हृदयनारायणदेव:।

एष: मध्यप्रदेशे शासक आसीत्।क्वचिदेष: शत्रो: पराभूत:।अनन्तरं स मण्डला इत्यत्र न्यवसत्।तस्य पितु: नाम प्रेमशाह:। हृदयनारायणदेवेन १७तमे शतके हृदयकौतुकम् तथा हृदयप्रकाश: इत्येतयो: ग्रन्थयो: रचना कृता।उभौ अपि संस्कृतभाषया कृतौ।हृदयकौतुके रागतरङ्गिणी-ग्रन्थसयानुसरणं दृश्यते।हृदयप्रकाशे अहोबलवत् वीणातन्तुषु स्वराणां स्थापना कृता।श्रुतिस्वरदृष्ट्या एतौ उभौ अपि ग्रन्थौ महत्त्वपूर्णौ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हृदयनारायणदेव:&oldid=419505" इत्यस्माद् प्रतिप्राप्तम्