होराशास्त्रम्
होराशास्त्रम् इति ज्योतिषस्य होरास्कन्धः वर्तते। ‘होराशास्त्रं जातकं ताजिकञ्च इति प्रसिद्धम्। ज्योतिषस्य हि सन्ति त्रयः स्कन्धाः – सिद्धान्तः संहिता होरा चेति। तत्र हि सिद्धान्तस्य द्वौ स्वरूप सिद्धान्तस्तन्त्रञ्च । तत्र यत्र हि कल्पादित एव गणना क्रियते स सिद्धान्तो यत्र च युगादारभ्य सा क्रियते तत्तन्त्रमिति । उभयोरेव द्वौ पादौ प्रत्येक गणितं गोलश्च । गणितस्य त्रयो भेदाः सामान्यगणितं बीजगणितं ग्रहगणितञ्च । सामान्य( पाटी गणितस्य द्वौ भेदौ व्यक्तगणितमव्यक्तगणितञ्चेति । यत्र स्कन्धे गणितफलितयोः सामान्येन निर्देशः सर्व विषयकत्वेन सा सङ्ग्रहस्वरूपा संहिता । साऽपि चतुष्पदा ग्रहचार-कालफलशकुनस्वरभेदात् । यत्र वैयक्तिकसम्बन्धेन फलादेशः सा होरा । साऽपि . पञ्चपदा जातकताजिकरमलप्रश्नस्वप्नभेदात् ।
परिचयः
सम्पादयतुसामान्यतो यत्र ग्रहस्थितितिथिनक्षत्रादिद्वारा मनुष्यस्य सुखदुःखाद्यवाप्तिनिर्णीयते तदेव होराशास्त्रमित्युच्यते । होराशब्दो हि अहोरात्रशब्दस्य आद्यान्ताक्षरविलोपेन निष्पन्न इति केचिद्वदन्ति । यथा पाराशरहोराशास्त्रे -
“अहोरात्रस्य पूर्वान्त्यलोपाद्धोराऽवशिष्यते ।'[१] इति ।
वयं तु शब्दोऽयं फलितज्योतिषार्थे रूढ इति मन्यामहे सौकर्यात् । वराहमिहिराचार्यों यथाऽऽह -
‘होरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वापरवर्णलोपात् ।[२]
तत्र भट्टोत्पल उपपत्तिमाह -
'मेषादयो द्वादशलग्नाशयोऽहोरात्रान्तर्भूताः लग्नस्य च कालवशाज्ज्ञानम् । लग्नवशाच्छुभाशुभज्ञानम् । अतोऽहोरात्राश्रयत्वात् तत एव होराशब्दो व्युत्पाद्यते।' इति ।
भट्टोत्पल एतदेवाचार्यस्याप्यभिप्रेतम् । यतः परमतगप्रतिषिद्धमनुमतमिति । वयन्तु एतप्त तस्याभिमतमिति मन्यामहे ‘एके' पदसूचितत्वात् । सामान्यतः ‘एकोपरान्यप्रभृतिशब्दरनभिमतमतमेव प्रकाशितं दृश्यते, शास्त्रान्तरेषु । यथा हि भगवान् पाणिनिः 'यजुष्येकेषाम्' ( ८।३।१०४ ) इति सूत्रे । सारावलीकारस्तु तदेवानुवदति । यथा -
'आद्यन्तवर्णलोपाद्धोराऽस्माकं भवत्यहोरात्रात् ।
तत्प्रतिषिद्धः सर्वो ग्रहभगणश्चिन्त्यते यस्मात् ॥' इति ।
ज्योतिषस्य होरोस्कन्धः स्वरूपसिद्धिस्तु हिंसांसंवरणाद्यर्थकाद् हुर धातोः ( 'हुल हुर हिंसासंवरणयोः'-पा० ) होरतीति पचाद्यचि टापि हुर्यते इति धनि टापि वा सिध्यति । अस्यार्थस्तु लग्नं राश्यर्द्ध रेखा शास्त्रभेदश्चेति मेदिन्याम् । लग्नेऽर्थे होरा यथा -
‘संज्ञा वेश्माष्टमयोश्चतुरस्र वैतपश्च नवमस्य ।
होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम् ॥[३]
“षष्ठं तृतीयं दशमञ्च राशिमेकादशञ्चोपचयक्षमाहुः ।
होरागृहस्थानेशशाङ्ककेभ्यः शेषाणि चैभ्योऽपचदात्मकानि ।'[४]
बृहज्जातके यथा--
'होरादयस्तनुकुटुम्बसहोत्थबन्धुपुत्रारिपत्निमरणानि शुभास्पदायाः ।।
रिःफाख्यमित्युपचयान्परिकर्मलाभदुश्चिक्यसंज्ञितगृहाणि न नित्यमेके ।'[५]
राश्यद्धेऽर्थे होरा यथा -
‘होरा राशिदलं समे प्रथमतश्चन्द्रस्य भानोरतो
व्यत्यासा'•••• •••••••••••।'[६]
'विषमक्षेषु प्रथमहोराः स्युश्चण्डरोचिषः ।।
द्वितीयाः, शशिनो युक्षु व्यत्ययाद् गणयेत् सदा ॥' ( ज्योतिस्तत्त्वे )
