हिन्दूदेवालयः
समस्तसृष्टे: अधिपतिः देवः । मानवाः चिन्तयन्ति, अस्मान् उद्धर्तुं एव देवः भूलोकम् आगच्छति इति । तस्मै आलयम् अपि बध्नान्ति । तत्र देवं दृष्टुं प्रयत्नं कुर्वन्ति । तादृश: आलयः एव देवालयः(देवस्य आलयः) ।देवस्थानं, देवतायनं, प्रासादः, विमानं, तीर्थ- इत्यादीन्यपि पर्यायपदानि सन्ति ।
भरतखण्डे विविधभागेषु देवालयाः निर्मिताः सन्ति । ते तु भिन्नभिन्नकालेषु निर्मिता: । किन्तु तेषु एकरूपता साम्यता च दृष्टुं शक्यते । किमर्थं इत्युक्ते देवालयस्य निर्माणे मूलभूततत्वनाम् अनुसरणम् भवति । एतस्य क्रमबद्धम् शात्रम् अस्ति ।
भारतीयदेवालयं तस्य रचनाकौशल्यम् आधृत्य त्रिविधरीत्या विभागयितुं शक्यते । भारतदेशे पूर्व तथा उत्तरभागे अधिकतः ’नागर’ शैली दृष्टुं शक्यते । एतस्याम् शैल्यां गर्भग्रहस्य शिखरम् उन्नतं तथा वक्ररेखाकृत्याम् भवति। दक्षिणभागे अधिकतः ’द्राविड’ शैली दृष्टुं शक्यते । अस्यां शिखरं छिन्नाग्र पिरमिड् रीत्या भवति । अत्रत्य द्वयाणाम् अपि लक्षणं अनुसरति ’वेसर’ शैली । एतत् प्रधानतया होय्सलशैल्याम् दृश्यते ।
अर्थगर्भितरचना
सम्पादयतुदेवालयस्य रचनाविषये सान्केतिक: अर्थ: कोपि अस्ति वा? इति पृच्छति चेत् अस्ति इति ज्ञानिनः वदन्ति । आगमशास्त्रे, वास्तुशास्त्रे च एतस्मिन् विषये विवरणं दृष्टुं शक्यते । देवालयः प्रमुखतः विराट्पुरुषं सूचयति । गर्भगृहं तस्य शिरः । महाद्वारस्य शिखरं एतस्य पादः । शुकनासि अथवा अर्धमंटपः तस्य नासिका । अन्तरालः तस्य कण्ठः । इतर मंटपाः तस्य देहः । प्राकारं हस्तः । इयं विराट्पुरुषस्य शयनभङ्गी। तस्य स्थम्भमानस्य चित्रं भावयामः चेत् गर्भग्रहं तस्य शिरः ।शिखरं शिखा । अन्यभाग: पृथिव्या: अन्तः भवति । भूलोकादारभ्य सत्यलोकपर्यन्तं १४ लोकाः विराट्पुरुषस्य शरीरस्य विविधानि अङ्गानि भवन्ति । तस्मात् देवालयाः विराट्पुरुषस्य शरीरं प्रतिबिम्बयन्ति। • देवालयः मेरुपर्वतस्य सन्केतः । मेरुपर्वतः जगतः अक्षस्तम्भः । देवालयः प्रपञ्चस्य सन्केतः अपि अस्ति । मानवदेहस्य सन्केतः अपि भवति । मानवदेहे विद्यमानानि चक्राणि देवालयस्य विविधभागं सूचयति इति भावयितुं शक्यते । प्रायशः देवालयं देवतायन्त्र मण्डलानाम् आकारे अपि रचयन्ति । एकवाक्येन वदामः चेत् देवालयः पाषाण-मृत्तिकाणां निर्जीव भवनं न अपि तु बहु अर्थगर्भिता तत्वयुक्ता रचना अस्ति ।
निर्माणस्य विविधस्तरः
सम्पादयतुदेवालयस्य निर्माणं अतीवपुण्यकरं कार्यमस्ति। तदर्थं राजान:,धनसम्पन्ना: च निर्माणस्य कार्यं श्रद्धया कुर्वन्ति स्म । देवालयस्य निर्माणे प्रारम्भे निष्ठावन्तः आचारवन्तः एकः ’आचार्य: नियोक्तव्य:। सः आगम तथा शिल्पशास्त्रे प्रवीण: स्यात्। तस्मै प्रायोगिकज्ञानं अपि आवश्यकम् अस्ति । आचार्यवरणानन्तरं ’स्तपति: चयनीय:। एषः ब्राह्मणः न भवति । परन्तु एतस्मै अपि आचार्यवत् स्थानमानं दातव्यम् । सः सूत्रग्राही, तक्षक:, वर्धकि इत्येतेषां साहायेन भवननिर्माणं करोति।
