अहमात्मा गुडाकेश...

(१०.२० अहमात्मा गुडां.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः सम्पादयतु

 
गीतोपदेशः
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः सम्पादयतु

अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः अहम् आदिः च मध्यं च भूतानाम् अन्तः एव च ॥ २० ॥

अन्वयः सम्पादयतु

गुडाकेश ! सर्वभूताशयस्थितः आत्मा अहं भूतानाम् आदिः च मध्यं च अन्तः च एव अहम् ।

शब्दार्थः सम्पादयतु

गुडाकेश = (जितनिद्र) अर्जुन !
सर्वभूताशयस्थितः = सर्वप्राणिहृदयस्थितः
आत्मा = प्रत्यगात्मा अहम्
भूतानाम् = प्राणिनाम्
आदिः च = मूलं च
मध्यं च = मध्यभागः च
अन्तः एव च = अवसानम् अपि
अहम् = अहम् ।

अर्थः सम्पादयतु

अर्जुन ! सर्वप्राणिहृदयस्थितः प्रत्यगात्मा अहं प्राणिनां मूलं मध्यभागः अवसानं च अस्मि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अहमात्मा_गुडाकेश...&oldid=418453" इत्यस्माद् प्रतिप्राप्तम्