राममन्दिरम्, अयोध्या
अयोध्यायाः राममन्दिरं किञ्चन हिन्दूमन्दिरम् । एतत् मन्दिरं उत्तरप्रदेशराज्यस्य अयोध्यायां रामजन्मस्थाने विद्यते [१] ०६-०८-२०१८ तमे दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी देवालयस्य अस्य शिलान्यासम् अकरोत् । हिन्दूजनाः एतत्स्थानं भगवतः श्रीरामचन्द्रस्य जन्मस्थानं मन्यन्ते । रामं विष्णोः सप्तमः अवतारः इति मत्वा पूजयन्ति च । १५२८ तमे वर्षे मुघल् राजा बाबरः राममन्दिरं भङ्क्त्वा बाबरीमस्जिद् इति यवनप्रार्थनामन्दिरं निर्मितवान् । रामजन्मभूमिविषये बहवः विवादाः आसन् । १९९२ तमे आंग्ल वर्षे कारसेवकानां गणेन बाबरी मस्जिद् भङ्क्तम् । एतस्य देवालयस्य निर्माणस्य उत्तरदायित्वं श्रीरामजन्मभूमितीर्थक्षेत्रसमितेः वर्तते । गुजरात् राज्यस्य सोमपुरपरिवारः देवालयस्य विन्यासम् अकरोत् ।
राममन्दिरम्, अयोध्या | |
---|---|
राममन्दिरस्य प्रारूपम् | |
नाम | |
शुद्धनाम: | राममन्दिरम् अयोध्या |
अवस्थितिः | |
देशः: | भारतम् |
राज्यम्: | उत्तरप्रदेशः |
स्थानीय: | अयोध्या |
स्थापत्यकला संस्कृतिश्च | |
मुख्यदेवः/देवी: | रामलल्ला(बालरामः) |
प्रमुखोत्सवः: | दीपावली रामनवमी नवरात्रोत्सवः |
स्थापत्यशैली: | देवालयः |
राममन्दिर प्राण प्रतिष्ठा कार्यक्रमः २२ जनवरी २०२४ तमे दिनाङ्के सम्पन्नः।[२][३][४] अस्य कार्यक्रमस्य आयोजनं श्रीरामजन्मभूमि तीर्थक्षेत्रः कृतवान् । अत्र भगवान् रामस्य बालरूपस्य (रामलला) विग्रहस्य प्राण प्रतिष्ठा कृतम्।
इतिहासः
सम्पादयतुभगवतः विष्णोः अवताररूपेण सम्मतः रामः व्यापकरूपेण हिन्दुभिः पूज्यते । प्राचीनभारतस्य महाकाव्ये रामायणे रामः अयोध्यायां जातः इत्युल्लेखः वर्तते । अतः अयोध्या रामजन्मभूमिः । रामस्य बालरूपम् एव रामलल्ला इति इति उच्यते । १५ शतके बाबरेण राममन्दिरस्थाने यवनप्रार्थनामन्दिरः निर्मितः । हिन्दूदेवालयः पुनर्निर्मातव्यः इति प्रयत्नाः तदानीमेव आरब्धाः । १८५० तमे दशके पुनः हिंसात्मकप्रतिभटनं आरब्धम् ।[५].
विश्वहिन्दूपरिषदा रामजन्मभूमेः शिलान्यासार्थं १९८० तमे वर्षे पुनः प्रयत्नः आरब्धः । अलहाबाद् उच्चन्यायालयेन प्रयत्नः अवरुद्धः । ततः अविवादिते स्थले मन्दिरं निर्मातुं अनुमतिः प्रार्थिता । तदानीन्तनः गृहसचिवः बूटासिंहः विश्वहिन्दूपरिषदः नायकाय अशोकसिङ्घलाय औपचारिकरूपेण अनुमतिं दत्तवान् । नवंबर् ९ १९८९ तमे दिने विश्वहिन्दूपरिषदः नेतृत्वे साधूनां गणेन शिलान्यासः कृतः ।[६] बिहारस्थः दलितनायकः शिलान्यासं कृतवत्सु अन्यतमः आसीत् । [७].
