ॐ तत्सदिति निर्देशो...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
- ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
सम्पादयतुॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥
अन्वयः
सम्पादयतुॐ तत् सत् इति त्रिविधः निर्देशः ब्रह्मणः स्मृतः । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः ।
शब्दार्थः
सम्पादयतु- निर्देशः = उच्चारणम्
- ब्रह्मणः = परब्रह्मणः
- स्मृतः = प्रसिद्धः
- पुरा = पूर्वम्
- विहिताः = निर्मिताः ।
अर्थः
सम्पादयतुॐ तत् सत् इति त्रिभिः शब्दैः ब्रह्मणः निर्देशः क्रियते । तेन च ब्रह्मणा ब्राह्मणाः वेदाः यज्ञाः च पूर्वं निर्मिताः ।