स्वयमेवात्मनात्मानं...
(१०.१५ स्वयमेवात्मना.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
- भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
सम्पादयतुस्वयम् एव आत्मना आत्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
अन्वयः
सम्पादयतुपुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ! त्वं स्वयम् एव आत्मना आत्मानं वेत्थ ।
शब्दार्थः
सम्पादयतु- पुरुषोत्तम = पुरुषश्रेश्ह्ठ
- भूतभावन = भूतोत्पादक
- भूतेश = भूतप्रभो
- देवदेव = देवाधिदेव
- जगत्पते = जगदीश
- त्वं स्वयमेव = त्वं स्वयमेव
- आत्मना आत्मानम् = आत्मना स्वम्
- वेत्थ = जानासि ।
अर्थः
सम्पादयतुपुरुषश्रे भूतोत्पादक भूतप्रभो देवाधिदेव जगदीश ! भवान् स्वयम् एव आत्मानं जानाति, नान्ये ।