विधानसभायाः नवतिः (९०) स्थानानि (Seats) सन्ति । लोकसभायाः दश (१०) स्थानानि, राज्यसभायाः पञ्च (५) स्थानानि च सन्ति । ई. स. १९६७ तमस्य वर्षस्य नवम्बर-मासस्य द्वितीये दिनाङ्के (२ नवम्बर १९६७) हरियाणा-राज्ये राष्ट्रपतिशासनस्य आरम्भः जातः । साम्प्रतं हरियाणा-राज्ये एकविंशतिः (२१) मण्डलानि सन्ति । अस्मिन् राज्ये चत्वारः सम्भागाः सन्ति । अम्बाला, हिसार, गुडगांव, रोहतक च । “इण्डियन् नेशनल् लोक दल”, “हरियाणा विकास पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, भारतीय जनता पार्टी च इत्येते राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “बंसीलाल चौधरी” इत्याख्येन “हरियाणा विकास पार्टी” इत्यस्य समूहस्य स्थापना कृता [६]

मण्डलानिसम्पाद्यताम्

शिक्षणम्सम्पाद्यताम्

२०११ जनगणनानुगुणं हरियाणा-राज्यस्य साक्षरतामानं ७६.१० प्रतिशतम् अस्ति । पुरुषस्य साक्षरतामानं ८५.५० प्रतिशतं, महिलानां साक्षरतामानं ६६.८० प्रतिशतं च अस्ति । हरियाणा-राज्यस्य गुडगांव-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । तस्य मण्डलस्य साक्षरता ८४.२ प्रतिशतम् अस्ति । किन्तु मेवात-मण्डलस्य साक्षरतामानम् न्यूनतमम् अस्ति । २०११ जनगणनानुसारं मेवात-मण्डलस्य साक्षरतामानं ५६.१ प्रतिशतम् अस्ति । हरियाणा-राज्यस्य विकासाय सर्वकारेण बहवः महाविद्यालयाः, विश्वविद्यालयाः च स्थापिताः । शैक्षणिकविकासाय हरियाणा-राज्यस्य वैयक्तिकसंस्थानानाम् अपि महद्योगदानम् अस्ति । ई. स. १९६६ तमे वर्षे कलाविज्ञानयोः ४० महाविद्यालयाः आसन् । ई. स. १९९७ तमे वर्षे १४० महाविद्यालयाः अभवन् । राज्ये ३५१७ उच्चतरमाध्यमिकविद्यालयाः सन्ति । एवं च १०,१३४ आधारभूताः पाठशालाः सन्ति । एतानि सर्वाणि संस्थानानि हरियाणा-राज्यस्य ६,७५९ ग्रामेषु, ९४ पत्तनेषु च स्थितानि सन्ति । हरियाणा-राज्ये चत्वारः विश्वविद्यलयाः सन्ति । कुरुक्षेत्र-नगरे “कुरुक्षेत्र विश्वविद्यालयः”, रोहतक-नगरे “महर्षि दयानन्द विश्वविद्यालयः”, हिसार-नगरे गुरु जम्भेश्वर-विश्वविद्यालयः, हिसार-नगरे “चौधरी चरण सिंह कृषि विश्वविद्यालयः” च । अपरं च दुग्धोत्पादकानां विकासाय करनाल-नगरे “राष्ट्रीय डेयरी अनुसन्धान संस्थानं” स्थितम् अस्ति [७] [८]

अर्थव्यवस्था, कृषिःसम्पाद्यताम्

हरियाणा-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । हरियाणा-राज्ये कृषकाः उत्पादनकरमुक्ताः सन्ति । सर्वकारेण कृषकेभ्यः कृषिकार्यस्य उत्पादने करात् मुक्तिः प्रदत्ता । ई. स. १९७० तमे वर्षे भारतस्य राज्येषु सर्वप्रथमं हरियाणा-राज्यस्य ग्रामेषु विद्युत्सौकर्यं प्रदत्तम् आसीत् । अस्मिन् राज्ये गोधूमस्य उत्पादनं सर्वाधिकं भवति । करनाल-नगरे, कुरुक्षेत्र-नगरे च बासमती-तण्डुलाः उत्पाद्यन्ते । अस्माद् राज्यात् एव बासमती-तण्डुलानां विक्रयणं सर्वाधिकं भवति । अत्र इक्षुदण्डस्य, कार्पासस्य, लवेटिकायाः च उत्पादनम् अपि क्रियते । कृषिदृष्ट्या हरियाणा-राज्यं समृद्धम् अस्ति [९] [१०]

सेचनं, विद्युदुत्पादनञ्चसम्पाद्यताम्

हरियाणा-राज्यस्य सर्वकारः सम्पूर्णे राज्ये सेचनाय, जलस्य आपूर्तये च समानरूपेण कार्यरतः अस्ति । अतः हरियाणा-राज्यस्य सर्वकारेण विविधाः योजनाः आरब्धाः । वर्षर्तौ यमुनानद्याः अतिरिक्तजलस्य उपयोगार्थं “दादूपुर शाहाबाद वाल्वी नहर परियोजना” इतीयं योजना प्रचालिता [११]

