आदित्यानामहं विष्णुः...
(१०.२१ आदित्यानामहं.... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
- मरीचीर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
सम्पादयतुआदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् मरीचीः मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ २१ ॥
अन्वयः
सम्पादयतुअहम् आदित्यानां विष्णुः, ज्योतिषाम् अंशुमान् रविः, मरुतां मरीचिः अस्मि, नक्षत्राणाम् अहं शशी ।
शब्दार्थः
सम्पादयतु- आदित्यानाम् = सूर्याणाम्
- विष्णुः = विष्णुः
- ज्योतिषाम् = प्रकाशयितॄणाम्
- अंशुमान् = रश्मिमान्
- रविः = सूर्यः
- मरुताम् = मरुद्देवतानाम्
- मरीचिः = मरीचिनामकः
- अहम् अस्मि = अहं भवामि
- नक्षत्राणाम् = नक्षत्राणाम्
- शशी = चन्द्रः ।
अर्थः
सम्पादयतुअहं द्वादशादित्यानां मध्ये विष्णुनामकः आदित्यः अस्मि । प्रकाशयितॄणां मध्ये रश्मिमान् सूर्यः अस्मि। मरुद्देवतानां मध्ये मरीचिः अस्मि । नक्षत्राणां मध्ये चन्द्रः अस्मि।