६ डिसेम्बर् १९९२ तमे दिनाङ्के विश्वहिन्दूपरिषदा भारतीयजनतापक्षेण च १५०००० जनानां काचित् शोभायात्रा अयोध्यायां आजयोजिता । शोभायत्रायां भागग्रहीतारः करसेवकाः इति प्रसिद्धाः । शोभायात्रा हिंसारूपं गता । करसेवकाः भद्रताम् अपरिगणय्य बाबरीमस्जिदं ध्वस्तवन्तः [८][९][१०] ततः हिन्दूमुस्लिंगणयोः मिथः कलहाः जाताः । न्यूनातिन्यूनं २००० जनानां प्राणार्पणम् अभवत् ।[११]
अग्रिमेषु दिनेषु विवादविषये न्यायालये चर्चाः प्रवृत्ताः । देवालयस्य देवस्य रामलल्ला इत्यस्य नाम्ना न्यायलये भूम्यर्थं प्रार्थना उपस्थापिता । विश्वहिन्दूपरिषदः ज्येष्ठः कार्यकर्ता त्रिलोकिनाथपाण्डे रामलल्ला इत्यस्य प्रतिनिधिरूपेण स्थितः । के. पराशरन् रामस्य पक्षे प्रमुखः न्यायवादी आसीत् । अयोध्यायाः विष्यये नवम्बर् ९ २०१९ तमे दिने न्यायालयेन काचित् उद्घोषणा कृता । विवादितां भूमिं रामजन्मभूमिसमित्यै दातव्या इति निर्णयः उद्घोषितः[५] । २०२० तमे वर्षे फेब्रवरी ५ तमे दिनाङ्के संसत्भवने देवालयनिर्माणस्य विषये उद्घाणषा कृता ।[१२].
शिल्पकला
सम्पादयतुरामदेवालयस्य मूलविन्यासं १९८८ तमे वर्षे सोम्पुरपरिवारेण कृतः [१३]। सोम्बुरकुटुम्बीयाः १५ सन्ततेः आविश्वं शताधिकानां देवालयानां शिल्पकार्यं कृतवन्तः [१४]। मूलविन्यासे कतिचन परिवर्तनानि कृत्वा नूतनराममन्दिरस्य विन्यासः २०२० वर्षे कृतः । एतत् मन्दिरं २३५ फीट्परिमितं वैशाल्यं, ३६० फीट्परिमितं दैर्घ्यं १६१ फीट्परिमितम् औन्नत्यं च आवहति ।[१५][१४]। देवालयस्य मुख्यवास्तुशिल्पिनः चन्दर्कान्तसोम्पुरः तत्पुत्रौ निखिल् सोम्पुरः, आशीश् सोम्पुरश्च । नागरशैल्याः वास्तुशिल्पम् अवलम्ब्य अयं देवालयः निर्मितः [१४]।
देवालयस्य प्राङ्गणे प्रार्थनामन्दिरम्, रामकथाकुञ्जः(उपन्यासभवनम्), वैदिकपाठशासा, सन्तनिवासः, यात्रिनिवासः, वस्तुसङ्ग्रहालयश्च भविष्यति [१६]। देवालयस्य कार्ये समाप्ते इदं मन्दिरं विश्वस्य तृतीयं बृहत्तमं मन्दिरं इति विख्यातं भविष्यति । [१५] . देवालयस्य सद्यकालीनं प्रारूपं २०१९ तमे वर्षे प्रयागस्य कुम्भमेलायां प्रदर्शितम् [१७]।
निर्माणम्
सम्पादयतुश्रीरामजन्मभूमितीर्थक्षेत्रट्रस्ट् द्वारा मार्च् २०२० मध्ये रामदेवालस्य प्रथमघट्टस्य निर्माणम् आरब्धम् ।[१८][१९]. भारते करोनासाङ्क्रामिकरोगकारणतः, भारत-चीनाविषयककलहकारणतश्चापि तात्कालिकरूपेण कार्यस्य स्थगनम् अभवत् [२०][२१][२२]। निर्माणावसरे भूगर्भे शिवलिङ्गं स्तम्भाः भग्नविग्रहाश्च उपलब्धाः ।[२३] [२४]। मार्च् २५ २०२० तमे दिनाङ्के उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगि-आदित्यनाथस्य समक्षमे रामविग्रहस्य तात्कालिकं स्थानान्तरणम् अपि कृतम् [२५]।
राममन्दिररस्य निर्माणस्य अङ्गतया विश्वहिन्दूपरिषत्-द्वारा विजयमहामन्त्रस्य जपानुष्ठानस्य आरम्भः अभवत् । रामभक्ताः जय श्रीराम जयश्रीराम इति एप्रिल् ६ २०२० तमे दिनाङ्के जप्तवन्तः । देवालयस्य निर्माणकाले विविधानां सङ्कष्टानां निवारणाय जपानुष्ठानकार्यक्रमः आयोजितः आसीत् । लार्सेल् एण्ड् टौब्रो इति संस्थया देवालयनिर्माणस्य कार्यं स्वीकृतं वर्तते ।
शिलान्यासः