उद्योगःसम्पाद्यताम्

हरियाणा-राज्यस्य औद्योगिकक्षेत्रं विस्तृतं, विशालं च अस्ति । राज्ये १,३४३ बृहदुद्योगस्य, ८०,००० लघूद्योगस्य च घटकाः सन्ति । हरियाणा-राज्ये विभिन्नवस्तूनाम् उत्पादनं भवति । अस्मिन् राज्ये विभिन्नप्रकारकाणाम् उपकरणानाम् उत्पादनम् अपि क्रियते । पानीपत-नगरस्य हस्तकलाकार्यस्य वस्तूनि अपि विश्वस्मिन् प्रसिद्धानि सन्ति । राज्ये बहवः यन्त्रागाराः, औद्योगिकघटकाः च अपि सन्ति । तेषां विकासाय ४,१२४ कोटि रूप्यकाणां निवेशः अभवत् । तेषु ९२,५५९ जनाः वृत्तिं प्राप्तवन्तः । “भारतीय तेल निगम” इत्याख्येन पानीपत-नगरे ५,००० कोटिरुप्यकाणां निवेशः कृतः आसीत् । अस्मिन् राज्ये मारुति, हीरो हॉण्डा इत्यादयः यानोद्योगानां विकासः अभवत् । तेषु उद्योगेषु १०,००० कोटिरुप्यकाणां निवेशः कृतः ।

हरियाणा-राज्यं “दूध-दही का प्रदेश” इति नाम्ना विख्यातम् अस्ति । “दूध की कहाडी” इत्यपि नाम्ना ज्ञायते इदं राज्यम् । ई. स. १९६७ तमे वर्षे अस्मिन् राज्ये “हरियाणा डेयरी विकास एवं मिल्क सप्लाई विभाग” इत्यस्य विभागस्य स्थापना कृता आसीत् । अस्मिन् राज्ये पशुपालनम् अपि कृषिकार्यस्य महत्त्वपूर्णः घटकः विद्यते । पशुपालने गौः, महिषी, अजा च इत्यादयः मुख्याः पशवः सन्ति । कार्पासकाणां, वनस्पतिघृतस्य, सीवनयन्त्राणां (sewing machine), यन्त्राणां, द्विचक्रिकाणां, कारयानानां, काचवस्तूनां, चीनीयवस्त्राणां, कर्गजानां च उद्योगाः हरियाणा-राज्यस्य मुख्याः उद्योगाः सन्ति [१२]

कला, संस्कृतिश्चसम्पाद्यताम्

हरियाणा-राज्यस्य सांस्कृतिकजीवने लोककथाः, लोकनृत्यानि, लोकगीतानि दृश्यन्ते । वसन्तर्तौ होली-उत्सवे जनाः परस्परं गुलालं प्रक्षिपन्ति । गुलालेन जनेषु प्रीतिः वर्धते । अस्मिन् उत्सवे जनेषु वयभेदः, जातिभेदः न भवति । हरियाणा-राज्ये भगवतः कृष्णस्य जन्मदिवसः अपि उत्साहपूर्वकम् आचर्यते । यतः अस्य राज्यस्य कुरुक्षेत्र-युद्धस्थले एव भगवता कृष्णेन अर्जुनाय श्रीमद्भगवद्गीतायाः उपदेशः प्रदत्तः आसीत् । हिसार-नगरस्य समीपे अग्रोह-तीर्थं, पेहोवा-तीर्थं च स्थितम् अस्ति । अग्रोह-तीर्थं भगवतः अग्रसेनस्य जन्मस्थलं वर्तते । अग्रसेनः अग्रवाल-समाजस्य पूर्वजः, प्रवर्तकः वा मन्यते । अग्रवाल-समाजस्य जनाः सम्पूर्णे भारते व्यापारं कुर्वन्ति । अयं समाजः सम्पूर्णे भारते विस्तृतः अस्ति । भारतस्य व्यापारिवर्गेषु अग्रवाल-समाजः प्रमुखः वर्तते । अग्रोहा-तीर्थम् अग्रसेनस्य जन्मभूमिः अस्ति । अतः अग्रवाल-समाजेन अग्रसेनस्य सम्मानत्वेन तत्र चिकित्साविद्यालयः स्थापितः । पेहोवा-तीर्थस्थलं सरस्वती-नद्याः तटे स्थितम् अस्ति । इदं स्थलं पितृश्राद्धकर्मणे महत्त्वपूर्णं पवित्रस्थलं वर्तते [१३]

हरियाणा-राज्यं लोककथासंस्कृत्या सह संलग्नम् अस्ति । हरियाणा राज्यस्य मुख्या भाषा “हरियाणवी” अस्ति । अस्यां भाषायां “झाडुफिरी” इति नामकः प्रथमः उपन्यासः अस्ति । “चन्द्रावल” इति नामकं चलच्चित्रं हरियाणवी-भाषायाः प्रथमं चलच्चित्रम् आसीत् । हरियाणा-राज्यस्य भूमौ बहवः कवयः अभवन् । तेषु हिन्दी-भाषायाः पुष्पदन्तः अपि रोहतक-नगरे जनिं लेभे । हरिदासः, गरीबदासः, “काजी महमूद” चेत्यादयः सन्तकवयः अभवन् । “उदय भानु हंस” इत्याख्यः अस्य राज्यस्य प्रथमः राजकविः आसीत् । हरियाणा-राज्ये “पण्डित नेकीराम शर्मा” इत्याख्यः प्रसिद्धसाहित्यकारः अभवत् । सः “हरियाणा केसरी” इति नाम्ना ज्ञायते स्म । बालमुकुन्द-गुप्तः हिन्दी-भाषायाः प्रसिद्धः लेखकः आसीत् । तेन “शिवशम्भू के चिठ्ठे” इत्यस्यां रचनायां ब्रिटिश्-सर्वकारस्य विद्रोहार्थं व्यङ्ग्यात्मकलेखाः लिखिताः आसन् । अयं कविः अपि हरियाणा-राज्येन सह सम्बद्धः अस्ति [१४]। हरियाणा-राज्ये जनैः विभिन्नाः उत्सवाः आचर्यन्ते । तेषु होली, दीपावलिः, वैशाखीपर्व, गणगौर, गुग्गा पीर, साँझी च इत्यादयः उत्सवाः मुख्याः सन्ति । अस्मिन् राज्ये आवर्षं नैके उत्सवाः आचर्यन्ते । तेषु सूरजकुण्ड शिल्प मेला, गोपाल मोचन मेला, मसानी मेला च इत्यादयः प्रमुखाः उत्सवाः सन्ति । “सूरजकुण्ड शिल्प मेला” इत्यस्य उत्सवस्य प्रतिवर्षं फरवरी-मासे आयोजनं भवति । कुरुक्षेत्र-नगरे अपि प्रतिवर्षं मेला-उत्सवः आयोज्यते । अयम् उत्सवः लोकप्रियः अपि अस्ति । हरियाणा-राज्ये सूर्यग्रहणे कुरुक्षेत्रे मेला-उत्सवः आयोज्यते । बहुत्र “पशुमेला” अपि आयोज्यते । हरियाणा-राज्यस्य पारम्परिकावासानां वास्तुशिल्पकला भारते ख्याता अस्ति । तेषाम् आवासानां द्वाराणां संरचना अपि विशिष्टा वर्तते ।