भवननिर्माणकार्ये योग्यस्थानं बहु आवश्यकम् ।स्थानं शुद्धीकृत्य सूक्तस्थाने वास्तुमण्डलं करणीयम् । वास्तुमण्डले वास्तुपुरुषस्य चित्रं रचयित्वा पूजनीयम् । तेन निर्माणकार्यं निर्विध्नतया भवति । अनन्तरम् ताम्रपात्रे अङ्कुरबीजानि स्थाप्य सोमदेवाय दातव्यम् । तत् कर्म ’अङ्कुरार्पणम्’ इति । अनन्तरं वायव्यदिशि शिलान्यास: करणीय: । गर्भगृहस्य स्थले खननं कृत्वा आधारशिला, निधिकुम्भ अथवा कलश, कूर्म, पद्मं च स्थापनीयम् । एतस्य उपरि ताम्रस्य ’योगनाळ’ इति नलं स्थापनीयम् । एतत् सर्वं अपि पिधाय उपरि ’ब्रह्मशिला’ इति एका शिला स्थापनीया। एतस्य उपरि एव अनन्तरं विग्रहस्थापना भवति । गर्भगृहस्य द्वारं कुत्र आगच्छति इति विचिन्त्य तत् स्थले किञ्चित् पृष्टभागे निर्दिष्टस्थाने २५ वर्गाकारकताम्रपात्रे विविधशात्रसम्मतवस्तूनि स्थाप्य भूमौ किन्चित् गर्तं कृत्वा स्थापनीयाः।एतस्य ’गर्भन्यासः’ अथवा ’गर्भाधानम् इति नाम। पृथिव्याः अनुग्रहसम्पादनार्थं एतत् कर्म करणीयम् । भवननिर्माणे नूतनवस्तूनां उपयोग: करणीय: । कार्यार्थम् आनेतानाम् सकलवस्तूनां तथा उपकरणानां पूजा करणीया। एवं कृतं चेत् भवननिर्माणस्य कार्यं सुलभतया भवतीति विश्वास:।
देवालयस्य मुख्यभागाः
सम्पादयतुदेवालये आवश्यकभागाः -
गर्भगृहम्
सम्पादयतुगर्भगृहं अतीप्रमुखं अस्ति । एतत् वर्गाकारम् भवति । अस्य पुरतः द्वारं विहाय वातायनं अथवा गवाक्षः न भवति । गर्भगृहस्य उपरि विमाननामकम् शिखरं भवति। गर्भगृहस्य पुरतः मुखमण्टपः(शुकनासि) अथवा अर्धमण्टपः भवति । अनन्तरं नृत्यमण्टपः अथवा नवरङ्गः अपि भवति । देवालयस्य प्रमुखकार्यक्रमाः अत्रैव प्रचलन्ति ।
ध्वजस्तम्भः
सम्पादयतुदेवालयस्य पुरतः ध्वजस्तम्भः भवति । ध्वजस्तम्भस्य उपरि मूलदेवतायाः वाहनं लान्छनरूपेण भवितव्यम् । शिवदेवालये नन्दि, शक्तिदेवालये सिम्हः, विष्णुदेवालये गरुडवाहनं च दृष्टुं शक्यते। देवालये बलिपीठम् भवति । तत्र देवतानां पादचिह्नं भवति । दीपं प्रज्वालयितुं दीपस्थम्भः अपि भवति ।
परिवारदेवतानां आलयः, प्राकारः, यागशाला, पाकशाला, उत्सवमूर्त्यर्थं स्थानम्, रथं स्थापयितुं योग्यस्थलम्,कूपः, पुष्करिणि, पुष्पवाटिका, इत्यादयः देवालयस्य इतरभागाः ।
विग्रहः तथा मूर्तिशिल्पम्
सम्पादयतुगर्भगृहे स्थापितः मूलविग्रहः देवालयस्य केन्द्रबिन्दुः भवति । मूर्तीनां निर्माणम् शिल्पशास्त्रस्य नियमानुसारेण एव करणीयम् । मूर्तीनां शैव- शाक्त- वैष्णवभेदेन विभागं कर्तुं शक्यते । स्थिर-चरदृष्ट्या अचल, चल, चलाचल इति विभाग: अपि भवति । भङ्गीम् अनुसृत्य स्थानक, आसन, शयन इति विभाग: अपि भवति । अचलमूर्तयः पाषाणेन कृताः भवन्ति । उत्सवमूर्तयः लोहेन कृताः भवन्ति ।
विग्रह: तालमानपद्धतीम् अनुसृत्य भवति । सर्वेषां मुखं तेषां करतल: समानं भवति । इत्युक्ते मणिबन्धेन अङ्गुल्याः अग्रभागपर्यन्तं यावान् लम्बः अस्ति, तावदेव हनुना ललाटपर्यन्तं लम्बः भवति । अयं तालः इति कथ्यते । एकः तालः १२ अङ्गुलं इति कथयन्ति। सामान्यतया देवताविग्रहं नवतालपध्दतिद्वारा रचयन्ति।
प्रतिष्ठा विधिः
सम्पादयतुदेवालयस्य निर्माणानन्तरं गर्भगृहे विग्रहस्य प्रतिष्टापनं कथं करणीयं इति अत्र पश्यामः ।
