हिङ्गोलीमण्डलम् (मराठी: हिंगोली जिल्हा, आङ्ग्ल: Hingoli district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं हिङ्गोली इत्येतन्नगम् । १९९९ तमे वर्षे परभणीमण्डलस्य विभाजनं कृत्वा स्थापितम् अतः नूतनमिदं मण्डलम् ।

हिङ्गोलीमण्डलम्

Hingoli district

हिंगोली जिल्हा
मण्डलम्
महाराष्ट्रराज्ये हिङ्गोलीमण्डलम्
महाराष्ट्रराज्ये हिङ्गोलीमण्डलम्
देशः  India
मण्डलम् हिङ्गोलीमण्डलम्
उपमण्डलानि औण्ढा नागनाथ, सेनगांव, कळमनुरी, वसमत, हिङ्गोली
विस्तारः ४,५२६ च.कि.मी.
जनसङ्ख्या(२०११) ११,७७,३४५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://hingoli.nic.in

भौगोलिकम् सम्पादयतु

हिङ्गोलीमण्डलस्य विस्तारः ४,५२६ च.कि.मी. । अस्य मण्डलस्य पश्चिमदिशि परभणीमण्डलम्, उत्तरदिशि अकोलामण्डलं, यवतमाळमण्डलम्, आग्नेयदिशि नान्देडमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं हिङ्गोलीमण्डलस्य जनसङ्ख्या ११,७७,३४५ । अस्मिन् ६,०६,२९४ पुरुषाः, ५,७१,०५१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८१% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५३ अस्ति । अत्र साक्षरता ७८.१७% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१ औण्ढा नागनाथ

२ सेनगांव

३ कळमनुरी

४ वसमत

हिङ्गोली

लोकजीवनम् सम्पादयतु

गोंधळ-शाहिरी-भारुड-पोतराज-कळगीतुरा-एताः लोककलाः अस्मिन्मण्डले प्रसिद्धाः सन्ति । 'ज्वारी', कार्पासः च प्रमुखोत्पादनम् ।

वीक्षणीयस्थलानि सम्पादयतु

१ औण्ढा नागनाथशिवमन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमः ।

२ मल्लिनाथ-दिगम्बर-जैनमन्दिरम्

३ तुळजादेवीसंस्थानम्

४ सन्तनामदेवसंस्थानम्

५ पूर्णा पाटबन्धारे प्रकल्पः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हिङ्गोलीमण्डलम्&oldid=481878" इत्यस्माद् प्रतिप्राप्तम्