“लोहरी” इति हरियाणा-राज्यस्य प्रमुखः उत्सवः अस्ति । अयम् उत्सवः मकरसङ्क्रान्तेः पूर्वम् आचर्यते । अयमुत्सवः मुलरूपेण पञ्जाब-राज्यस्य प्रमुखोत्सवः अस्ति । प्रतिवर्षं नवम्बर-मासस्य प्रथमः दिनाङ्कः हरियाणा-राज्ये स्थापनादिवसत्वेन आचर्यते । अस्मिन् दिवसे हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य पर्यटनविभागस्य स्थापना अपि अस्मिन् दिवसे एव अभवत् । हरियाणा-पञ्जाब-राज्ययोः संस्कृतिः समाना एव अस्ति । यतः पुरा हरियाणा-राज्यं पञ्जाब-राज्यस्य एव अंशः आसीत् ।

वीक्षणीयस्थलानिसम्पाद्यताम्

हरियाणा-राज्यं धार्मिकदृष्ट्या, ऐतिहासिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् राज्ये पौराणिककालीनानि बहूनि स्थलानि सन्ति । तत्र श्रीकृष्णेन कुरुक्षेत्रे अर्जुनाय गीतायाः उपदेशः प्रदत्तः आसीत् । अपरं च तत्र पानीपत-युद्धस्य इतिहासः अपि दृश्यमानः भवति । अतः अस्मिन् राज्ये पर्यटकाणां भ्रमणार्थं बहूनि ऐतिहासिकस्थलानि, धार्मिकस्थानानि च सन्ति । अस्मिन् राज्ये अधिकमात्रायां पर्यटकाणाम् आवागमनं भवति । अस्मिन् राज्ये मन्दिराणि, तडागाः, जलाशयाः चापि सन्ति । हरियाणा-राज्ये चत्वारिंशदधिकानि वीक्षणीयस्थलानि सन्ति । तेषु केषाञ्चित् स्थलानां सामान्यपरिचयः अधः प्रदत्तः अस्ति [१५]

यमुनानगरम्सम्पाद्यताम्

यमुनानगरं हरियाणा-राज्यस्य औद्योगिकं नगरं विद्यते । इदं नगरं स्वच्छतमं, सुन्दरं च अस्ति । अस्मिन् नगरे काष्ठकर्मणः बहवः घटकाः सन्ति । अतः नगरमिदं समृद्धं चास्ति । इदं नगरं यमुना-नद्याः तटे स्थितम् अस्ति । अस्य नगरस्य उत्तरभागः पर्वतैः आवृतः अस्ति । तत्र वनानि, नद्यः च सन्ति । अस्य नगरस्य पश्चिमदिशि, दक्षिणदिशि च अम्बाला-नगरं, कुरुक्षेत्र-नगरं, करनाल-नगरं च स्थितम् अस्ति । पुरा इदं नगरं “अब्दुल्लापुर” नाम्ना ज्ञायते स्म । ई. स. १९४७ तमे वर्षे विभाजनानन्तरं ये जनाः भारत-देशम् आगतवन्तः, तेभ्यः इदं नगरं निवासस्थानत्वेन अभवत् । हडप्पा-क्षेत्रस्य पाषाणाः अस्मिन् क्षेत्रे प्राप्यन्ते ।

यमुना-नगरस्य पूर्वभागे “कालेसर-वन्यजीवाभयारण्यं” स्थितम् अस्ति । तस्मिन् अभयारण्ये बहवः वन्यजीवाः निवसन्ति । इतः परं विभिन्नप्रकारकाः वृक्षाः अपि सन्ति । तत्र “चौधरी देवीलाल हर्बल् नेचर् पार्क्” इति उद्यानम् अपि स्थितम् अस्ति । अस्मिन् उद्याने औषधीयपादपाः बहवः उद्भवन्ति । बिलासपुर-नगरम् अस्य नगरस्य समीपे एव स्थितम् अस्ति । बिलासपुर-नगरे कपालमोचन, ऋणमोचन, सूर्यकुण्डतडागः च पवित्रतमं स्थलम् अस्ति । तत्र आदिबारी-इत्यपि एकं शान्तस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकसौन्दर्यं महत्त्वपूर्णम् अस्ति । हिन्दी-भाषा, पञ्जाबी-भाषा, बाङ्गरू-भाषा च इत्यादयः यमुना-नगरस्य प्रमुखाः भाषाः सन्ति । हरियाणा-राज्यस्य चिकित्सायाः, स्वास्थस्य सेवायां यमुनानगरम् अग्रगण्यम् अस्ति । अस्मिन् नगरे शैक्षणिकसंस्थानानि अपि बहूनि सन्ति । तत्र विभिन्नमन्दिराणि, सिक्ख-उपासनागृहाणि च सन्ति ।