सार्द्धदण्डद्वयात्मककालेऽर्थे होरा यथा'चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते ।
पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥' ( आग्नेये गणभेदाध्याये )
लघुजातके होराशब्दप्रयोगो यथा -
‘गृहहोराद्रेष्काणा नवभागो द्वादशांशकस्त्रिशः ।।
वर्गः प्रत्येतव्यो ग्रहस्य यो यस्य निर्दिष्टः ॥' इति ।[७]
होराशब्दः शास्त्रार्थे तु सर्वत्रैव प्रयुक्तः ।
होराशास्त्रविषयो हि मनुष्यस्य प्राग्जन्मोपार्जितकर्म सदसत्फलकथनमेव । यथोक्तं बृहज्जातके -
‘कमजतं पूर्वभवे सदादि यत्तस्य पङक्ति समभिव्यनक्ति ।'[८]
यथा वा लघुजातके--
'यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पक्तिम् ।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥' इति ।।
ननु शुभस्य अशुभस्य वाऽवश्यम्भाविनः किं व्यनक्तीत्यपेक्षायामुच्यते द्विविधं शुभाशुभं दृढकर्मोपार्जितमदृढकर्मोपार्जितञ्च ।
तत्र दृढकर्मोपार्जितस्य दशाफलं पाकक्रमेण व्यनक्ति । अशुभं दशाफलं ज्ञात्वा यात्रादेः परिहारः कर्तव्यः । शुभं ज्ञात्वा प्रवृत्तिः । अदृढकर्मोपाजतस्य अष्टकवर्गेण फलव्यक्तिः तच्चाशुभं ज्ञात्वा शान्तिः कार्या । यथोक्तं यवनाचार्यैः--
‘यद्यद्विधानं नियतं प्रजानां ग्रहयोगप्रभवं प्रसुतौ ।
भाग्यानि तानीत्यभिशब्दयन्ति वार्तानियोगेति दशा नराणाम् ।।' इति ।
यदि हि दृढकमजतमशुभं तदा तस्य परिहारं कुर्यात् यदा त्वदृढकर्माजिताशुभं तदा पौरुषेण तद्धन्यादिति फलादेशस्य प्रयोजनम् । यथाऽऽह व्यासः -
‘विहन्याद् दुर्बलं देवं पुरुषेण विपश्चिता।' इति ।
ग्रहा हि पूर्वजन्मकर्माजितं शुभाशुभफलं व्यञ्जयन्तीत्येतस्य कथनस्यायमेवाशयो यद्यस्य यादृक् सञ्चितं कर्म स तदनुकूले समये जन्म लभत इति । ग्रहनक्षत्राण्यपि तथैव यथायोगमनुकुलाः प्रतिकूली वा भूत्वा शुभमशुभं वा प्रकटयन्ति च ।, शुभाशुभज्ञानानन्तरं नरः शान्त्यादिविविधोपायेन शुभं परिहर्त प्रभवेदिति फलादेशस्य महत्त्वम् । यस्य जन्मनि यस्य यस्य ग्रहादेः प्राबल्यं स तत्समानप्रकृतिक एव भवतीति भेलापकादावस्य सुमहत्प्रयोजनम् । अत एवोक्तं 'त्रिस्कन्धज्ञो नांवसीदतीति । तस्मात् स्थितमेतत् अस्यावश्यकता यथाऽऽह कल्याणवर्मा -
अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः ।
यात्रासमये मन्त्री जातकमपहाय नास्त्यपरः ॥” इति ।।[९]
होराशास्त्रस्य विभागः
सम्पादयतुयत्र हि जन्मकालिकग्रहाद्यवस्थितिमाधारीकृत्य जनस्य भूतवर्तमानभाविशुभाशुभफलादेशः क्रियते तज्जातकशास्त्रम् ।
खस्थानां पिण्डानां भूस्थितैर्जनैः सह सम्बन्धनं सहसा न प्रतीतिमायाति । किन्तु तयोरविच्छेद्यः सम्बन्धोऽस्त्येव यथार्थतः । सत्यमेवोक्तम् -
‘ग्रहैर्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्' । इति ।
सूक्ष्मावलोकनेनैतत्स्पष्टमेव ज्ञायते यद्यत्प्रकृतिको यस्य जन्मनक्षत्रतत्स्वामिराशितत्पतिलग्नतत्पमासतत्पतिवासरतिथितत्पतीत्यादिः तत्प्रकृतिक एवं जनो भवतीति । यथा हि मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च भवति । यदि योगान्तरवशात् कस्मिभिन्नापि सर्वाणि लक्षणानि घटेरंस्तथापि स्वल्पमपि जन्मराशिप्रभावं देहे दृश्यत एव । एवमेव नक्षत्रादीनामपि । तेन जातकफलादेशात पूर्वं खस्थपिण्डज्ञानमत्यावश्यकीयं भवति ।