विस्तरेणात्मनो योगं...
(१०.१८ विस्तरेणात्मनो.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
- भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
सम्पादयतुविस्तरेण आत्मनः योगं विभूतिं च जनार्दन भूयः कथय तृप्तिः हि शृण्वतः नास्ति मे अमृतम् ॥ १८ ॥
अन्वयः
सम्पादयतुजनार्दन ! आत्मनः योगं विभूतिं च विस्तरेण भूयः कथय । अमृतं शृण्वतः मे तृप्तिः नास्ति ।
शब्दार्थः
सम्पादयतु- जानार्दन = कृष्ण !
- आत्मनः = स्वस्य
- योगम् = स्वरूपम्
- विभूतिं च = ऐश्वर्यं च
- विस्तरेण = विपुलं यथा तथा
- भूयः = पुनः
- कथय = वद
- हि = यस्मात्
- अमृतम् = अमृततुल्यम्
- शृण्वतः मे = आकर्णयतः मम
- तृप्तिः = तुष्टिः
- नास्ति = न विद्यते ।
अर्थः
सम्पादयतुकृष्ण ! स्वस्य स्वरूपं माहात्म्यविस्तरं च विस्तरेण पुनः वद । अमृततुल्यं तत् आकर्णयतः मम तृप्तिः एव न भवति ।