इदं नगरं व्यापारक्षेत्रे विकासशीलं वर्तते । औद्योगिकक्षेत्रे यमुनानगरेण उद्योगाणां विस्तारः कृतः अस्ति । व्यापारः जनानां महत्त्वपूर्णः व्यवसायः अभवत् । तत्र “रिलायन्स् इण्डस्ट्रीज्” इत्यनया संस्थया थर्मल-विद्युद्यन्त्रागारः आरब्धः । अस्मिन् नगरे बृहत्तमस्य रेलयानस्य छादितयानस्य सन्धानाय कार्यशालाः अपि सन्ति । अस्मिन् नगरे समाचारपत्रं, शर्करां च निर्मातुम् एशिया-खण्डस्य बृहत्तमः यन्त्रागारः अस्ति । तत्र काष्ठोद्योगः अपि अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः यमुनानगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये यमुनानगरस्य वातावरणं सुखदं भवति । धूमशकटमार्गेण, भूमार्गेण च यमुनानगरं प्राप्यते । चण्डीगढ-नगरे समीपस्थं विमानस्थानं स्थितमस्ति ।

पलवलसम्पाद्यताम्

इदं नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । दिल्ली-महानगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति पलवल-नगरम् । महाभारतकालीनानां पाण्डवानां शासनकाले पलवासुर-नामाख्यः कश्चन असुरः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । इन्द्रप्रस्थ-राज्यस्य कस्यचित् भागत्वेन पलवल-क्षेत्रस्य उल्लेखः महाभारते प्राप्यते । भगवतः कृष्णस्य भ्रात्रा बलरामेण पलवासुरः हतः । इदं नगरं राज्ञा विक्रमादित्येन सह अपि सम्बद्धम् अस्ति । ब्रिटिश-शासनकाले इदं नगरं पञ्जाब-गुडगांवक्षेत्राभ्यां सह सम्बद्धम् आसीत् । ऐतिहासिकदृष्ट्या अपि पलवल-नगरं प्रसिद्धम् अस्ति । यतः अस्य नगरस्य बहुभिः क्रान्तिकारिभिः स्वातन्त्रतायै योगदानं प्रदत्तम आसीत् । नगरे दाऊजी इति नामकं बलरामस्य अपि मन्दिरं विद्यते । कार्पासोत्पादकेषु नगरेषु पलवल-नगरम् अन्यतमम् अस्ति । इतः कार्पासस्य सम्पूर्णदेशाय आपूर्तिः क्रियते ।

भारतस्य पञ्चवटी-नामकं प्रसिद्धं मन्दिरं पलवल-नगरे एव स्थितम् अस्ति । इदं मन्दिरं हिन्दुधर्मे अत्यधिकं महत्त्वं बिभर्ति । अन्यानि अपि बहूनि मन्दिराणि सन्ति । तानि – परशुराममन्दिरं, जागेश्वरमन्दिरं, देवीमन्दिरं च । तत्र बहूनि उद्यानानि अपि सन्ति । तानि – श्रद्धानन्द पार्क्, डी पार्क्, तिकोना पार्क्, किले वाला पार्क्, टङ्की वाला पार्क्, ताऊ देवीलाल पार्क्, दशहरा ग्राउण्ड् पार्क्, हुडा पार्क् च । एतानि पलवल-नगरस्य वीक्षणीयस्थलानि सन्ति । वर्षर्तौ पलवल-नगरस्य जलवायुः अनुकूला भवति । तस्मिन् काले जनाः पलवल-नगरे भ्रमणार्थं गच्छन्ति । पलवल-नगरं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः सरलतया पलवल-नगरं प्राप्तुं शक्यते ।

नूहसम्पाद्यताम्

नूह-नगरं हरियाणा-राज्यस्य मेवात-मण्डले स्थितम् एकं धार्मिकं स्थलं विद्यते । इदं नगरं देहली-अलवर-राजमार्गे स्थितम् अस्ति । पुरा तत्र “बहादुर सिंह” इत्याख्यस्य राज्ञः शासनम् आसीत् । तस्य शासनकाले लवणस्य व्यापारः भवति स्म । तदा इदं नगरं लवणस्य प्रमुखं व्यापारिकं केन्द्रम् आसीत् । नूह-नगरस्य प्रतिवेशिषु ग्रामेषु लवणनिर्माणं क्रियते स्म । इदानीमपि तेषां भवनानां भग्नावशेषाः स्थिताः सन्ति । नूह-नगरे “हिलता मीनार” इत्याख्यम् ऐतिहासिकं स्थलं वर्तते । तस्य स्थलस्य वास्तुकला विशिष्टा अस्ति । तत्स्थलं नूह-नगरस्य आकर्षणकेन्द्रं विद्यते । नल्लद-क्षेत्रे एकः प्राकृतिकः जलाशयः अस्ति । सः जलाशयः नूह-नगरात् २ किलोमीटर्मितं दूरे स्थितम् अस्ति । अरावली-पर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं नगरम् । तत्र शिवमन्दिरम् अपि अस्ति । पाण्डवाः वनवासे तत्रैव विश्रामं कृतवन्तः, जलाशयस्य जलम् अपि पीतवन्तः च इति जनानां मान्यता अस्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । तस्मिन् समये नूह-नगरस्य वातावरणं मनोहरं भवति । गुडगांव-रेलस्थानकं नूह-नगरस्य समीपस्थं रेलस्थानकं वर्तते । गुडगाव-रेलस्थानकम् नूह-नगरात् ४५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