सम्पादयतु५ आगस्ट् २०२० तमे दिनाङ्के शिलान्यासानन्तरम् अधिकृतरूपेण देवालयनिर्माणकार्यं पुनः आरब्धम् । दिनत्रयं यावत् पूजाः कृत्वा सुदीर्घाः वैदिकाचाराः प्रवर्तिताः । आगस्ट् ४ दिनाङ्के रामार्चनपूजां कृत्वा देवताह्वानम् अभवत् । आगस्ट् ५ दिनाङ्के भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भूगर्भे ४० के.जि परिमितं रजत-इष्टिकां विन्यस्य भूमिपूजां कृतवान्[२६]।
भूमिपूजावसरे भारतस्य विविधभागेभ्यः पवित्रमृत्तिकायाः जलस्य च आनयनं प्रावर्तत । त्रिवेणीसङ्गमात्, तलकावेर्याः, कामाख्यदेवालयात्, जैन-सिख् मन्दिरेभ्यः च मृत्तिकादिकम् आनीतम् [२७][२८][२९]। पाकिस्थानस्य शारदापीठादपि जलमानीतम् । शिलान्यासावसरे केनडा इङ्ग्लेण्ड् इत्यादिषु देशेषु विशेषपूजाः प्रावर्तन्त । अयोध्यायाः हनुमान्गडी मन्दिरात् ७ किलोमीटर्विस्तीर्णे विद्यमानेषु सर्वेष्वपि देवालयेष दीपप्रज्वालनं कृतम् । रामं स्वकीयपूर्वजत्वेन मन्वानाः अयोध्यायाः मुस्लिंजनाः अपि शिलान्यासे सहयोगं कृतवन्तः । सर्वमतानां मुख्यस्थाः कार्यक्रमे आहूताः आसन् । [३०][३०]
शिलान्याससभा
सम्पादयतुनरेन्द्रमोदिवर्यः हनुमान्गढी मन्दिरे पूजां निर्वर्त्य राममन्दिरस्य शिलान्यासम् अकरोत् । तदनन्तरं सभाकार्यक्रमः प्रावर्तत । कार्यक्रमे नरेन्द्रमोदी राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकः मोहनभागवतः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, वस्त्यगोपालदासः इत्यादयः उपस्थिताः आसन् । देशमुद्दिश्य भाषणं कृतवता मोदिना जय सिया राम इत्युद्घोषेण भाषणस्य आरम्भः कृतः । रामनाम्नः उद्घोषः न केवलायाम् अयोध्यायाम् अपि तु समग्रे देशे अद्य श्रूयते इत्युक्त्वा राममन्दिरम् आधुनिकसम्प्रदायानां सङ्केतरूपम् इति च अवदत् [३१][३२][३३]। देवालयप्रतिष्ठापने एल् के अड्वाणीवर्यस्य श्रमः मोहनभागवतेन स्मृतः[३४] । कार्यक्रमस्याङ्गतया प्रधानमन्त्रिणा पारिजातसस्यारोपणमपि विहितम्[३५] । करोनाकारणतः देवालस्यावरणे १७५ जनाः मात्रम् उपस्थिताः आसन् ।
विष्णोः अवताररूपस्य भगवतः श्रीरामस्य शिशुरूपं रामलल्ला मन्दिरस्य प्रधानदेवता । रामलल्लायाः वस्त्राणि भगवत्प्रसादः शङ्करलालश्च सीव्यति । शङ्करलालस्य पूर्वं चतस्रः सन्ततयः अपि रामविग्रहस्य वस्त्रसीवकाः [३६][३७]।
राममन्दिर प्राण प्रतिष्ठा
सम्पादयतुराममन्दिर प्राण प्रतिष्ठा कार्यक्रमः २२ जनवरी २०२४ तमे दिनाङ्के सम्पन्नः।[३८][३९][४०] अस्य कार्यक्रमस्य आयोजनं श्रीरामजन्मभूमि तीर्थक्षेत्रः कृतवान् । अत्र भगवान् रामस्य बालरूपस्य (रामलला) विग्रहस्य प्राण प्रतिष्ठा कृतम्। रामललाः प्राण प्रतिष्ठा मेष लग्न अभिजीत मुहूर्तेषु अभवत् । काशीयाः सांग्वेदविद्यालये प्राचार्य गणेश्वरशास्त्री द्रविडः एव अद्भुतमुहूर्तम् अकरोत् । प्राणप्रतिष्ठायाः मुहूर्ते १२ बजकर २९ मिनट ८ सेकेण्डात् १२ बजकर ३० मिनट ३२ सेकेण्डपर्यन्तम् आसीत्, यस्मिन् रामलला प्रतिष्ठितः अभवत्।[४१]
उल्लेखाः
सम्पादयतु- ↑ Bajpai, Namita (7 May 2020). "Land levelling for Ayodhya Ram temple soon, says mandir trust after video conference". The New Indian Express. आह्रियत 8 May 2020.
