परभणीमण्डलं (मराठी: परभणी जिल्हा, आङ्ग्ल: Parbhani District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं परभणी इत्येतन्नगरम् । मण्डलमिदं सन्तप्रभृतीनां प्राचुर्यात् सन्तभूमिः उच्यते ।

परभणीमण्डलम्

Parbhani District

परभणी जिल्हा
मण्डलम्
महाराष्ट्रराज्ये परभणीमण्डलम्
महाराष्ट्रराज्ये परभणीमण्डलम्
देशः  India
जिल्हा परभणीमण्डलम्
उपमण्डलानि परभणी, गङ्गाखेड, सोनपेठ, पाथरी, मानवत, सेलू, पूर्णा, पालम
विस्तारः ७,५१२ च.कि.मी.
जनसङ्ख्या(२०११) १८,३५,९८२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://parbhani.gov.in
औण्ढा-नागनाथमन्दिरम्

भौगोलिकम् संपादित करें

परभणीमण्डलस्य विस्तारः ७,५१२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि नान्देडमण्डलं, पश्चिमदिशि बीडमण्डलं, जालनामण्डलं च, उत्तरदिशि हिङ्गोलीमण्डलं, बुलढाणामण्डलं च, दक्षिणदिशि लातूरमण्डलम् अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्यनदी गोदावरीनदी अस्ति । भूरचनादृष्ट्या अस्य मण्डलस्य विभागद्वयं क्रियते । उत्तरदिशि अजिण्ठा लघुपर्वतशैलाः सन्ति । मण्डलेस्मिन् उष्णं, शुष्कं, विषमञ्च वातावरणं भवति ।

कृषिः उद्यमाः संपादित करें

यवनालः(ज्वारी), गोधूमः, बाजरी, तण्डुलः, 'तूर', चणकः, इक्षुः, कार्पासः, कलायः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । अत्रस्थाः ६०% जनाः कृषिसम्बद्धकार्यैः उपजीविकां कल्पयन्ति । कृष्यवलम्बिताः उद्यमाः अत्र अधिकाः सन्ति । यथा अन्नपदार्थनिर्माणोद्यमाः, अन्नपदार्थानां वेष्टनीकरणोद्यमाः, विद्युन्निर्माणोद्यमाः च वर्तन्ते ।

जनसङ्ख्या संपादित करें

२०११ जनगणनानुगुणम् परभणीमण्डलस्य जनसङ्ख्या १८,३५,९८२ अस्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४० अस्ति । अत्र साक्षरता ७५.२२% अस्ति ।

ऐतिहासिकं किञ्चित् संपादित करें

१६ तमे, १७ तमे च शतके अत्र मुघलशासकानाम् आधिपत्यम् आसीत् । बेरार इति प्रान्तस्य भागम् आसीत् मण्डलमिदम् । १९५६ मध्ये यदा भाषानुसारिप्रान्तनिर्मितिः जाता तदा इतरमराठवाडामण्डलानाम् इव अस्य मण्डलस्य समावेशः अपि 'बोम्बे प्रेसिडेन्सि' इत्यस्मिन्नेव आसीत् । १९६० तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना जाता तदा अस्य परिसरस्य परभणीमण्डलत्वेन महाराष्ट्रराज्ये समावेशः कृतः ।

उपमण्डलानि संपादित करें

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि -

  • परभणी
  • गङ्गाखेड
  • सोनपेठ
  • पाथरी
  • मानवत
  • सेलू
  • पूर्णा
  • पालम

लोकजीवनम् संपादित करें

मण्डलेऽस्मिन् वनवासिजनाः कळमनुरी, जिन्तुर, वसमत इत्येतेषु उपमण्डलेषु निवसन्ति । अत्रस्थानां जनानां प्रमुखाहारे यवनालैः कृता 'भाकरी', सूपः, ओदनं, शाकानि च अन्तर्भवन्ति । अत्रस्थाः जनाः उत्सवप्रियाः सन्ति ।

व्यक्तिविशेषाः संपादित करें

मण्डलमिदं सन्तभूमिः उच्यते । सन्त-नामदेव इत्यस्य जन्मस्थानमिदं मण्डलम् । सन्त-जनाबाई इत्यस्याः ग्रामः गङ्गाखेड इति । महानुभावसम्प्रदायानुयायी कविः भास्करभट्ट अत्रस्थः एव ।

वीक्षणीयस्थलानि संपादित करें

अस्मिन् मण्डले वीक्षणीयस्थलानि सन्ति यथा -

  • पर्देश्वर-मन्दिरम्
  • लोहिग्राम इत्यत्र नेमगिरी
  • शेल्गाव
  • औण्ढा-नागनाथज्योतिर्लिङ्गम्
  • जिन्तुर इत्यत्र जैन-मन्दिरम्


बाह्यसम्पर्कतन्तुः संपादित करें

"https://sa.wikipedia.org/w/index.php?title=परभणीमण्डलम्&oldid=464018" इत्यस्माद् प्रतिप्राप्तम्