होडलसम्पाद्यताम्

होडल-नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । इदं नगरम् उत्तरप्रदेशस्य सीमायां स्थितम् अस्ति । होडल-नगरं देहली-नगरात् ८८ किलोमीटर्मिते, आग्रा-नगरात् १५० किलोमीटर्मिते च दूरे स्थितम् अस्ति । अस्मिन् नगरे चमेली-वनं, हनुमन्-मन्दिरं च स्थितम् अस्ति । विशेषतः मङ्गलवासरे बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । तत्र “त्यागी बाबा” इत्याख्यः अपि प्रसिद्धः अस्ति । फरवरी-मासतः अप्रैल-मासपर्यन्तं, अगस्त-मासतः नवम्बर-मासपर्यन्तं वसन्तर्तौ अधिकमात्रायां जनाः भ्रमणार्थं गच्छन्ति । राष्ट्रियराजमार्गेण इदं होडल-नगरं देहली-नगरेण, गुडगांव-नगरेण च सह सम्बद्धम् अस्ति ।

अम्बालासम्पाद्यताम्

हरियाणा-राज्यस्य एकं लघुनगरम् अस्ति अम्बाला-नगरम् । इदं नगरं द्वयोर्भागयोः विभक्तम् अस्ति । एकम् अम्बाला-नगरम्, अपरं च अम्बाला छावनी च । अम्बाला-नगरात् अम्बाला-छावनी इत्येतत् ३ किलोमीटर्मितं दूरे अस्ति । अम्बाला-नगरं गङ्गा-सिंधु-नद्यौ पृथक्करोति । अस्य नगरस्य दक्षिणदिशि टाङ्गडी-नदी, उत्तरदिशि च घग्गर-नदी च वहति । अत्र कानिचन एव पर्यटनस्थलानि सन्ति । तानि – बादशाह बाग गुरुद्वारा, शीश गञ्ज गुरुद्वारा, लखी शाह, टकवाल शाह, सेण्ट् पॉल् चर्च्, काली माता मन्दिरं च । इदं नगरं पञ्जाब-हरियाणा-राज्ययोः सीमायां स्थितम् अस्ति । “भवानी अम्बा मन्दिरम्” अस्मिन् नगरे लोकप्रियम् अस्ति । तस्य मन्दिरस्य नाम्ना एव अस्य नगरस्य नामकरणं कृतम् आसीत् । अम्बाला-नगरं रेलस्थानकानां सम्भागीयः मुख्यालयः अपि अस्ति । अनेन प्रकारेण हरियाणा-राज्यस्य प्रमुखरेलस्थानकम् अपि अस्ति । अम्बाला-नगरे वस्त्र-हट्टः भवति । सः हट्टः हरियाणा-राज्ये प्रसिद्धः अस्ति । अस्मिन् हट्टे वस्त्राणि अल्पमूल्येषु प्राप्यन्ते । तस्मिन् हट्टे सहस्राधिकाः आपणाः सन्ति । तत्र हस्तनिर्मितानि वस्त्राणि, कौशेय-वस्त्राणि च प्राप्यन्ते । अम्बाला-नगरे विज्ञान-आपणः अपि अस्ति । तस्मिन् आपणे वैज्ञानिकशल्योपकरणानि सन्ति । अतः एव नगरमिदं “वैज्ञानिकोपकरणानां नगरम्” इति कथ्यते । जनाः अक्टूबर-मासतः नवम्बर-मासपर्यन्तम् अम्बाला-नगरं गच्छन्ति । चण्डीगढ-नगरे अम्बाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च अम्बाला-नगरं विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

जगाधरीसम्पाद्यताम्

जगाधरी-नगरं हरियाणा-राज्यस्य यमुनानगर-मण्डले स्थितम् अस्ति । नगरमिदं धातुपात्रनिर्माणाय, एल्यूमीनियम्-धातूत्पादनाय, स्टील्-धातूत्पादनाय च प्रसिद्धम् अस्ति । अपरं च अस्मिन् नगरे काष्ठस्य व्यापारः अपि क्रियते । जगाधरी-नगरे बहूनि मन्दिराणि सन्ति । तानि- लठमार-मन्दिरं, खेडा-मन्दिरं, गौरीशङ्कर-मन्दिरं, मनसादेवी-मन्दिरं, गुगामादी-मन्दिरं च । जगाधरी-नगरे वीक्षणीयस्थलानि अपि बहूनि सन्ति । कलेसर-वन्यजीवाभयारण्यं, बिलासपुरं, पञ्चमुखीहनुमन्-मन्दिरं, कपाललोचन, छछरौली, तेजवाला, आदि बद्री, चनेटी च इत्यादीनि जगाधरी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । जगाधरी-नगरस्य जलवाष्पः उष्णकटीबन्धीयः भवति । अतः जनाः भ्रमणार्थं शीतर्तौ तत्र गच्छन्ति । जगाधरी-नगरं गन्तुं बस-यानानि प्राप्यन्ते । इदं नगरं समीपस्थैः विमानस्थानकैः, रेलस्थानकैः च सह सम्बद्धम् अस्ति ।

