हन्त ते कथयिष्यामि...
(१०.१९ हन्त ते कथयिं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
श्रीभगवान् उवाच -
- हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
- प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य नवदशः(१९) श्लोकः ।
पदच्छेदः
सम्पादयतुहन्त ते कथयिष्यामि दिव्याः हि आत्मविभूतयः प्राधान्यतः कुरुश्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १९ ॥
अन्वयः
सम्पादयतुकुरुश्रेष्ठ ! हन्त | (या:) आत्मविभूतयः दिव्याः हि (ता:) ते प्राधान्यतः कथयिष्यामि । मे विस्तरस्य अन्तः नास्ति ।
शब्दार्थः
सम्पादयतु- कुरुश्रेष्ठ = कुरुपुङ्गव !
- हन्त = अहो !
- दिव्याः हि = दिव्याः
- आत्मविभूतयः = स्वस्य ऐश्वर्यविशेषाः
- च ते = तुभ्यम्
- प्राधान्यतः = मुख्यत्वेन
- कथयिष्यामि = वदिष्यामि
- मे विस्तरस्य = मम विभूतीनां वैशाल्यस्य
- अन्तः = अवधिः
- नास्ति = न विद्यते ।
अर्थः
सम्पादयतुकुरुपुङ्गव ! अधुना स्वस्य दिव्येषु ऐश्वर्येषु प्राधान्यतः कानिचिदेव कथयिष्यामि । यतः मम विभूतीनाम् अन्तः नास्ति ।