- ↑ Travelli, Alex; Kumar, Hari (22 January 2024). "Why India’s New Ram Temple Is So Important". The New York Times. Unknown parameter
|access-date=
ignored (help) - ↑ Mogul, Rhea (2024-01-20). "A decades long Hindu nationalist dream is about to be achieved. What does this mean?". CNN (in English). Unknown parameter
|access-date=
ignored (help) - ↑ Livemint (2024-01-20). "Ayodhya Ram Mandir: Date, aarti timings, darshan, and other details here". mint (in English). Unknown parameter
|access-date=
ignored (help) - ↑ ५.० ५.१ Deepalakshmi, K. (8 November 2019). "Ramjanmabhoomi-Babri Masjid title dispute: The story so far". The Hindu. ISSN 0971-751X. आह्रियत 25 July 2020.
- ↑ Mathew, Liz (4 August 2020). "Explained: The Ayodhya Ram temple journey, from November 9, 1989 to August 5, 2020". The Indian Express (in English). आह्रियत 4 August 2020.
- ↑ "Ministry of Home Affairs notifies temple trust; RSS, VHP members kept out". The Hindu. 5 February 2020. आह्रियत 31 July 2020.
- ↑ Tully, Mark (5 December 2002). "Tearing down the Babri Masjid". BBC News. आह्रियत 29 September 2010.
- ↑ Guha, Ramachandra (2007). India After Gandhi. MacMillan. pp. 582–598.
- ↑ "Report: Sequence of events on December 6". Ndtv.com. आह्रियत 20 June 2012.
- ↑ Guha, Ramachandra (2007). India After Gandhi. MacMillan. pp. 633–659.
- ↑ Phukan, Sandeep (5 February 2020). "PM announces Cabinet nod for Ram temple in Ayodhya". The Hindu (in en-IN). ISSN 0971-751X. आह्रियत 9 May 2020.
- ↑ Pandey, Alok (23 July 2020). "Ayodhya's Ram Temple Will Be 161-Foot Tall, An Increase Of 20 Feet". NDTV. आह्रियत 23 July 2020.
- ↑ १४.० १४.१ १४.२ Sampal, Rahul (28 July 2020). "Somnath, Akshardham & now Ram Mandir – Gujarat family designing temples for 15 generations". ThePrint (in en-US). आह्रियत 29 July 2020.
- ↑ १५.० १५.१ Bajpai, Namita (21 July 2020). "280-feet wide, 300-feet long and 161-feet tall: Ayodhya Ram temple complex to be world's third-largest Hindu shrine". The New Indian Express. Archived from the original on 22 July 2020. आह्रियत 23 July 2020.
- ↑ "Grand Ram temple in Ayodhya before 2022". The New Indian Express. IANS. 11 November 2019. आह्रियत 26 May 2020.
- ↑ India, Press Trust of (6 February 2020). "Ayodhya Ram Mandir construction to begin in April this year: Trustee". Business Standard India. आह्रियत 9 May 2020.
- ↑ Sharma, Pratul (23 March 2020). "1st phase of Ram temple construction begins in Ayodhya". The Week (in English). आह्रियत 9 May 2020.
- ↑ "Ram Mandir Construction: राम मंदिर निर्मितीच्या पहिल्या टप्प्यातील काम सुरू" [Ram Mandir Construction: Ram mandir Foundation Starts First Phase of Work]. Times Now Marathi (in Marathi). 8 May 2020. Archived from the original on 18 October 2021. आह्रियत 8 May 2020.
- ↑ Bajpai, Namita (9 April 2020). "Ram Mandir plans continue during COVID-19 lockdown, temple trust releases its official Logo". The New Indian Express. आह्रियत 9 May 2020.