रेवाडीसम्पाद्यताम्

इदं नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । रेवाडी-नगरं देहली-नगरात् ८२ किलोमीटर्मिते दूरे स्थितम् अस्ति । “हेमचन्द्र विक्रमादित्यः” भारतस्य अन्तिमः हिन्दुसम्राट आसीत् । सः अस्मिन् नगरे एव शिक्षणं प्राप्तवान् । राज्ञा हेमचन्द्रेण ताम्रपात्राणां, पीतलधातूनां च उद्योगाय यन्त्रागाराः स्थापिताः । अतः साम्प्रतमपि इदं नगरं धातूत्पादनाय प्रसिद्धम् अस्ति । रेवाडी-नगरे “रेवाडी हेरिटेज् स्टीम् लोकोमोटिव् सङ्ग्रहालयः” स्थितः अस्ति । तस्मिन् सङ्ग्रहालये बाष्पयन्त्राणि सन्ति । रेवाडी-नगरस्य जलवायुः अर्धशुष्कः अस्ति । तत्र त्रयः ऋतवः समानाः एव भवन्ति । रेवाडी-नगरं प्रमुखं रेलस्थानकम् अस्ति । नगरमिदं वायुमार्गेणम् भूशकटमार्गेण, भूमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

पञ्चकूलासम्पाद्यताम्

पञ्चकूला-नगरं चण्डीगढ-नगरस्य उपग्रह-नगरम् अस्ति । अस्य नगरस्य सीमा मोहाली-नगरेण सह सम्मिलति । चण्डीमन्दिर-नामकं सेनाशिबिरं पञ्चकूला-नगरे स्थितम् अस्ति । इदं शिबिरं भारतीयसेनायाः मुख्यालयः अपि अस्ति । घग्गर-नद्याः तटे स्थितम् अस्ति इदं पञ्चकूला-नगरम् । अस्मिन् नगरे घग्गर-नद्याः पञ्च कुल्याः सन्ति । एताः कुल्याः स्थानीयजनेभ्यः अर्थसाधिकाः भवन्ति । ग्राम्यजनाः तासां कुल्यानां संरक्षणं कुर्वन्ति । पञ्चकूला-नगरस्य पूर्वदिशि, पश्चिमदिशि च हिमाचलप्रदेश-राज्यं, पश्चिमदिशि पञ्जाब-राज्यं, दक्षिणदिशि चण्डीगढ-नगरं च स्थितम् अस्ति । अस्य नगरस्य समीपे शिवालिक-पर्वतशृङ्खला अपि अस्ति । नगरेऽस्मिन् “ताऊ देवीला-क्रीडाङ्गणम्” अस्ति । इदं क्रीडाङ्गणम् “आई. पी. एल्. (IPL)” इत्यस्यै क्रीडायै प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे पिञ्जौर-क्षेत्रम् अस्ति । क्षेत्रमिदम् औद्योगिकं वर्तते । तत्र “एच्. एम्. टी (HMT)” इत्याख्यः यन्त्रागारः अपि अस्ति । तत्र बहवः स्थानीयजनाः कार्यरताः सन्ति । पञ्चकूला-नगरे “मोरनी हिल्” इत्येतत् पर्वतीयक्षेत्रम् अस्ति । इदं प्राचीनस्थले स्थितम् अस्ति । शिवालिक-पर्वतशृङ्खलायाः कश्चन भागः अस्ति इदं क्षेत्रम् । शिवालिक-पर्वतशृङ्खलायाः तले बहूनि मन्दिराणि अपि सन्ति । पिञ्जौर-क्षेत्रे मुघल-उद्यानम् अस्ति । तद् उद्यानं यादवेन्द्र-उद्यानम् इति नाम्ना अपि ज्ञायते । घग्गर-नद्याः तटे सिक्ख-उपासनागृहम् अस्ति । ई. स. १८१५ तमे वर्षे निर्मितं मनसादेवी-मन्दिरं चण्डीगढ-नगरात् ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इयं देवी वरदायिनी अस्ति इति मन्यते । ३६० वर्षेभ्यः पूर्वं निर्मितं रामगढ-दुर्गम् अपि तत्र स्थितम् अस्ति । पञ्चकूला-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः नवम्बर-मासपर्यन्तं जनाः पञ्चकूला-नगरं गच्छन्ति । चण्डीगढ-नगरस्य विमानस्थानकं पञ्चकूला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च देशस्य विभिन्ननगरैः सह इदं नगरं सम्बद्धम् अस्ति ।

फरीदाबादसम्पाद्यताम्

हरियाणा-राज्यस्य द्वितीयं बृहत्तमं नगरम् अस्ति फरीदाबाद-नगरम् । “बाबा फरीद” इत्याख्येन इदं नगरं स्थापितम् । अतः तस्य नाम्ना फरीदाबाद-नगरम् इति नामकरणम् अभवत् । “बाबा फरीद” इत्याख्येन तत्र एकः दुर्गः, मुस्लिम-उपासनागृहं च निर्मापितम् आसीत् । अधुनापि तेषां भग्नावशेषाः प्राप्यन्ते । इदं नगरं परितः देहली-महानगरं, गुडगांव-नगरम् उत्तरप्रदेश-राज्यं च स्थितम् अस्ति । अतः अस्य नगरस्य भौगोलिकस्थितिः महत्त्वपूर्णा अस्ति । देहली-नगरात् फरीदाबाद-नगरं २५ किलोमीटर्मिते दूरे अस्ति । इदं नगरं यमुना-नद्याः केषुचित् क्षेत्रेषु व्याप्तम् अस्ति । फरीदाबाद-नगरं हरियाणा-राज्यस्य औद्योगिककेन्द्रम् अपि अस्ति । तन्नगरे विभिन्नवस्तूनाम् उत्पादनं भवति ।