प्रतिष्टाविधिः अत्यन्तं विस्तारितं तथा जटिलकर्म भवति । वास्तुपुरुषपूजा, उग्रदेवतानां शान्त्यर्थं, अनुग्रहार्थं च नवबलिः, कलशस्थापना, विविधहोम: च प्रथमतः करणीयम् । एतन्मध्ये मूलविग्रहाय नेत्रोन्मीलनं कृत्वा रथे नीत्वा नद्यां अथवा तटाके रक्षणीयम् । एतस्य ’जलाधिवासः’ इति नाम। अनन्तरं तत् विग्रहं आनीय धान्यस्य उपरि स्थापनीयम् । अयं ’धान्याधिवासः’ इति । अनन्तरं तत् विग्रहं आनीय शय्यायाम् स्थापनीयम् । अस्य ’शय्याधिवासः’ इति नाम ।
एतत् सर्वम् अपि कार्यं समाप्य अनन्तरम् अष्टबन्धः क्रियते। अष्टवस्तूनां बन्धनम् एव अष्टबन्धः । शंखः, श्वेतपाशाणः, परिमळद्रव्यानि, ...इत्यादि अष्टवस्तूनां चूर्णं कृत्वा नवनीतेन अथवा तैलेन साकं मिश्रणं करणीयम् । गर्भग्रहस्य मध्ये विग्रहस्थापना स्थले सुवर्णयन्त्रस्य उपरि आधारपीठं स्थाप्य तस्य उपरि तत् मिश्रणं स्थाप्य अनन्तरं विग्रहं स्थापनीयम् ।
अनन्तरं नाडीसन्धानम्। यागशालायाः मुख्यहोमकुण्डस्य परितः सूत्रमेकं बद्ध्वा अन्यदेकम् अग्रभागं विग्रहाय बध्नातव्यम् ।. अनन्तरं प्राणप्रतिष्टा करणीया । यागशालायाः मुख्यकलशस्य जलेन अभिषेकः करणीयः । अयमेव ’कुम्भाभिषेकः’ । इतःपरं विशेषपूजा, नैवेद्यं, मङ्गळारति; प्रचलति ।
सर्वाणि कर्माणि समाप्य यजमानः, आचार्यः, स्थपति: च ’अवभृतस्नानं’ कृत्वा आगच्छति। अनन्तरं अन्नदानं, सन्तर्पणम् सर्वम् अपि भवति ।
नित्यपूजा
सम्पादयतुएवं प्रतिष्टाविधिं कृत्वा देवालये नित्यपूजा करणीया। दिने एकत: नववारं अपि पूजा भवति । प्रतिपूजासमये वस्त्राभरणानि पृथक् कृत्वा अभिषेक: करणीय: । धूपदीपनैवेद्यं करणीयम् । अन्ते महामण्गळारति:, तथा त्रिवारं बलिप्रदानं करणीयम् । परिवारदेवतानाम् अपि पूजा सकाले विधेया ।
नैमित्तिकपूजा
सम्पादयतुविशेषावसरे, विशेषदिने च नैनित्तिकपूजा प्रचलति । विशेषावसरेषु उत्सवमूर्तेः अपि अलङ्कारं कुर्वन्ति ।
ब्रह्मोत्सवः
सम्पादयतुब्रह्मोत्सवः इत्युक्ते देवालयस्य बृहत् उत्सवः, प्रमुख उत्सवश्च । रथोत्सवः अस्य अङ्गम्। उत्सवसमापनात् दिनद्वयपूर्वं ब्रह्मोत्सवं आचरन्ति ।
रथोत्सवः
सम्पादयतुरथोत्सवः देवालयस्य चलप्रतीकः । अलङ्कृतरथं नेतुं सर्वै उत्सुकाः भवन्ति । अत्र जातिभेदः न करणीयः । बृहत् पुष्करिणी अस्ति चेत् तेप्पोत्सवः अपि प्रचलति ।
एवं प्रतिष्ठाविधिपूर्वकं प्रतिष्ठापितविग्रहे देवतायाः कला अथवा शक्तिः देवालये सन्चरति । तस्मात् दैवापचार: न करणीय: । देवालये शौचं, शान्ति: च रक्षणीया ।
हिन्दूसमाजाय देवालयस्य पात्रम्
सम्पादयतुहिन्दूसमाजाय देवालयस्य पात्रं बहु अस्ति । धर्म- सम्स्कृतीनां रक्षणं करोति । समाजस्य ऐक्यताम् प्रोत्साहयति । देवालयाः सहस्रवर्षेषु बहु जनानां जीवनोपायः अस्ति । संगीत- नृत्यगाराणां, शिल्पकाराणां, वैदिकानां, पाचकानां, लोहकाराणां, व्यापारिणां ... इत्यादि बहु जनानां अन्नदाता अस्ति । शिक्षणक्षेत्रेषु योगदानम् बहू अस्ति । देवालयस्य आश्रयेन चिकित्सालयाः अपि सन्ति |
॥ शुभमस्तु ॥