भूय एव महाबाहो...

(१०.१ भूय एव महाबाहो.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य प्रथमः(१) श्लोकः ।

पदच्छेदः सम्पादयतु

भूय एव महाबाहो शृणु मे परमं वचः यत् ते अहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

अन्वयः सम्पादयतु

महाबाहो ! भूयः एव मे परमं वचः शृणु यत् अहं प्रीयमाणाय ते हितकाम्यया वक्ष्यामि ।

शब्दार्थः सम्पादयतु

महाबाहो = अर्जुन

भूयः एव = पुनः अपि
मे = मम
परमम् = उत्कृष्टम्
वचः = वचनम्
शृणु = आकर्णय
यत् = यद्वचनम्
अहम् = एषोऽहम्
प्रीयमाणाय = सन्तुष्यते
ते = तुभ्यम्
हितकाम्यया = हितेच्छया
वक्ष्यामि = वदिष्यामि ।

अर्थः सम्पादयतु

महाबाहो ! पुनः अपि मम उत्कृष्टं वचनम् आकर्णय यत् अहं मम वचनेन सन्तुष्यते ते हितेच्छया वदिष्यामि ।

रामानुजभाष्यम् सम्पादयतु

भक्तियोगं सपरिकर उक्तम् । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भगवतो निरङ्कुशैश्वर्यादिकल्याणगुणगणानन्त्यं, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनाय भूयो मन्माहात्म्यप्रपञ्चविषयमेव परमं वचो यद्वक्ष्यामि तदवहितमनां सृणु ॥१०.१॥

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भूय_एव_महाबाहो...&oldid=418698" इत्यस्माद् प्रतिप्राप्तम्