बदखल झील, सूरज-कुण्डः, राजा नाहर सिंह पैलेस, शिरडी-सांईबाबा-मन्दिरं, शिवमन्दिरं, सेण्ट् मेरी चर्च्, धौज झील, अरावली गोल्फ् कोर्स्, नाहर सिंह क्रिकेट् स्टेडियम्, टाउन् पार्क्, झरना मन्दिर गांव, मोहब्बताबाद, फरीदखान का मकबरा, वैष्णोदेवी-मन्दिरसंस्थानं, फरीदाबाद-तापीय-विद्युत्गृहं च इत्येतानि फरीदाबाद-नगरस्य समीपस्थानि प्रमुखाणि वीक्षणीयस्थलानि सन्ति । वर्षर्तुं विहाय फरीदाबाद-नगरस्य जलवायुः अर्द्धशुष्कः, उष्णः, शुष्कश्च भवति । वर्षर्तौ फरीदाबाद-नगरस्य वातावरणम् आर्द्रमयं भवति ।

नारनौलसम्पाद्यताम्

नारनौल-नगरं हरियाणा-नगरस्य महेन्द्रगढ-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकनगरं विद्यते । महाभारते अपि अस्य नगरस्य नामोल्लेखः प्राप्यते । अकबर-राज्ञः नवरत्नेषु अन्यतमस्य बीरबल-इत्याख्यस्य जन्मस्थलं मन्यते इदं नारनौल-नगरम् । “शेर शाह सूरी” इत्याख्यस्य जन्म अपि अस्मिन् नगरे अभवत् । अस्मिन् नगरे विभिन्नौषधिभिः च्यवनप्राशः निर्मीयते । आयुर्वेदिकच्यवनप्राशाय इदं नगरं सम्पूर्णभारते प्रसिद्धम् अस्ति । “धौसी हिल्” इत्येतत् पर्वतीयक्षेत्रं नारनौल-नगरस्य प्रमुखं वीक्षणीयस्थलं वर्तते । इदं स्थलं लुप्तज्वालामुखीत्वेन मन्यते । यतः साम्प्रतमपि ततः लाक्षा प्राप्यते । वैदिककालीनस्य च्यवनर्षेः आश्रमः अपि नारनौल-नगरे स्थितः अस्ति । अतः एव इदं नगरं भारते प्रसिद्धम् अस्ति ।

नारनौल-नगरे चामुण्डादेव्याः विशिष्टं मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । मुघल-शासनकाले अस्मिन् मन्दिरे मुस्लिम-उपासनागृहं निर्मापितम् आसीत् । किन्तु स्वन्त्रतानन्तरम् उत्खननेन मन्दिरमिदं पुनः प्राप्तम् । भारतस्य प्रत्येकेभ्यः स्थानेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । नारनौल-नगरस्य उत्तरभागे एकस्मिन् शैले “चोर गुम्बद” इत्येतत् प्रसिद्धस्थलम् अस्ति । तदपि नारनौल-नगरस्य पर्यटनस्थलं वर्तते । “इब्राहिम खान सूर् की कब्र”, “जल महल”, त्रिपोलिया गेटवे च इत्यादीनि अपि पर्यटनस्थलानि सन्ति । त्रिषु ऋतुषु अस्य नगरस्य वातावरणं सामान्यं भवति । अतः जनाः आवर्षं भ्रमणार्थं तत्र गच्छन्ति । नारनौल-नगरं हरियाणा-राज्यस्य अन्यनगरैः, प्रतिवेशिराज्यैः च सह भूमार्गेण सम्बद्धम् अस्ति । देहली-नगरात् नारनौल-नगरं १६८ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली-नगरे स्थितम् विमानस्थानकं नारनौल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं नगरं रेलमार्गेण, भूमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

सोहनासम्पाद्यताम्

सोहना-नगरं हरियाणा-राज्यस्य गुडगांव-मण्डले स्थितम् अस्ति । अत्र बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः सप्ताहान्ते वीक्षणार्थं तत्र गच्छन्ति । इदं स्थलम् अरावली-पर्वतशृङ्खलासु स्थितम् अस्ति । तत्र उष्णजलस्य जलप्रपाताः अपि सन्ति । सोहना-नगरे शिवस्य एकं प्राचीनं मन्दिरं विद्यते । प्रतिवर्षं तत्र गङ्गास्नानम् इति नामकः उत्सवः आयोज्यते । सोहना-नगरस्य पर्वतशिखरे एकम् उद्यानम् अपि अस्ति । “दमदम झील” इत्येतत् स्थलं सोहना-नगरस्य प्रसिद्धम् वीक्षणीयस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकं सौन्दर्यं मनोहरं वर्तते । तत्र प्रतिवर्षस्य फरवरी-मासे “विण्टेज् कार् रैली” इत्यस्याः स्पर्धायाः आयोजनम् अपि क्रियते । फरवरी-मासतः अप्रैल-मासपर्यन्तम्, अगस्त-मासतः नवम्बर-मासपर्यन्तं च वसन्तर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । देहली-नगरात्, गुडगांव-नगरात्, पटलव-नगरात् च सोहना-नगराय बसयानानि प्राप्यन्ते । सोहना-नगरं देहली-राज्येन, राजस्थान-राज्येन, उत्तरप्रदेश-राज्येन च सह भूमार्गेण सम्बद्धम् अस्ति ।

