हुक्केरी
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति हुक्केरी-उपमण्डलम् ।
हुक्केरी ಹುಕ್ಕೇರಿ Hukkeri | |
---|---|
नगरम् | |
देशः | भारतम् |
राज्यम् | कर्णाटकम् |
मण्डलम् | बेळगावी |
Elevation | ६३१ m |
Population (2011) | |
• Total | २३,०१० |
भाषाः | |
• अधिकृताः | कन्नड |
Time zone | UTC+5:30 (IST) |
निर्देशाङ्काः
सम्पादयतुहुक्केरीनगरस्य निर्देशाङ्कौ १६.२३°उ, ७४.६°पू।
वैशिष्ट्यानि
सम्पादयतु- बेळगावीतः उत्तरे ५० कि.मी.दूरे अस्ति ।
- समीपस्थं विमानस्थानकम्- बेळगावीविमानस्थानकम्
- समीपस्थं रेल् निस्थानकम्- बेळगावी-५०कि.मी., घटप्रभा-१८कि.मी.
- नदी-हिरण्यकेशी
- यन्त्रागाराः-१) हीरा शुगर् फ्याक्टरी २)सङ्गमशुगर् फ्याक्टरी ३) विश्वनाथशुगर् फ्याक्टरी
- समीपस्थानि प्रेक्षणीयस्थानानि- गोकाकजलपातः, गोडचिनमल्किजलपातः
- विद्यालयाः- सर्वविधशैक्षणिकसौलभ्यानि सन्ति।
नाम्नः मूलम्
सम्पादयतुहुक्केरीशब्दस्य मूलं शब्दद्वयम् इति वक्तुं शक्यते । प्रादेशिकभाषया हूविन+केरे/केरी इति। तन्नाम पुष्पाणां सरः इति । पूर्वम् अनेकानि पुष्पाणि विपुलतया वर्धन्ते स्म । बिजापुरस्य आदिलशाहाय प्रतिदिनम् इतः पुष्पाणां प्रेषणं भवति स्म इति इतिहासः वदति ।
इतरविवरणानि
सम्पादयतु२००१ तमवर्षस्य जनगणनानुसारम् अस्य उपमण्डलस्य जनसंख्या १८,९०६ मिता । एतेषु पुरुषाः ५१%, महिलाः ४९% । साक्षरताप्रमाणं ६३%, तन्नाम भारतस्य साक्षरताप्रमाणस्य (५९.५%) अपेक्षया अधिकम् । पुरुषाणां साक्षरता प्रमाणं ७२%, महिलानां ५५% । १४% साक्षराः ऊनषड्वर्षियाः ।
हुक्केरीग्रामीणविद्युत्सहकारसङ्घः(The Hukkeri Rural Electric Co-operative Society Ltd(HRECS)
सम्पादयतुभारते ऐदम्प्राथम्येन पञ्जीकृतः ग्रामीणविद्युत्सहकारसङ्घः एषः । सर्वकारतः साहाय्यस्वीकरणं विना ७४% IP set उपभोगितायाः निर्वहणं करोति । विद्युत्वितरणे भारते एव अत्यधिकम् एतत् प्रमाणम् । एषः सहकारसङ्घः न केवलं हुक्केरी-उपमण्डलस्य अपि च बेळगावी-गोकाक-चिक्कोडी-उपमण्डलानां विद्युत्पूरणे समर्थः अस्ति । एतस्य सङ्घस्य कार्यव्याप्तिः ३०,०००च्तुरस्रकिलोमीटरमिता अस्ति । एतेन चतुर्लक्षमिताः जनाः लाभान्विताः सन्ति । अस्य सङ्घटनस्य पञ्च वलयाः सन्ति। ते च-
- हुक्केरी (पूर्वम्)
- हुक्केरी (पश्चिमम्)
- सङ्केश्वरम्
- यमकनमरडी
- हिडकल्जलबन्धः