- ↑ "COVID-19: लॉकडाउन खत्म होते ही अयोध्या में शुरू होगा भव्य राम मंदिर निर्माण" [COVID-19: The Ram Temple construction will begin in Ayodhya after the end of lockdown]. News18 India (in Hindi). 1 January 1970. आह्रियत 8 May 2020.
- ↑ "Indo-China border standoff: Plan to start construction of Ram Temple in Ayodhya suspended". The Economic Times. आह्रियत 25 July 2020.
- ↑ "Shivling, carvings on sandstone found at Ram Janmabhoomi site: Temple trust". The Times of India. ANI. 21 May 2020. आह्रियत 27 May 2020.
- ↑ Rashid, Omar (25 March 2020). "U.P. Chief Minister Adityanath shifts Ram idol amid lockdown". The Hindu (in en-IN). ISSN 0971-751X. आह्रियत 24 July 2020.
- ↑ "VHP to organise 'Vijay Mahamantra Jaap Anushthan'". Outlook. IANS. 4 April 2020. आह्रियत 2 August 2020.
- ↑ "'Ramarchan puja' begins ahead of 'bhoomi pujan' in Ayodhya". DNA India (in English). 4 August 2020. आह्रियत 5 August 2020.
- ↑ Mehta, Kriti (22 July 2020). "Ram temple bhumi pujan: Sangam soil, water to be taken to Ayodhya; proceedings to be telecast live". The Times Of India.
- ↑ "Water, soil from Kodagu sent to Ayodhya". Deccan Herald. 24 July 2020.
- ↑ "Sacred Soil of Kamakhya Temple taken for Construction of Ram Mandir". Guwahati Plus (in English). 28 July 2020. आह्रियत 28 July 2020.
- ↑ ३०.० ३०.१ "Muslim devotees of Lord Ram gear up to celebrate temple ‘bhoomi pujan’ in Ayodhya". The Hindu (in en-IN). PTI. 27 July 2020. ISSN 0971-751X. आह्रियत 2 August 2020.
- ↑ "'Jai Siyaram' call resonating throughout the world: PM Narendra Modi". The Times of India (in English). 5 August 2020. आह्रियत 5 August 2020.
- ↑ "From Laos to Lanka, Ram is everywhere: PM Modi in Ayodhya". India Today (in English). 5 August 2020. आह्रियत 5 August 2020.
- ↑ "Long wait ends today: PM chants 'Jai Siya Ram' in Ayodhya". Punjab News Express. 5 August 2020. Archived from the original on 21 August 2023. आह्रियत 5 August 2020.
- ↑ Tripathi, Ashutosh, ed. (5 August 2020). "At Ayodhya Ram temple event, PM Modi reiterates mantra to fight coronavirus". Hindustan Times (in English). आह्रियत 5 August 2020.
- ↑ Jain, Sanya (5 August 2020). "Watch: PM Narendra Modi Plants Parijat Sapling At Ram Temple". NDTV.com. आह्रियत 5 August 2020.
- ↑ "अयोध्या: 5 अगस्त को इस टेलर का सिला पोशाक पहनेंगे रामलला" [On 5 August Ram will wear clothes stitched by this tailor]. News18 India (in Hindi). 27 July 2020. आह्रियत 27 July 2020.
- ↑ "What the idol of Ram Lalla will don for the Ayodhya temple 'bhoomi pujan' - Divine Couture". The Economic Times. 4 August 2020. आह्रियत 4 August 2020.
- ↑ Travelli, Alex; Kumar, Hari (22 January 2024). "Why India’s New Ram Temple Is So Important". The New York Times. Unknown parameter
|access-date=
ignored (help) - ↑ Mogul, Rhea (2024-01-20). "A decades long Hindu nationalist dream is about to be achieved. What does this mean?". CNN (in English). Unknown parameter
|access-date=
ignored (help) - ↑ Livemint (2024-01-20). "Ayodhya Ram Mandir: Date, aarti timings, darshan, and other details here". mint (in English). Unknown parameter
|access-date=
ignored (help) - ↑ Bharat, ETV (24 December 2023). "इस शुभ मुहूर्त में होगी रामलला की प्राण प्रतिष्ठा, बन रहा अद्भुत संयोग, 84 सेकेंड में प्रतिष्ठित हो जाएंगे भगवान". ETV Bharat News. Unknown parameter
|access-date=
ignored (help)