हनुमानगढ़ी, अयोध्या
सिद्धपीठश्री हनुमानगढ़ी भारतस्य उत्तरप्रदेशराज्यस्य अयोध्यानगरे स्थितं १० शताब्द्याः प्रसिद्धं भगवान् हनुमत: हिन्दुमन्दिरम् अस्ति . नागेश्वरनाथः, राममन्दिरम् इत्यादिभिः अन्यैः मन्दिरैः सह नगरस्य महत्त्वपूर्णेषु मन्दिरेषु अन्यतमम् अस्ति |
विवरणम्
सम्पादयतुअयोध्यायां स्थितं ७६ सोपानानि हनुमानगढी पर्यन्तं गच्छन्ति यद् उत्तरभारते हनुमन्मन्दिरेषु प्रसिद्धमस्ति । राममन्दिरं गमनात् पूर्वं प्रथमं भगवान् हनुमत: मन्दिरं द्रष्टव्यम् इति परम्परा अस्ति । मन्दिरे हनुमत: माता अञ्जनी निवसति, तस्याः अङ्के वयस्क: हनुमान् उपविष्टः अस्ति। इदं मन्दिरं रामानन्दीसम्प्रदायस्य अधीनमस्ति ।
मान्यता
सम्पादयतुयदा श्रीरामः रावणं जित्वा अयोध्यां प्रत्यागतवान् ततः परं हनुमान् अत्र निवासं प्रारभत । अत एव तस्य स्थलस्य नाम हनुमानगढः अथवा हनुमान् कोट् इति स्थापितम् । इतः एव हनुमान् रामकोटस्थलस्य रक्षणं करोति । अत्र मुख्यमन्दिरे माता अञ्जन्याः अङ्के पवनसुतः उपविशति ।
परिसर:
सम्पादयतुअस्य मन्दिरस्य आवासीयक्षेत्रं ५२ (बीघा) क्षेत्रे विस्तृतम् अस्ति । वृन्दावनम् , नासिक , उज्जैनः, जगन्नाथपुरी इत्यादिषु देशस्य अनेकेषु मन्दिरेषु अस्य मन्दिरस्य सम्पत्तिः, (अखाडाः), सभाः च सन्ति । रामजन्मभूमिसमीपे एव हनुमानगढीमन्दिरम् स्थितम् अस्ति .
इतिहास:
सम्पादयतु१८२२ तमे वर्षे फैजाबादनगरस्य न्यायिक-अधिकारी हाफिजुल्लाहः अवदत् यत् बाबरेन निर्मितं यवनमन्दिरं (मस्जिदं) रामस्य जन्मस्थाने निर्मितम् अस्ति । सः इदमपि अपि अवदत् यत् इद्ं यवनमन्दिरम्( मस्जिदः) सीता-पाकशाला (सीता-रसोई) इत्यस्य समीपे अस्ति। त्रयस्त्रिंशत् वर्षानन्तरं हनुमानगढी इत्यत्र भयंकरः संघर्षः अभवत् तदा ब्रिटिश-निवासी एक्त्रेस्मिन् पत्रे लिखितवान् यत् ( सुन्नी-मौलवी ) गुलाम हुसैनः रामजन्मभूमिविषये आक्रमणं कर्तुं यवनमन्दिरात् ( मस्जिदात् ) वदन् यवनजनान् (मुसलमानान् ) उत्तेजयति स्म । हनुमानगढी इत्यस्य अन्तः यवनमन्दिरम् (मस्जिद ) अस्ति,यवनजनै:( मुसलमानैः) तत् ग्रहणं कर्तव्यम् इति मौलवी अभियोगं (दावा ) । ब्रिटिश-निवासिनः सैन्यं प्रेषयितुं बहुवारम् आग्रहं कृतवन्त: तदा यवनराजा (नवाब:) किमपि अवधानं न दत्तवान् । प्रारम्भे हिन्दुयवनयो: द्वयो: समूहयो: लघुसंघर्षः अभवत् किन्तु जुलैमासे कतिपयेभ्यः दिनेभ्यः अनन्तरं रक्तरंजितसंघर्षः अभवत् । गुलाम हुसैनः जिहादीसमूहेन सह हनुमानगढी इत्यस्य उपरि आक्रमणं कृतवान्, यस्य हिन्दुसन्यासिन: प्रबलप्रतिक्रियाम् अददुः । 'अस्मिन् आक्रमणे गुलाम हुसैनेन् सहिताः सप्ततिः सुन्नीजिहादीजना: मारिताः।'
१८५७ तमे वर्षे फेब्रुवरीमासे मौलवी अहमदुल्लाहशाहः अस्य गुलामहुसैनस्य मृत्योः प्रतिशोधार्थं फैजाबादनगरं गतः आसीत् । तत्र मस्जिदे उत्तेजकं भाषणं दत्तवान् इति कारणेन सः गृहीतः । यदा अकस्मात् विद्रोहः अभवत् तदा सः कारागारवैद्यस्य नजफ अली इत्यस्य वस्त्रं धारयित्वा वैद्यस्य साहाय्येन कारागारम् अधिकृत्य क्रान्तिकारी अभवत् । तस्य चरित्रं मुल्ला मसूद अजहरस्य चरित्रेण सह बहुसदृशम् आसीत् । मौलवी कारागारे यन्त्रं ददाति स्म । सः हनुमानगढीं आक्रमणं कृतवान् मौलवी गुलाम हुसैनं स्वं पीरः इति आह्वयत् । गुलाम हुसैनः सैयद अहमदबरेल्वी इत्यस्य शिष्यः आसीत् यः १८२६ तमे वर्षे सिक्खसैनिकैः बालाकोटस्य प्रथमस्य आतङ्कवादीनाम् आधारस्य विनाशं कुर्वन् मारितः [स्रोतांसि सृजन फाउण्डेशन इत्यत्र इतिहासकारः डॉ मीनाक्षी जैनस्य वार्ता, डॉ मीनाक्षी जैनस्य पुस्तकम् : राम अयोध्या च
इतिहासकार: सर्वेपल्लीगोपालः उक्तवान् यत् १८५५ तमे वर्षे विवादः बाबरीमस्जिद-राममन्दिरस्थलस्य कृते न अपितु मुसलमानानां रामानन्दीबैरागीनां च हनुमानगढी मन्दिरयो: आसीत् ।