तेषां सततयुक्तानां...

(१०.१० तेषां सततयुक्तानां.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः सम्पादयतु

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन माम उपयान्ति ते ॥ १० ॥

अन्वयः सम्पादयतु

सततयुक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धियोगं ददामि येन ते माम् उपयान्ति ।

शब्दार्थः सम्पादयतु

सततयुक्तानाम् = नित्ययुक्तानाम्
प्रीतिपूर्वकम् = स्नेहपूर्वकम्
भजताम् = सेवमानानाम्
तेषाम् = तेषां बुधानाम्
बुद्धियोगम् = मद्विषयकं योगम्
ददामि = प्रयच्छामि
येन = येन योगेन
ते = बुधाः
माम् उपयान्ति = मां प्राप्नुवन्ति ।

अर्थः सम्पादयतु

नित्ययुक्तानां स्नेहपूर्वकं सेवमानानां तेषां बुधानां तं मद्विषयकं योगं प्रयच्छामि येन योगेन ते बुधाः मां प्राप्नुवन्ति ।

रामानुजभाष्यम् सम्पादयतु

तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि येन ते मामुपयान्ति ॥१०.१०॥

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तेषां_सततयुक्तानां...&oldid=418585" इत्यस्माद् प्रतिप्राप्तम्