फतेहाबादसम्पाद्यताम्

फतेहाबाद-नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । मन्यते यत् – आर्यजनाः पुरा सरस्वती-नद्याः, दृषद्वती-नद्याः तटे निवसन्ति स्म । समयान्तरे ते हिसार-नगरे, फतेहाबाद-नगरे निवासाय गतवन्तः । पुराणेषु अपि अस्य नगरस्योल्लेखः दृश्यते । पुराणेषु कथ्यते यत् – “इदं नगरं नन्दी-साम्राज्यस्य कश्चन भागः आसीत् । फतेहाबाद-नगरे अशोकस्तम्भः अपि अस्ति । तेन ज्ञायते यत् – “इदं नगरं मौर्यसाम्राज्यस्य अपि अंशः आसीत्” । पुरातत्त्वविभागेन तत्र उत्खननं कृतम् । उत्खनने प्राचीनाः पुरावशेषाः प्राप्ताः । अतः ज्ञायते यत् – “अस्मिन् नगरे प्राचीनभारतीयसंस्कृतेः प्रभावः अपि आसीत्” । चतुर्दशशताब्द्यां फिरोजशाह तुगलक इत्याख्येन शासकेन इदं नगरं स्थापितम् आसीत् । फिरोजशाह इत्याख्यस्य “फतेह खान” इत्याख्यः पुत्रः आसीत् । अतः तस्य नाम्ना अस्य नगरस्य नाम फतेहाबाद-इति कारितम् ।

फतेहाबाद-नगरे बहूनि पर्यटनस्थलानि सन्ति । तेषु अशोकस्य कीर्तिस्तम्भः प्रसिद्धम् अस्ति । किन्तु फिरोजशाह तुगलक इत्याख्येन राज्ञा अयं स्तम्भः नाशितः । फिरोजशाह इत्याख्यः स्तम्भस्य अधोभागं फतेहाबाद-नगरं नीतवान् आसीत् । अस्मिन् नगरे “हुमायूं मस्जिद्” इति मुस्लिम-उपासनागृहम् अस्ति । हुमायूम् इत्याख्येन राज्ञा एव अस्य निर्माणं कारितम् आसीत् । हुमायूम् इत्याख्यः राजा प्रतिशुक्रवासरं तत्र प्रार्थनां कर्तुं गच्छति स्म । अस्य उपासनागृहस्य निर्माणं मुघल-स्थापत्यशैल्यनुसारं कारितम् । ई. स. १५२६ तमे वर्षे अस्य निर्माणकार्यम् आरब्धम् । ई. स. १५५६ तमे वर्षे अस्य निर्माणकार्यं सम्पूर्णं जातम् । फतेहाबाद-नगरे कुणाल-क्षेत्रम् ऐतिहासिकं स्थलं वर्तते । तत्स्थलं हडप्पासंस्कृत्या सह सम्बद्धम् अस्ति । फतेहाबाद-नगरस्य समीपे बन्वाली-नामकं स्थलम् अपि अस्ति । वन्वाली इति नाम्ना अपि तत्स्थलं ज्ञायते । इदं स्थलं फतेहाबाद-नगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बन्वाली-स्थलस्य उत्खनने अपि हडप्पा-युगस्य ऐतिहासिकाः अवशेषाः प्राप्ताः । ते अवशेषाः प्रायः ४००० वर्षेभ्यः पुरातनानि सन्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं फतेहाबाद-नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । फतेहाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

इतः परम् अपि हरियाणा-राज्ये बहूनि पर्यटनस्थलानि सन्ति । हरियाणा-नगरस्य समालखा-नगरे “ब्लू जे”, पानीपत-नगरे “स्काईलार्क्”, उचाना-नगरे “चक्रवर्ती झील”, पीपाली-नगरे “पराकीट”, अम्बाला-नगरे “किङ्गफिशर्”, फरीदाबाद-नगरे “मैगपाई”, होडल-नगरे “दबचिक”, धारूहेडा-नगरे “जङ्गल बबलर”, हिसार-नगरे “रेड बिशप्”, गुडगांव-नगरे “शमा”, बहादुरगढ-नगरे “गौरैया” च इत्यादीनि वीक्षणीयस्थलानि सन्ति ।

परिवहनम्सम्पाद्यताम्

"हरियाणा-राज्यस्य प्रमुखाणि नगराणि भारतदेशस्य प्रमुखनगरैः सह वायुमार्गेण, भूमार्गेण, रेलमार्गेण च सम्बद्धानि सन्ति । इदं राज्यं देहली-राज्यस्य समीपे स्थितम् अस्ति । अतः पर्यटकाः सरलतया हरियाणा-राज्यस्य पर्यटनस्थलानि प्राप्नुवन्ति । हरियाणा-राज्यस्य भूमार्गाः ३१,०१० किलोमीटर्मिताः दीर्घाः सन्ति । कालका-नगरं, कुरुक्षेत्र-नगरं, रोहतक-नगरं, जीन्द-नगरं, हिसार-नगरम्, अम्बाला-नगरं, पानीपत-नगरं, जखाल-नगरं च इत्यादिषु नगरेषु हरियाणा-राज्यस्य प्रमुखाणि रेलस्थानकानि सन्ति । जगाधरी-नगरे रेल-यानस्य कार्यशाला अपि अस्ति । अस्य राज्यस्य हिसार-नगरे, करनाल-नगरे, पिञ्जौर-नगरे, नारनौल-नगरे, भिवानी-नगरे च असैनिकविमानस्थानकानि सन्ति ।

सम्बद्धा: विषया:सम्पाद्यताम्

बाह्यानुबन्धाःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६१
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६५
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६६
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६२-१६३
  5. http://bharatdiscovery.org/india/हरियाणा
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६३
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – 166
  8. http://bharatdiscovery.org/india/हरियाणा
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६६
  10. http://bharatdiscovery.org/india/हरियाणा
  11. http://bharatdiscovery.org/india/हरियाणा
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६६
  13. http://bharatdiscovery.org/india/हरियाणा
  14. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६७
  15. http://hindi.nativeplanet.com/sitemap/


"https://sa.wikipedia.org/w/index.php?title=हरियाणाराज्यम्&oldid=436258" इत्यस्माद् पुनः प्राप्तिः